अक्षर आकार:

श्रीवेमुलवाडराजराजेश्वरसुप्रभातस्तोत्रम्

Shri Vemulavadarajarajeshvar Suprabhata Stotram

श्रीवेमुलवाडराजराजेश्वरसुप्रभातस्तोत्रम्

वेमुलवाड लेम्बालवाटिक । जागृहि त्वं महादेव जागृहि त्वं वृषध्वज । जागृहि त्वमुमानाथ जगतां मङ्गलं कुरु ॥ १॥ श्रीनाथपद्मभवजिष्णुमुखामरेन्द्राः सेवाविनम्रशिरसः परितो ह्यतिष्ठन् । वाग्देवता पठति पूर्मथनादिगाथां बालेन्दुशेखर विभो तव सुप्रभातम् ॥ २॥ शेफालिकावकुलवञ्जुलकुन्दजाती\- पुन्नागचम्पककदम्बसरोजगन्धैः । रावाति शीतलपयःकणपूतवातः लेम्बालवाटिकविभो तव सुप्रभातम् ॥ ३॥ वीणामृदङ्गमुरलीमुखविप्रभिन्न सङ्गीतसङ्ग्रथितवाद्यसमेतगीतीः । गायन्त्यनल्पमलकाकलकण्ठकण्ठ्यं लेम्बालवाटिकविभो तव सुप्रभातम् ॥ ४॥ श्रीमन्नतेष्टफलदायक दीनबन्धो श्रीकण्ठ श्रीदसख श्रीकर प्रेमसिन्धो । श्रीपार्वतीप्रणयकेलिकलानिशान्त लेम्बालवाटिकविभो तव सुप्रभातम् ॥ ५॥ श्रीमानसह्रदनिमग्नविनिर्मलाङ्गाः बद्धाञ्जलि हित्रप्रणतोत्तमाङ्गाः । द्वारे वसन्ति विबुधा मुदितान्तरङ्गाः लेम्बालवाटिकविभो तव सुप्रभातम् ॥ ६॥ केदारश्रीगिरिचिदम्बरसेतुबन्ध\- वाराणसीपशुपतीश्वरधेनुकर्ण । तीर्थेषु मोदमनवाप्य त्वमागतोऽत्र लेम्बालवाटिकविभो तव सुप्रभातम् ॥ ७॥ कूजन्ति वृक्षशिखरेषु मुदा विहङ्गाः नन्दन्ति केलिसरसीषु मरालसङ्घाः । गुञ्जन्ति सन्दलिततामरसेषु भृङ्गाः लेम्बालवाटिकविभो तव सुप्रभातम् ॥ ८॥ नृत्यन्ति सान्द्रतरुभूमिषु नीलकण्ठाः क्रीडन्ति शाद्वलतलेषु शशाः कुरङ्गाः । जल्पन्ति पञ्जरशुकाः प्रहसन्ति कोकाः लेम्बालवाटिकविभो तव सुप्रभातम् ॥ ९॥ पश्यन्ति यात्रिकजनास्तव गोपुराग्र\- मायान्ति भूसुरगणास्तव धर्मकुण्डम् । ध्यायन्ति तापसवरा स्तव मन्त्रमूर्तिं लेम्बालवाटिकविभो तव सुप्रभातम् ॥ १०॥ गङ्गा नगेन्द्रतनयाहृदयाधिराज सङ्गीतलोल शरणागतकल्पभूज । श्रीदारुकावनमुनीन्द्रसतीमनोज लेम्बालवाटिकविभो तव सुप्रभातम् ॥ ११॥ कैलासवास करुणाञ्चितमन्दहास कर्पूरकुन्दकलहंसतनूविकास । कल्याणपूर्णगुणमानस चिद्विलास लेम्बालवाटिकविभो तव सुप्रभातम् ॥ १२॥ सारङ्गनाभ घनसारविमिश्रितोद\- कुम्भैर्घुमंघुमदपूर्वसुगन्धिगन्धैः । पुष्पैस्सुधूपनिकरैः फलबिल्वपत्रैः प्रातस्समर्चनविधिं परिकल्पयन्ति । लेम्बालवाटिकविभो तव सुप्रभातम् ॥ १४॥ एलालवङ्गयुगपत्रकनागवल्ली- खर्जूरपूगकदलीपनसादिरम्य- । माराममर्चयितुमाह्वयतीव भाति लेम्बालवाटिकविभो तव सुप्रभातम् ॥ १५॥ प्रसार्य सूर्यस्समुदेति हस्तान् नदीनदास्सिन्धुमनुव्रजन्ति । प्राचीमुखं प्राञ्जलिमादधानः सन्ध्यामुपास्ते द्विजसञ्चयोऽयं लेम्बालवाटिकविभो तव सुप्रभातम् ॥ १६॥ धृत्वा गले यदि मुदा विहरेत्पुमान् यः स प्राप्नुयात्सुखमनङ्गकलाविलासम् । आयुश्श्रियं धियमधीतिसुवर्णमाशु लेम्बालवाटिकविभो तव सुप्रभातम् ॥ १७॥ इति वेमुलवाड लेम्बालवाटिकसुप्रभातं समाप्तं । श्रीराजराजेश्वरसुप्रभातं