अक्षर आकार:

श्रीषण्मुखषट्पदीस्तवः

Shri Shanmukhashatpadistavah

श्रीषण्मुखषट्पदीस्तवः

श्रीमयूराचलक्षेत्रे - (कुन्नक्कुड्यपरनामके) मयूराचलाग्रे सदारं वसन्तं मुदारं ददानं नतेभ्यो वरांश्च । दधानं कराम्भोजमध्ये च शक्तिं सदा षण्मुखं भावये हृत्सरोजे ॥ १॥ गिरीशास्यवाराशिपूर्णेन्दुबिम्बं कुरङ्गाङ्कधिक्कारिवक्त्रारविन्दम् । सुरेन्द्रात्मजाचित्तपाथोजभानुं सदा षण्मुखं भावये हृत्सरोजे ॥ २॥ नतानां हि राज्ञां गुणानां च षण्णां कृपाभारतो यो द्रुतं बोधनाय । षडास्याम्बुजातान्यगृह्णात्परं तं सदा षण्मुखं भावये हृत्सरोजे ॥ ३॥ पुरा तारकं यो विजित्याजिमध्ये सुरान्दुःखमुक्तांश्चकाराशु मोदात् । तमानन्दकन्दं कृपावारिराशिं सदा षण्मुखं भावये हृत्सरोजे ॥ ४॥ शराणां वने जातमेनं हि बालं यतः कृत्तिकाः पाययन्ति स्म दुग्धम् । ततः कार्तिकेयं वदन्तीह यं तं सदा षण्मुखं भावये हृत्सरोजे ॥ ५॥ हरन्तं च बाढं तमो हार्दगाढं गवानाद्यया चातिमोदेन लीढम् । सुरेन्द्रस्य पुत्र्या च गाढोपगूढं सदा षण्मुखं भावये हृत्सरोजे ॥ ६॥ इयं षट्पदी यस्य वक्त्रारविन्दे विहारं करोत्यादरान्नित्यमेव । षडास्यः कृपातः समस्ताश्च विद्या वितीर्याशु तस्मै स्वभक्तिं ददाति ॥ ७॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः श्रीषण्मुखषट्पदीस्तवः सम्पूर्णः ।