अक्षर आकार:

श्रीषण्मुखभुजङ्गस्तुतिः

Shri Shanmukhabhujangastuti

श्रीषण्मुखभुजङ्गस्तुतिः

ॐ श्रीगणेशाय नमः । ह्रिया लक्ष्म्या वल्ल्या सुरपृतनयाऽऽलिङ्गिततनुः मयूरारूढोऽयं शिववदनपङ्केरुहरविः । षडास्यो भक्तानामचलहृदि वासं प्रतनवै इतीमं बुद्धिं द्रागचलनिलयः सञ्जनयति ॥ १॥ स्मितन्यक्कृतेन्दुप्रभाकुन्दपुष्पं सिताभ्रागरुप्रष्ठगन्धानुलिप्तम् । श्रिताशेषलोकेष्टदानामरद्रुं सदा षण्मुखं भावये हृत्सरोजे ॥ २॥ शरीरेन्द्रियादावहम्भावजातान् षडूर्मीर्विकारांश्च शत्रून्निहन्तुम् । नतानां दधे यस्तमास्याब्जषट्कं सदा षण्मुखं भावये हृत्सरोजे ॥ ३॥ अपर्णाख्यवल्लीसमाश्लेषयोगात् पुरा स्थाणुतो योऽजनिष्टामरार्थम् । विशाखं नगे वल्लिकाऽऽलिङ्गितं तं सदा षण्मुखं भावये हृत्सरोजे ॥ ४॥ गुकारेण वाच्यं तमो बाह्यमन्तः स्वदेहाभया ज्ञानदानेन हन्ति । य एनं गुहं वेदशीर्षैकमेयं सदा षण्मुखं भावये हृत्सरोजे ॥ ५॥ यतः कर्ममार्गो भुवि ख्यापितस्तं स्वनृत्ये निमित्तस्य हेतुं विदित्वा । वहत्यादरान्मेघनादानुलासी सदा षण्मुखं भावये हृत्सरोजे ॥ ६॥ कृपावारिराशिर्नृणामास्तिकत्वं दृढं कर्तुमद्यापि यः कुक्कुटादीन् । भृशं पाचितान् जीवयन्राजते तं सदा षण्मुखं भावये हृत्सरोजे ॥ ७॥ भुजङ्गप्रयातेन वृत्तेन क्लृप्तां स्तुतिं षण्मुखस्यादराद्ये पठन्ति । सुपुत्रायुरारोग्यसम्पद्विशिष्टान् करोत्येव तान् षण्मुखः सद्विदग्र्यान् ॥ ८॥ श्रीजगद्रुरु श्रीश‍ृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती श्रीपादैः विरचिता श्रीषण्मुखभुजङ्गस्तुतिः समाप्ता ।