अक्षर आकार:

श्रीनीलकण्ठतीर्थस्वामिविरचितः श्रीबाहुलेयस्तवः

shrIbAhuleyastavaH by shrInIlakaNThatIrthasvAmi

श्रीनीलकण्ठतीर्थस्वामिविरचितः श्रीबाहुलेयस्तवः

ऐश्वर्यमप्रतिममत्रभवान्कुमारः सर्वत्र चावहतु नः करुणापणः सः । येनात्मवल्लषितभाग्यपरार्ध्यभूमिः स्वाराज्यसम्पदपि शश्वदहो सनाथा ॥ १॥ श्रीस्कन्दकल्पविटपी कुरुतात्स बाह्य- माभ्यन्तरं च विभवं युगपत्सदा नः । दृग्व्यापृतिप्रतिमितिं भ्रमरावलीं यो नित्यं बिभर्ति करुणामकरन्दपुष्टाम् ॥ २॥ भद्रं कृषीष्ट नितरामिह सैद्धसेनी(१) सानुग्रहप्रकृतिनेत्रपरम्परा नः । मोहान्धकूपपतितेऽव्यभिचारतो द्राग् या दोरकी(२) भवति तत्पदबद्धचित्ते ॥ ३॥ विद्या चतुर्दशतयी शरजन्मनाम्नि यस्मिन्नु पर्यवसिताऽव्यवधानतो नः । पुष्णातु सैष सकलासु कलासु दाक्ष्यं चिन्तामणिप्रतिभटी भवदङ्घ्रिरेणुः ॥ ४॥ षाण्मातुरस्मितवलच्छरदागमो मे प्रज्ञासरोवरमलं विमलं दधातु । येनात्र सच्चितियुसुखैकरसात्मचन्द्रं साक्षात्करोत्वनिदमात्मतयाऽयमेव ॥ ५॥ दद्युः श्रियस्त्रिभुवनाद्भुतबस्तुवार्द्धि- मन्थाद्रिविभ्रमपटूनि गुहेक्षणानि । स्तन्यावसानसमये निजमातृवक्त्र- पद्मे भ्रमद्भ्रमरिकालघुमन्थराणि ॥ ६॥ नैसर्गिकी यदापि भिन्नपुमाश्रयात्वं वाचः श्रियस्तदपि यत्करुणाकटाक्षः । सूतेऽन्वहं निजजनेषु रविप्रभेव श्लिष्टे नुमः परमकारुणिकं गुहं तम् ॥ ७॥ प्रत्यक्तया श्रुतिपुराणवचोनिगुम्फ- स्तात्पर्यवान्भवति वर्णयितुं यमर्थम् । श्रेयांसि नैकविधया प्रकटं विदध्या- त्सैषोऽग्निभूरिह परार्थसमुद्यमेषु ॥ ८॥ नैयत्यतो हृदि पदं स तनोतु बाल(३)- चर्यः स्तिथिं य इह साक्षितयापि धत्ते । एवं च बुद्ध्यरणितत्पदचित्रगूत्था(४) संवित्तिदीपकलिकाखिलदीपिका स्यात् ॥ ९॥ यमिन्मनागपि मनः प्रणिधाय काय- व्यूहादिसर्वविभवं प्रतिपद्यते ना । योगेश्वरेश्वरमितः कृकवा(५)कुकेतुं भत्त्या व्रजामि शरणं करणणैस्त्रिभिस्तम् ॥ १०॥ शब्दा(६)नुशासननयपतिनोऽत्र वर्ण व्यङ्ग्यस्ततो भवति योऽर्थ इवातिरिक्तः । स्फोटः स एष इति यं कथयन्ति नित्यं कुर्मस्तमेय इदि षण्मुखनामधेयम् ॥ ११॥ मार्गान्तरोक्त(७)विधया परमाणुवर्गे- ष्वाद्यं समुन्मिषति जन्तुकृतेन कर्म । यस्यात्मसंविदुदयस्य विभोः सिसृक्षा- वेलासु नौमि परकारुणिकं गुहं तम् ॥ १२॥ यद्ययन्न पूरयति ते चरणानुषङ्ग- स्तत्तद्ध्यनुद्भवपराहतमेव विद्मः । वस्त्वीप्सितं क्वचिदपीशतनूज तस्मा- न्नेत्रामृतप्रभ दृशोर्विषयस्त्वमेधि ॥ १३॥ वाचस्पतिप्रमुखवागपि यत्र कुण्ठी- भावं प्रयाति तमिति प्रणुवन्न लज्जे । त्वद्भक्तिभारमुखरीकरणान्मृषित्वा स्वामिन्विधेहि तदपीह कृपार्द्रदृष्टिम् ॥ १४॥ कालत्रयेऽपि करणत्रयसम्पदे नः सर्वोत्तमत्वत इहाभिमतं तवापि । यद्यद्धि तत्तदखिलं करुणाम्बुवारि- वाहाशु मे वितर हे भगवन्नमस्ते ॥ १५॥ श्रीबाहुलेयस्तवमुत्तमं यः पठेत्प्रभाते प्रयतः स धीमान् । वागर्थविज्ञानघनाढ्यतामे- त्यन्ते विशोकं पदमभ्युपेयात् ॥ १६॥ अर्भाह्वस्वामिपादाब्जमरन्दरसशीलिनः । श्रीनीलकण्ठतीर्थाख्यस्येदं स्वामि(८)समर्पणम् ॥ १७॥ नमो गुहाय । ॐ ॥ इति श्रीनीलकण्ठतीर्थस्वामिविरचितः श्रीमद्बाहुलेयस्तवः सम्पूर्णः ॥ Footnotes Verse 3 (१) सिद्धसेनस्य=स्कन्दस्य-इयम् । (२) समुद्धरणोपयोगि रज्जुरिति भावः ॥ Verse 9 (३) बालचर्यः सिद्धसेन इति त्रि. शे. । (४) चित्रगुरुरुत्तरारणिः । ज्ञानं कृत्वा तु चित्रगुं द. मु. उप. । Verse 10 (५) मायण सः पु. दे. । केशित काममाया ॥ Verse 11 (६) वैयाकरणाः । Verse 12 (७) वैशेषिकोतगतः । Verse 17 (८) इमारतु सामी द्वादशलोचनः त्रि.शे.