विचित्रचरितस्तोत्रम्
(वसन्ततिलका)
भिक्षाचरोऽपि जगतामधिपोऽसि भिक्षो
कण्ठे विषं तव तथाप्यमृतप्रदस्त्वम् ।
स्थाणुस्तथापि भजतां फलदोऽसि नित्यं
तुभ्यं विचित्रचरिताय नमो नमस्ते ॥ १॥
शम्भो भवोऽसि हि तथापि भवान्तकस्त्वं
कामान्तकोऽपि शरणागत-कामदस्त्वम् ।
योगीन्द्र-पूजित विभोऽसि नटेश्वरस्त्वं
तुभ्यं विचित्रचरिताय नमो नमस्ते ॥ २॥
त्वं निर्मलोऽसि हि तथापि दधासि भाले
कालाङ्कितां शशिकलां रमणीयमूर्तिम् ।
तत्रैव चापि नयने वहसि त्वमग्निं
तुभ्यं विचित्रचरिताय नमो नमस्ते ॥ ३॥
हस्ते तवास्ति हर भीतिकरस्त्रिशूल-
स्तापत्रयं हरसि तेन विभो नराणाम् ।
पापं च नाशयसि मस्तकगाङ्गवारा
तुभ्यं विचित्रचरिताय नमो नमस्ते ॥ ४॥
देहे तवास्ति शवदेहविभूतिलेपः
शम्भोस्तथापि जनभूतिकरः प्रभो त्वम् ।
भोगीन्द्र-भूषण सदाऽभयदोऽसि देव
तुभ्यं विचित्रचरिताय नमो नमस्ते ॥ ५॥
कण्ठे धृतास्ति नरमुण्डकपालमाला
पावित्र्यमूर्तिरसि रुद्र तथापि भोस्त्वम् ।
दृष्टिः समाऽस्ति विषमेक्षण लोकनाथ
तुभ्यं विचित्रचरिताय नमो नमस्ते ॥ ६॥
यज्ञप्रियोऽपि भगवन्नसि यज्ञनाशी
वैराग्यमूर्तिरपिशङ्कर सानुरागः ।
यक्षाधिपस्तव सखास्ति तथापि भिक्षु-
स्तुभ्यं विचित्रचरिताय नमो नमस्ते ॥ ७॥
वृद्धो वृषो वहनमस्ति तवाष्टमूर्ते
पादारविन्दनमनाय तथापि शक्रः ।
ऐरावतादवनिमेत्य विनम्र आस्ते
तुभ्यं विचित्रचरिताय नमो नमस्ते ॥ ८॥
स्तोत्रं विचित्रचरितस्य शिवस्य प्रात-
र्भक्त्या स्मरेदहरहः शुचिमानसो यः ।
तापत्रयं जगति तस्य विनाश्य शम्भुः
कीर्तिं धनं च विपुलं प्रददाति तस्मै ॥ ९॥
इति श्री आपटीकरविरचितं विचित्र-चरित-स्तोत्रं सम्पूर्णम् ।
सोशल मीडिया पर शेयर करें:
सहेजें एवं डाउनलोड करें (Save & Export):