अक्षर आकार:

श्रीदण्डपाणिपञ्चरत्नम्

Shri Dandapanipancharatnam

श्रीदण्डपाणिपञ्चरत्नम्

चण्डपापहरपादसेवनं गण्डशोभिवरकुण्डलद्वयम् । दण्डिताखिलसुरारिमण्डलं दण्डपाणिमनिशं विभावये ॥ १॥ कालकालतनुजं कृपालयं बालचन्द्रविलसज्जटाधरम् । चेलधूतशिशुवासरेश्वरं दण्डपाणिमनिशं विभावये ॥ २॥ तारकेशसदृशाननोज्ज्वलं तारकारिमखिलार्थदं जवात् । तारकं निरवधेर्भवाम्बुधेर्दण्डपाणिमनिशं विभावये ॥ ३॥ तापहारिनिजपादसंस्तुतिं कोपकाममुखवैरिवारकम् । प्रापकं निजपदस्य सत्वरं दण्डपाणिमनिशं विभावये ॥ ४॥ कामनीयकविनिर्जिताङ्गजं रामलक्ष्मणकराम्बुजार्चितम् । कोमलाङ्गमतिसुन्दराकृतिं दण्डपाणिमनिशं विभावये ॥ ५॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीदण्डपाणिपञ्चरत्नं सम्पूर्णम् ।