अक्षर आकार:

तिरुचेन्दूर् षण्मुखस्तोत्रम्

Tiruchendur Shanmukha Stotram

तिरुचेन्दूर् षण्मुखस्तोत्रम्

ॐ श्रीगणेशाय नमः । आदिशङ्कर प्रोक्तम् - नारदादिदेवयोगिवृन्दहृन्निकेतनं बर्हिवर्यवाहमिन्दुशेखरेष्टनन्दनम् । भक्तलोकरोगदुःखपापसङ्घभञ्जनं भावयामि सिन्धुतीरवासिनं षडाननम् ॥ १॥ तारकरीमिन्द्रमुख्यदेववृन्दवन्दितं चन्द्रचन्दनादि शीतळाङ्कमात्मभावितम् । यक्षसिद्धकिन्नरादिमुख्यदिव्यपूजितं भावयामि सिन्धुतीरवासिनं षडाननम् ॥ २॥ चम्पकाब्जमालतीसुमादिमाल्यभूषितं दिव्यषट्किरीटहारकुण्डलाद्यलङ्कृतम् । कुङ्कुमादियुक्तदिव्यगन्धपङ्कलेपितं भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ३॥ आश्रिताखिलेष्टलोकरक्षणामराङ्घ्रिपं शक्तिपाणिमच्युतेन्द्रपद्मसम्भभवाधिपम् । शिष्टलोक चिन्तितार्थसिद्धिदानलोलुपं भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ४॥ वीरबाहु पूर्वकोटिवीरसङ्घसौख्यदं शूरपद्ममुख्यलक्षकोटिशूरमुक्तिदम् । इन्द्रपूर्वदेवसङ्घसिद्धनित्यसौख्यदं भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ५॥ जम्बवैरिकामिनीमनोरथाभिपूरकं कुम्भसम्भवाय सर्वधर्म सारदायकम् । तं भवाब्धिपोतमम्बिकेयमाशु सिद्धिदं भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ६॥ पूर्णचन्द्रबिम्बकोटितुल्यवक्त्रपङ्कजं वर्णनीयसच्चरित्रमिष्टसिद्धिदायकम् । स्वर्णवर्णगात्रमुग्रसिद्धलोकशिक्षकं भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ७॥ पूर्वजन्मसञ्चिताघसङ्घभङ्गतत्परं सर्वधर्मदानकर्मपूर्वपुण्यसिद्धिदम् । सर्वशत्रुसङ्घभङ्गदक्षमिन्द्रजापतिं भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ८॥ इति तिरुचेन्दूर् षण्मुखस्तोत्रं अथवा षण्मुखाष्टकम् सम्पूर्णम् ।