अक्षर आकार:

श्रीदण्डायुधपाणिस्वामी सुप्रभातम्

shrIdaNDAyudhapANisvAmI suprabhAtam

श्रीदण्डायुधपाणिस्वामी सुप्रभातम्

उत्तिष्ठोत्तिष्ठ गाङ्गेय उत्तिष्ठ शिखिवाहन । उत्तिष्ठ करुणासिन्धो त्रैलोक्यं मङ्गलं कुरु ॥ १॥ श्रीपार्वतीवदनपद्मदिवाकर श्रीशम्भोर्ललाटनयनोद्भव रक्तवर्ण । श्रीहंसवाहन जनार्दनवन्दनीय श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ २॥ श्रीपञ्चवक्त्रपरमेश्वरवामभागाऽलङ्कारयोषिदवलम्बनपूर्णरूप । गङ्गासुतप्रिय वरप्रद दानशील श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ३॥ बालार्कभास पवनासन बाहुलेय धातुस्स्वदर्पहर तारकदैत्यहारिन् । ॐकारसारपरमेश्वरबोधनीय श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ४॥ ज्ञानार्णवाभिध शिवोद्भवपूर्णचन्द्र ज्ञानप्रभाभिरभिभासितलोकमूर्ते । श्रीचूतमुक्तफलमाप्तुमितस्थितोऽसि श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ५॥ बालेन्दुमौलिपरमेश्वरपूजकस्य पद्मासुरस्य मलपाशविमोचनाय । कल्याणदानकरुणार्णवपूर्णरूप श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ६॥ लक्ष्मीनिवासनयनोद्भवकन्यकाभ्यां वल्ली महेन्द्रतनयापरिशोभनाङ्ग । श्रीमच्छिवे गिरिवरेऽपि विराजमान श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ७॥ कन्दर्पदर्पहर सुन्दर दिव्यमूर्ते मन्दारमुख्यबहुपुष्पसुपूजिताङ्घ्रे । मन्दस्मितेन परिपूर्णकृपाप्रदान श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ८॥ सिन्दूरवर्ण शिवभस्मविलेपिताङ्ग दिव्यैर्विचित्रनवरत्नसुवर्षिताङ्घ्रे । सुभूषिताङ्घ्रे कौपीनदण्टधरहस्तविराजमान श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ९॥ पादारविन्दपतितं निजभक्तमस्मिन् लोकत्रयेऽपि परिपूजितपीठवेशिन् । धर्मार्थकामपुरुषार्थफलप्रदान श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ १०॥ ॐकाररूप परिदिव्यविलासमूर्ते चन्द्रार्धरोधिपरिनादतदन्तरूप । शक्तेर्वियापिनि परे समनोन्मनान्त श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ११॥ प्रातर्निदर्शसमये निजबालरूप मध्याह्न विप्रजनवेषसुरूपधारिन् । सायह्न राजधृतवेष सुयोगि रात्रौ श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ १२॥ कालत्रयेऽपि तनुतां करुणाभिवृष्ट लोकत्रयेऽपि विनुत त्रिदशैश्च नित्यम् । तत्त्वत्रयोपरिनिविष्टविभूतिदेय श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ १३॥ भक्ताग्रभूतमरुणाचलनामधेयं मुक्ताद्यनेकविविधस्तुवितं दयालो । बद्घात्मसौख्यवरदत्त महाप्रभो मे श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ १४॥ विश्वार्तिभञ्जन विशालसुलोचन श्रीकोणं कुरुष्व कृपया पतिताय मह्यम् । लोकोद्धराय परमाद्भुतभूरिमूर्ते श्रीसुप्रभातमधुना कुरु दण्डपाणे ॥ ९५॥ विना दण्डपाणिं न नाथो न नाथस्सदा दण्डपाणिं स्मरामि स्मरामि । प्रभो दण्डपाणे प्रसीद प्रसीद प्रियं दण्डपाणे प्रयच्छ प्रयच्छ ॥ १६॥ अहं त्वा दिनादौ नमस्कृत्य नित्यं तवैवाश्रितस्सर्वकार्यं करोमि । त्वमेवासि मामुद्धराय प्रवृत्तस्त्वमेवासि सर्वं सुकर्तुं च भोक्तुम् ॥ १७॥ गिरौ सन्निविष्टस्सुरेशानपुत्रस्सदा दण्डहस्तश्चिदानन्दगात्र । मुदा राजवेषः परानन्दहासस्स नः पातु देवो गुहो बालरूपः ॥ १८॥ शुभं रक्तवर्णं शिवं शम्भुसूनुं कराम्भोजयुग्मान्वितं पङ्कजस्थम् । शिवानन्दसन्दोहबद्धं प्रपद्ये भवाम्बोधिपारं गुहं षण्मुखाख्यम् ॥ १९॥ हरिब्रह्मदेवेन्द्रवन्द्यं सुरेशं निधिवृन्दसंसेवितस्यात्मजापम् । गुरुं ग्रामपालप्रियं तारकारिं भजे भुक्तिमुक्तिप्रदं भीतिनाशम् ॥ २०॥ गिरिजाकरपल्लव सल्ललितं गिरिजोद्भवमूलसुविग्रहगम् । गुरुमूर्तिमनन्तवरं ददतं करुणाजलधिं भज दण्डधरम् ॥ २१॥ शिवभोगसमुद्भवकीर्तिधरं शुभयोगवरप्रदमूर्तिवरम् । परिपालितधर्मकुलं वरदं करुणाजलधिं भज दण्डधरम् ॥ २२॥ प्रणवान्तरनादकलादिवरं प्रणतार्तिहरं प्रणतां विहितम् । फलदं बलदं वरसन्निहितं करुणाजलधिं भज दण्डधरम् ॥ २३॥ विधिवद्विनुतैर्विधिवद्विनुतं विविधा विनुतैर्विविधा विनुतम् । परितुल्यफलप्रदतं करुणाजलधिं भज दण्डधरम् ॥ २४॥ स्तवराजशिवार्चितपादयुगं स्तुतिराजसुकीर्तनवाक्यगतम् । निजबालकुटुम्बसुपालवरं करुणाजलधिं भज दण्डधरम् ॥ २५॥ कल्पवृक्षाय नमतां करुणासगराय च । कौपीनदण्डहस्ताय कन्दर्पायुतभासिने ॥ २६॥ ईतिभीतिनिवाराय चान्धकारनिरोधिने । ज्ञानप्रदाय शान्ताय श्रीस्कन्दगुरवे नमः ॥ २७॥ स्वामिने कामिनां कामपूरणाय कलौ युगे । वरदामलकारण्यवासमानाय मङ्गलम् ॥ २८॥ परिपूर्णतनुस्थाय कदम्बवनवासिने । पळणीगिरिवासाय भासमानाय मङ्गलम् ॥ २९॥ भाग्यप्रदाय ते बालसुब्रह्मण्यनुताय च । भूरिभोगप्रदानाय भोगपूज्याय मङ्गलम् ॥ ३०॥ वरदानकराब्जाय वासिने शिवपर्वते । भयपीडितभक्तैश्च वन्दितायास्तु मङ्गलम् ॥ ३१॥ सर्वमङ्गलरूपाय सर्वमङ्गलकारिणे । ज्ञानमङ्गलरूपाय ज्ञानस्कन्दाय मङ्गलम् ॥ ३२॥ Composition of Sri KS Balasubrahmanya Sivachariyar from Pazhani, TN on Lord Subrahmanya