अक्षर आकार:

श्रीषण्मुखध्यानम्

shrIShaNmukhadhyAnam

श्रीषण्मुखध्यानम्

ॐ श्रीगणेशाय नमः । षडाननं त्रिषण्णेत्रं विद्रुमाभं द्विपादकम् । खड्गाभयगदाशक्तिखेटं दक्षिणबाहुभिः ॥ १॥ वरपद्मधनुःशूलवज्रान् वामेन धारिणम् । वज्रप्रवाळवैडूर्यप्रत्युप्तमकुटान्वितम् ॥ २॥ पीताम्बरविभूषाढ्यं दिव्यगन्धानुलेपनम् । रत्नाद्याभरणैर्युक्तं प्रसन्नवदनान्वितम् ॥ ३॥ मयूरेशसमासीनं सर्वाभरणभूषितम् । गुहं षोडशवेतानं षण्मुखं च विभावयेत् ॥ ४॥ पूर्वमुखध्यानं वचद्भुवं शशाङ्काभं एकवक्त्रं त्रिलोचनम् । चतुर्भुजसमायुक्तं वराभयसमन्वितम् ॥ स्वये चान्ये दण्डयुतं ऊरूहस्तं च वामके । रुद्राक्षमालाभरणं भस्मपुण्ड्राङ्गितं क्रमात् ॥ पुरश्चूडासमायुक्तं मौञ्जीकौपीनधारिणम् । अक्षमालासमायुक्तं पादुकाद्वयभूषितम् ॥ काषायवस्त्रसंयुक्तं वचद्भुवं विभावयेत् ॥ दक्षिणमुखध्यानम् । जगद्भूतं भृङ्गवर्णं एकवक्त्रं वराभयम् । शक्तिशूलसमायुक्तं करण्डमकुटान्वितम् ॥ मयुरेशसमासीनं भावये च विशेषतः ॥ नैरृतिमुखध्यानम् विश्वभुवं च रक्ताभं एकवक्त्रं त्रिलोचनम् । वराभयकरोपेतं खड्गकेटकसम्युतम् ॥ मयूरवाहनारूढं भावयेत्सततं मुदा ॥ पश्चिममुखध्यानम् । शुक्लवर्णं ब्रह्मभुवं एकवक्त्रं त्रिलोचनम् । वराभयसमायुक्तं घण्डानादसमन्वितम् ॥ मयूरेशसमासीनं भावये च विशेषतः ॥ उत्तरमुखध्यानम् । हेमवर्णञ्चाग्निभुवं त्रिनेत्रं चैकवक्त्रकम् । वराभयसमायुक्तं गदाध्वजसमन्वितम् ॥ मयूरवाहनारूढं भावयेद्वह्निसम्भवम् ॥ ईशानमुखध्यानम् । बृहद्भुवं च स्फटिकवर्णाभं चैकवक्त्रकम् । वराभयसमायुक्तं त्रिनेत्रं यज्ञसूत्रकम् ॥ मयूरेशसमासीनं बृहद्भुवं विभावयेत् ॥ ॐ नमो भगवते सुब्रह्मण्याय ।