अक्षर आकार:

गुहपञ्चरत्नम्

guhapancharatnam

गुहपञ्चरत्नम्

ओङ्कार-नगरस्थं तं निगमान्त-वनेश्वरम् । नित्यमेकं शिवं शान्तं वन्दे गुहं उमासुतम् ॥ १॥ वाचामगोचरं स्कन्दं चिदुद्यान-विहारिणम् । गुरुमूर्तिं महेशानं वन्दे गुहं उमासुतम् ॥ २॥ सच्चिदनन्दरूपेशं संसार-ध्वान्त-दीपकम् । (ॐ श्री) सुब्रह्मण्यं अनाद्यन्तं वन्दे गुहं उमासुतम् ॥ ३॥ स्वामिनाथं दयासिन्धुं भवाब्धेः तारकं प्रभुम् । निष्कलङ्कं गुणातीतं वन्दे गुहं उमासुतम् ॥ ४॥ निराकारं निराधारं निर्विकारं निरामयम् । निर्द्वन्द्वं च निरालम्बं वन्दे गुहं उमासुतम् ॥ ५॥ ॥ इति गुहपञ्चरत्नम् ॥