अक्षर आकार:

विश्वेश्वरनीराजनम्

vishveshvaranIrAjanam

विश्वेश्वरनीराजनम्

श्रीगणेशाय नमः । सत्यं ज्ञानं शुद्धं पूर्णं हृदि भातं वन्दे शम्भुं शान्तं मायागुणरहितम् । साक्षिरूपं तत्त्वं विद्वद्भिर्गभ्यं वेदैर्ज्ञेयं नित्यं गुरुभक्तैर्वेद्यम् । ॐ हर हर हर महादेव ॥ १॥ देवान् भीतान् दृष्ट्वा यः कृपयाविष्टो विषपानमपि कृत्वाऽसितकठो जातः । त्रिपुरं बिभिदे युद्धे दुर्भेद्यं सर्वैस्तं वन्दे सर्वेशं देवैर्हृदि ध्यातम् । ॐ हर हर हर महादेव ॥ २॥ विघ्नविनाशनकर्ता भवतां यस्तातः पूज्यो निखिलैर्देवैर्दुरितं हरतु नः । स्कन्दः पुत्रो बलवान् तारकासुरहन्ता स्वमात्रे वरदाता ब्रह्मचर्यं धर्ता । ॐ हर हर हर महादेव ॥ ३॥ दशमुखबाणप्रभृतयो भक्तास्ते जाताः नाहं वक्तुं शक्तः परिगणनं कृत्वा । ये देवानामैश्वर्यं स्वाधीनं चक्रुः तेषां चित्रं वीर्यं तव कृपया जातम् । ॐ हर हर हर महादेव ॥ ४॥ पूजां कर्तुं विष्णुर्नेत्रं त्वयि समर्प्य राज्यं कुरुते जगतां त्रयाणां तव दृष्ट्या । यतीनां हृदये स्थित्वा कामं नाशयिता गङ्गाधर शिव शङ्कर गिरिजाधीशस्त्वम् । ॐ हर हर हर महादेव ॥ ५॥ संहर्तृ शिवरूपमुग्रं तव ध्यात्वा भीता देवाः सर्वे भक्तिं त्वयि चक्रुः । दुःखं दृष्ट्वा जगति शरणं त्वां यामो देवानामपि देवं महादेवं प्रणुमः । ॐ हर हर हर महादेव ॥ ६॥ त्यक्त्वा धर्मं ब्रह्मा दुहितर्यासक्तः दण्डं प्राप्तस्त्वत्तः पन्थानं नीतः । विद्योपदेष्टुस्त्वत्तः सनकाद्या भक्ताः उपदेशं श‍ृण्वन्ति वैराग्ये सक्ताः । ॐ हर हर हर महादेव ॥ ७॥ प्राणान्ते वै काश्यां मुक्तिं सर्वेभ्यो वेदपुराणैः कथितां ददते नित्यं यः । सर्वज्ञं तमनादिं स्तौति यो भक्त्या अर्थं कामं धर्मं मोक्षं लभते सः । ॐ हर हर हर महादेव ॥ ८॥ इत्यच्युतानन्दगिरिविरचितं विश्वेश्वरनीराजनं सम्पूर्णम् ॥