अक्षर आकार:

श्रीषण्मुखपञ्चरत्नस्तुतिः

shrIShaNmukhapa~ncharatnastutiH

श्रीषण्मुखपञ्चरत्नस्तुतिः

ॐ श्रीगणेशाय नमः । स्फुरद्विद्युद्वल्लीवलयितमगोत्सङ्गवसतिं भवाप्पित्तप्लुष्टानमितकरुणाजीवनवशात् । अवन्तं भक्तानामुदयकरमम्भोधर इति प्रमोदादावासं व्यतनुत मयूरोऽस्य सविधे ॥ १॥ सुब्रह्मण्यो यो भवेज्ज्ञानशक्त्या सिद्धं तस्मिन्देवसेनापतित्वम् । इत्थं शक्तिं देवसेनापतित्वं सुब्रह्मण्यो बिभ्रदेष व्यनक्ति ॥ २॥ पक्षोऽनिर्वचनीयो दक्षिण इति धियमशेषजनतायाः । जनयति बर्ही दक्षिणनिर्वचनायोग्यपक्षयुक्तोऽयम् ॥ ३॥ यः पक्षमनिर्वचनं याति समवलम्ब्य दृश्यते तेन । ब्रह्म परात्परममलं सुब्रह्मण्याभिधं परं ज्योतिः ॥ ४॥ षण्मुखं हसन्मुखं सुखाम्बुराशिखेलनं सन्मुनीन्द्रसेव्यमानपादपङ्कजं सदा । मन्मथादिशत्रुवर्गनाशकं कृपाम्बुधिं मन्महे मुदा हृदि प्रपन्नकल्पभूरुहम् ॥ ५॥ इति जगद्गुरु श‍ृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती श्रीपादैः विरचिता श्रीषण्मुखपञ्चरत्नस्तुतिः समाप्ता ।