अक्षर आकार:

विश्वनाथनगरीस्तोत्रम्

vishvanAthanagarIstotram

विश्वनाथनगरीस्तोत्रम्

श्रीगणेशाय नमः ॥ यत्र देवपतिनापि देहिनां मुक्तिरेव भवतीति निश्चितम् । पूर्वपुण्यनिचयेन लभ्यते विश्वनाथनगरी गरीयसी ॥ १॥ स्वर्गतः सुखकरी दिवौकसां शैलराजतनयाऽतिवल्लभा । ढुण्ढिभैरवविदारितविघ्ना विश्वनाथनगरी गरीयसी ॥ २॥ यत्र तीर्थममलं मणिकर्णिका सा सदाशिवसुखप्रदायिनी । या शिवेन रचिता निजायुधैर्विश्वनाथनगरी गरीयसी ॥ ३॥ सर्वदा ह्यमरवृन्दवन्दिता या गजेन्द्रमुखवारितविघ्ना । कालभैरवकृतैकशासना विश्वनाथनगरी गरीयसी ॥ ४॥ यत्र मुक्तिरखिलैस्तु जन्तुभिर्लभ्यते स्मरणमात्रतः शुभा । साखिलामरगणस्पृहणीया विश्वनाथनगरी गरीयसी ॥ ५॥ उरगं तुरगं खगं मृगं वा करिणं केसरिणं खरं नरं वा । सकृदाप्लुत एव देवनद्यां लहरी किं न हरं चरीकरोति ॥ ६॥ इति श्रीमच्छङ्कराचार्यविरचितं विश्वनाथनगरीस्तोत्रं सम्पूर्णम् ॥