अक्षर आकार:

षडाननाष्टकम्

Shadanana Ashtakam

षडाननाष्टकम्

ॐ श्रीगणेशाय नमः । नमोऽस्तु वृन्दारकवृन्दवन्द्य- पादारविन्दाय सुधाकराय । षडाननायामितविक्रमाय गौरीहृदानन्दसमुद्भवाय ॥ १॥ नमोऽस्तु तुभ्यं प्रणतार्तिहन्त्रे कर्त्रे समस्तस्य मनोरथानाम् । दात्रे रतानां परतारकस्य हन्त्रे प्रचण्डासुरतारकस्य ॥ २॥ अमूर्तमूर्ताय सहस्रमूर्तये गुणाय गुण्याय परात्पराय । आपारपारयपारपराय नमोऽस्तु तुभ्यं शिखिवाहनाय ॥ ३॥ नमोऽस्तु ते ब्रह्मविदां वराय दिगम्बरायाम्बरसंस्थिताय । हिरण्यवर्णाय हिरण्यबाहवे नमो हिरण्याय हिरण्यरेतसे ॥ ४॥ तपःस्वरूपाय तपोधनाय तपःफलानां प्रतिपादकाय । सदाकुमाराय हि मारमारिणे तृणीकृतैश्वर्यविरागिणे नमः ॥ ५॥ नमोऽस्तु तुभ्यं शरजन्मने विभो प्रभातसूर्यारुणदन्तपङ्क्तये । बालाय चापारपराक्रमाय षाण्मातुरायालमनातुराय ॥ ६॥ मीढुष्ठमायोत्तरमीढुषे नमो नमो गणानां पतये गणाय । नमोऽस्तु ते जन्मजरादिकाय नमो विशाखाय सुशक्तिपाणये ॥ ७॥ सर्वस्य नाथस्य कुमारकाय क्रौञ्चारये तारकमारकाय । स्वाहेय गाङ्गेय च कार्तिकेय शैलेय तुभ्यं सततन्नमोऽस्तु ॥ ८॥ इति स्कान्दपुराणान्तर्गतं अगस्त्यप्रोक्तं षडाननाष्टकं सम्पूर्णम् ।