अक्षर आकार:

विश्वमूर्तिस्तोत्रम् अथवा विश्वमूर्त्यष्टकस्तोत्रम्

vishvamUrtistotram

विश्वमूर्तिस्तोत्रम् अथवा विश्वमूर्त्यष्टकस्तोत्रम्

श्रीगणेशाय नमः ॥ अकारणायाखिलकारणाय नमो महाकारणकारणाय । नमोऽस्तु कालानललोचनाय कृतागसं मामव विश्वमूर्ते ॥ १॥ नमोऽस्त्वहीनाभरणाय नित्यं नमः पशूनां पतये मृडाय । वेदान्तवेद्याय नमो नमस्ते कृतागसं मामव विश्वमूर्ते ॥ २॥ नमोऽस्तु भक्तेहितदानदात्रे सर्वौषधीनां पतये नमोऽस्तु । ब्रह्मण्यदेवाय नमो नमस्ते कृतागसं मामव विश्वमूर्ते ॥ ३॥ कालाय कालानलसन्निभाय हिरण्यगर्भाय नमो नमस्ते । हालाहलादाय सदा नमस्ते कृतागसं मामव विश्वमूर्ते ॥ ४॥ विरिञ्चिनारायणशक्रमुख्यैरज्ञातवीर्याय नमो नमस्ते । सूक्तातिसूक्ष्माय नमोऽघहन्त्रे कृतागसं मामव विश्वमूर्ते ॥ ५। अनेककोटीन्दुनिभाय तेऽस्तु नमो गिरीणां पतयेऽघहन्त्रे । नमोऽस्तु ते भक्तविपद्धराय कृतागसं मामव विश्वमूर्ते॥ ६॥ सर्वान्तरस्थाय विशुद्धधाम्ने नमोऽस्तु ते दुष्टकुलान्तकाय । समस्ततेजोनीधये नमस्ते कृतागसं मामव विश्वमूर्ते ॥ ७॥ यज्ञाय यज्ञादिफलप्रदात्रे यज्ञस्वरूपाय नमो नमस्ते । नमो महानन्दमयाय नित्यं कृतागसं मामव विश्वमूर्ते ॥ ८॥ इति स्तुतो महादेवो दक्षं प्राह कृताञ्जलिम् । यत्तेऽभिलषितं दक्ष तत्ते दास्याम्यहं धुवम् ॥ ९॥ अन्यच्च श‍ृणु भो दक्ष यच्च किञ्चिद्ब्रवीम्यहम् । यत्कृतं हि मम स्तोत्रं त्वया भक्त्या प्रजापते ॥ १०॥ ये श्रद्धया पठिष्यन्ति मानवाः प्रत्यहं शुभम् । निष्कल्मषा भविष्यन्ति सापराधा अपि भुवम् ॥ ११॥ इति दक्षकृतं विश्वमूर्तिस्तोत्रं सम्पूर्णम् ॥