अक्षर आकार:

श्रीव्याडेश्वरस्तोत्रम्

Shri VyAdeshvara Stotram

श्रीव्याडेश्वरस्तोत्रम्

अनाथबन्धुं करुणैकसिन्धुं प्रसन्नमूर्तिं सुपवित्रकीर्तिम् । गौरीकलत्रं कमनीयगात्रं व्याडेश्वरं नौमि जगन्निवासम् ॥ १॥ लसालिनेत्रं शुभपञ्चवक्त्रं भुजङ्गभूषं लघुचित्रवेषम् । भस्माङ्गरागं क्रतुशिष्टभागं व्याडेश्वरं नौमि जगन्निवासम् ॥ २॥ चन्द्रावदातं गजवक्त्रतातं चन्द्रार्धचूडं जगदेकनीडम् । पवित्रगोत्रं वृषराजपत्रं व्याडेश्वरं नौमि जगन्निवासम् ॥ ३॥ आनन्दकन्दं हतवैरिवृन्दं कृतान्तकालं नृकपालमालम् । तीव्रप्रतापं प्रलयाग्निकोपं व्याडेश्वरं नौमि जगन्निवासम् ॥ ४॥ शिरोधिनीलं करिचर्मचेलं पिनाकहेतिं भृतभूरिभूतिम् । समस्त हेतूं प्रययान्तकेतुं व्याडेश्वरं नौमि जगन्निवासम् ॥ ५॥ व्याडेश्वरं नौमि हरं महेश्वरं गङ्गाधरं पापहरं कृपाकरम् । गौरीवरं शूलधरं हतासुरं विश्वम्भरं देववरं परात्परम् ॥ ६॥ इति व्याडेशदेवस्य स्तोत्रं यः सर्वदा जपेत् । लब्ध्वा व्याडेश्वरे भक्तिं भुक्तिमुक्ति लभेत सः ॥ ७॥ इति श्रीव्याडेश्वरस्तोत्रं सम्पूर्णम् ।