अक्षर आकार:

श्रीषण्मुखमानसपूजा २

Shri Shanmukha Manasapuja 2

श्रीषण्मुखमानसपूजा २

ॐ श्रीगणेशाय नमः । ध्यायेत्षण्मुखपादपद्मयुगळं हृत्पद्ममध्ये स्थितं भक्त्योदकेन पाद्यञ्च ज्ञानार्घ्यं च समर्पितम् । वैराग्यगङ्गातीर्थेन शुद्धाचमनमर्पितं बाष्पवारिधिपुण्योदकस्नानं शुद्धहृदयश्वेताम्बरं स्वीगुरु ॥ १॥ तापत्रयोपवीतं च गन्धान् सुमनसेव च । पुष्पमालां तव स्तुतिकदम्बौ आशापाशधूपमर्पितं पञ्चेन्द्रियदिव्यदीपं भक्ष्यभोज्यमात्मनिवेदनं स्वयम्प्रकाशकर्पूरेण नीराजनं दर्शितम् ॥ २॥ शरीरसञ्चारकृत्यसकलप्रदक्शिण नमस्कारान् विभो पुष्पाञ्जलिं मम हृदयकमलं पूजयमि सदा प्रभो अन्यथा शरणं नास्ति त्वमेव मे गतिर्गुह ममापराधसहस्रं क्षमस्व करुणनिधे ॥ ३॥ इति आण्डवन्पिच्चैअम्माळ् कृता श्रीषण्मुखमानसपूजा समाप्ता ।