अक्षर आकार:

वेदसार श्रीशिवसहस्रनामस्तोत्रम्

Vedasara Shri Shiva Sahasranama Stotra from Padmapurana

वेदसार श्रीशिवसहस्रनामस्तोत्रम्

शङ्करकवच श्लोकाः १-६१ पद्मपुराणान्तर्गतं वेदसाराख्यं ॥ श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १॥ ईश्वरं परमं तत्त्वमादिमध्यान्तवर्जितम् । आधारं सर्वभूतानमनाधारमविक्रियम् ॥ २॥ अनन्तानन्दबोधाम्बुनिधिमद्भुतविक्रियम् । अम्बिकापतिमीशानमनीशं प्रणमाम्यहम् ॥ ३॥ ईशमाद्यन्तनिर्मुक्तमतिशोभनमादरात् । नमामि विग्रहं साम्बं संसारामयभेषजम् ॥ ४॥ व्यास उवाच । एकदा मुनयः सर्वे द्वारकां द्रष्टुमागताः । वासुदेवं च सोत्कण्ठाः कृष्णदर्शनलालसाः ॥ ५॥ ततः स भगवान्प्रीतः पूजां चक्रे यथाविधि । तेषामाशीस्ततो गृह्य बहुमानपुरःसरम् ॥ ६॥ तैः पृष्टः कथयामास कुमारप्रभवं च यत् । चरितं भूमिभारघ्नं लोकानन्दकरं परम् ॥ ७॥ मार्कण्डेयमुखाः सर्वे माध्याह्निकक्रियोत्थिताः । कृष्णः स्नानमथो चक्रे मृदक्षतकुशादिभिः ॥ ८॥ पीताम्बरं त्रिपुण्ड्रं च धृत्वा रुद्राक्षमालिकाः । सूर्योपस्थानं सन्ध्यां च स्मृतिधर्ममनुस्मरन् ॥ ९॥ शिवपूजां ततः कृष्णो गन्धपुष्पाक्षतादिभिः । चकार विधिवद्भक्त्या नमस्कारयुतां शुभाम् ॥ १०॥ जय शङ्कर सोमेश रक्ष रक्षेति चाब्रवीत् । जजाप शिवसाहस्रं भुक्तिमुक्तिप्रदं विभोः । अनन्यमानसः शान्तः पद्मासनगतः शुचिः ॥ ११॥ ततस्ते विस्मयापन्ना दृष्ट्वा कृष्णविचेष्टितम् । मार्कण्डेयोऽवदत्कृष्णं बहुशो मुनिसम्मतम् ॥ १२॥ मार्कण्डेय उवाच त्वं विष्णुः कमलाकान्तः परमात्मा जगद्गुरुः । त्वं कृष्णः भवत्पूज्यः कथं शम्भुरेतत्सर्वं वदस्व मे ॥ १३॥ व्यास उवाच अथ ते मुनयः सर्वे मार्कण्डेयं समार्चयन् । वचोभिर्वासुदेवश्च पृष्टः साधु त्वयेति च ॥ १४॥ श्रीकृष्ण उवाच साधु साधु मुने पृष्टं हिताय सकलस्य च ॥ १५॥ अज्ञातं तव नास्त्येव तथापि च वदाम्यहम् । दैवतं सर्वलोकानां सर्वकारणकारणम् ॥ १६॥ सर्वदेवानां ज्योतिर्यत्परमानन्दं सावधानमतिः श‍ृणु । विश्वपावनमीशानं गुणातीतमजं परम् ॥ १७॥ विश्वसाधनमीशानं जगतस्तस्थुषो ह्यात्मा मम मूलं महामुने । यो देवः सर्वदेवानां ध्येयः पूज्यः सदाशिवः ॥ १८॥ स शिवः स महादेवः शङ्करश्च निरञ्जनः । तस्मान्नान्यः परो देवस्त्रिषु लोकेषु विद्यते ॥ १९॥ सर्वज्ञः सर्वगः शक्तः सर्वात्मा सर्वतोमुखः । पठ्यते सर्वसिद्धान्तैर्वेदान्तैर्यो मुनीश्वराः ॥ २०॥ तस्मिन्भक्तिर्महादेवे मम धातुश्च निर्मला । महेशः परमं ब्रह्म शान्तः सूक्ष्मः परात्परः ॥ २१॥ सर्वान्तरः सर्वसाक्षी चिन्मयस्तमसः परः । निर्विकल्पो निराभासो निःसङ्गो निरुपद्रवः ॥ २२॥ निर्लेपः सकलाध्यक्षो महापुरुष ईश्वरः । तस्य चेच्छाभवत्पूर्वं जगत्स्थित्यन्तकारिणी ॥ २३॥ वामाङ्गादभवं तस्य सोऽहं विष्णुरिति स्मृतः । जनयामास धातारं दक्षिणाङ्गात्सदाशिवः ॥ २४॥ मध्यतो रुद्रमीशानं कालात्मा परमेश्वरः । तपः कुर्वन्तु भो वत्सा अब्रवीदिति तान् शिवः ॥ २५॥ तपस्तपन्तु भो ततस्ते शिवमात्मानं प्रोचुः संयतमानसाः । स्तुत्वा तु विधिवत्स्तोत्रैः प्रणम्य च पुनः पुनः ॥ २६॥ ब्रह्मविष्णुमहेश्वरा ऊचुः तपः केन प्रकारेण कर्तव्यं परमेश्वर । ब्रूहि सर्वमशेषेण स्वात्मानं वेत्सि नापरः ॥ २७॥ श्रीमहादेव उवाच Var शिव उवाच कायेन मनसा वाचा ध्यानपूजाजपादिभिः । कामक्रोधादिरहितं तपः कुर्वन्तु भो सुराः ॥ २८॥ देवा ऊचुः त्वया यत्कथितं शम्भो दुर्ज्ञेयमजितात्मभिः । सौम्योपायमतो ब्रह्मन्वद कारुण्यवारिधे ॥ २९॥ श्रीशङ्कर उवाच Var शिव उवाच श‍ृणुध्वं सर्वपापघ्नं भुक्तिमुक्तिप्रदं नृणाम् । सहस्रनामसद्विद्यां जपन्तु मम सुव्रताः ॥ ३०॥ यया संसारमग्नानां मुक्तिर्भवति शाश्वती । श‍ृण्वन्तु तद्विधानं हि महापातकनाशनम् ॥ ३१॥ पठतां श‍ृण्वतां सद्यो मुक्तिः स्यादनपायिनी । ब्रह्मचारी कृतस्नानः शुक्लवासा जितेन्द्रियः ॥ ३२॥ भस्मधारी मुनिर्मौनी पद्मासनसमन्वितः । ध्यात्वा मां सकलाधीशं निराकारं निरीश्वरम् ॥ ३३॥ पार्वतीसहितं शम्भुं जटामुकुटमण्डितम् । दधानं चर्म वैयाघ्रं चन्द्रार्धकृतशेखरम् ॥ ३४॥ वसानं चर्म त्र्यम्बकं वृषभारूढं कृत्तिवाससमुज्ज्वलम् । सुरार्चितपदद्वन्द्वं दिव्यभोगं सुसुन्दरम् ॥ ३५॥ बिभ्राणं सुप्रसन्नं च कुठारवरदाभयम् । दुर्दर्शं कमलासीनं नागयज्ञोपवीतिनम् ॥ ३६॥ दुरन्तं विश्वकायं चिदानन्दं शुद्धमक्षरमव्ययम् । सहस्रशिरसं शर्वमनन्तकरसंयुतम् ॥ ३७॥ Var शम्भुमनन्तकरसंयुतम् सहस्रचरणं दिव्यं सोमसूर्याग्निलोचनम् । जगद्योनिमजं ब्रह्म शिवमाद्यं सनातनम् ॥ ३८॥ दंष्ट्राकरालं दुष्प्रेक्ष्यं सूर्यकोटिसमप्रभम् । निशाकरकराकारं भेषजं भवरोगिणाम् ॥ ३९॥ पिनाकिनं विशालाक्षं पशूनां पतिमीश्वरम् । कालात्मानं कालकालं देवदेवं महेश्वरम् ॥ ४०॥ ज्ञानवैराग्यसम्पन्नं योगानन्दकरं परम् । योगानन्दमयं शाश्वतैश्वर्यसम्पन्नं महायोगीश्वरेश्वरम् ॥ ४१॥ समस्तशक्तिसंयुक्तं पुण्यकायं दुरासदम् । तारकं ब्रह्म सम्पूर्णमणीयांसं महत्तरम् ॥ ४२॥ महत्तमम् यतीनां परमं ब्रह्म व्रतिनां तपसः फलम् । संयमीहृत्समासीनं तपस्विजनसंवृतम् ॥ ४३॥ विधीन्द्रविष्णुनमितं मुनिसिद्धनिषेवितम् । महादेवं महात्मानं देवानामपि दैवतम् ॥ ४४॥ महानन्दं शान्तं पवित्रमोङ्कारं ज्योतिषां ज्योतिमुत्तमम् । इति ध्यात्वा शिवं चित्ते रक्षार्थं कवचं न्यसेत् ॥ ४५॥ Var ततः पठेद्धि कवचं मम सर्वाघनाशनम् ॥ कवचं शङ्करो मे शिरः पातु ललाटं भाललोचनः । विश्वचक्षुर्दृशौ पातु भ्रुवौ रुद्रो ममावतु ॥ ४६॥ Var विश्वचक्षुर्दृशौ पातु रुद्रः पातु भ्रुवौ मम ॥ गण्डौ पातु महेशानः श्रुती रक्षतु पूर्वजः । कपोलौ मे महादेवः पातु नासां सदाशिवः ॥ ४७॥ मुखं पातु हविर्भोक्ता ओष्ठौ पातु महेश्वरः । दन्तान् रक्षतु देवेशस्तालू सोमकलाधरः ॥ ४८॥ रसनां परमानन्दः पातु शङ्खं शिवाप्रियः । चुबुकं पातु मे शम्भुः श्मश्रुं शत्रुविनाशानः ॥ ४९॥ कूर्चं पातु भवः कण्ठं नीलकण्ठोऽवतु ध्रुवम् । स्कन्धौ स्कन्दगुरुः पातु बाहू पातु महाभुजः ॥ ५०॥ स्कन्धौ स्कन्दपिता उपबाहू महावीर्यः करौ विबुधसत्तमः । अङ्गुलीः पातु पञ्चास्यः पर्वाणि च सहस्रपात् ॥ ५१॥ हृदयं पातु सर्वात्मा स्तनौ पातु पितामहः । उदरं हुतभुक्पातु मध्यं पातु मध्यमेश्वरः ॥ ५२॥ कुक्षिं पातु भवानीशः पृष्ठं पातु कुलेश्वरः । प्राणान्मे प्राणदः पातु नाभिं भीमः कटिं विभुः ॥ ५३॥ सक्थिनी पातु मे भर्गो जानुनी भुवनाधिपः । जङ्घे पुररिपुः पातु चरणौ भवनाशनः ॥ ५४॥ शरीरं पातु मे शर्वो बाह्यमाभ्यन्तरं शिवः । इन्द्रियाणि हरः पातु सर्वत्र जयवर्धनः ॥ ५५॥ प्राच्यां दिशि मृडः पातु दक्षिणे यमसूदनः । पूर्वे मम मृडः वारुण्यां सलिलाधीश उदीच्यां मे महीधरः ॥ ५६॥ ईशान्यां पातु भूतेश आग्नेय्यां रविलोचनः । नैरृत्यां भूतभृत्पातु वायव्यां बलवर्धनः ॥ ५७॥ ऊर्ध्वं पातु मखद्वेषी ह्यधः संसारनाशनः । सर्वतः सुखदः पातु बुद्धिं पातु सुलोचनः ॥ ५८॥ इति कवचम् । एवं न्यासविधिं कृत्वा साक्षाच्छम्भुमयो भवेत् । नमो हिरण्यबाह्वादि पठेन्मन्त्रं तु भक्तितः ॥ ५९॥ सद्योजातादिभिर्मन्त्रैर्नमस्कुर्यात्सदाशिवम् । ततः सहस्रनामेदं पठितव्यं मुमुक्षुभिः ॥ ६०॥ सर्वकार्यकरं पुण्यं महापातकनाशनम् । सर्वगुह्यतमं दिव्यं सर्वलोकहितप्रदम् ॥ ६१॥ मन्त्राणां परमो मन्त्रो भवदुःखषडूर्मिहृत् । ओं नमः शम्भवे चेति षड्भिर्मन्त्रैः षडङ्गकम् । न्यासं कृत्वा तु विधिवत्सम्यग्ध्यानं ततश्चरेत् ॥ ६२॥ विनियोगः (न्यास) ॐ अस्य श्रीवेदसाराख्यपरमदिव्यशिवसहस्रनामस्तोत्रमन्त्रस्य श्रीभगवान् नारायण ऋषिः । अनुष्टुप् छन्दः । परमात्मा श्रीमहादेवो देवता । नमः इति बीजम् । शिवायेति शक्तिः । चैतन्यमिति कीलकम् । श्रीमहादेवप्रीत्यर्थे एवं प्रसादसिद्धयर्थे जपे विनियोगः । अथ न्यासः । ॥ अथ करन्यासः ॥ ॐ नमः शम्भवे च अङ्गुष्ठाभ्यां नमः । ॐ नमः मयोभवे च तर्जनीभ्यां नमः । ॐ नमः शङ्कराय च मध्यमाभ्यां नमः । ॐ नमः मयस्कराय च अनामिकाभ्यां नमः । ॐ नमः शिवाय च कनिष्ठिकाभ्यां नमः । ॐ नमः शिवतराय च करतलकरपृष्ठाभ्यां नमः ॥ ॥ अथ हृदयाद्यङ्गन्यासः ॥ ॐ नमः शम्भवे च हृदयाय नमः । ॐ नमः मयोभवे च शिरसे स्वाहा । ॐ नमः शङ्कराय च शिखायै वषट् । ॐ नमः मयस्कराय च कवचाय हुम् । ॐ नमः शिवाय च नेत्रत्रयाय वौषट् । ॐ नमः शिवतराय च अस्त्राय फट् ॥ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ । अथ ध्यानम् । कैलासाद्रिनिभं शशाङ्ककलया स्फूर्जज्जटामण्डलं नासालोकनतत्परं त्रिनयनं वीरासनाध्यासितम् । मुद्राटङ्ककुरङ्गजानुविलसद्बाहुं प्रसन्नाननं कक्ष्याबद्धभुजङ्गमं मुनिवृतं वन्दे महेशं परम् ॥ १॥ शुद्धस्फटिकसङ्काशं त्रिनेत्रं चेन्दुशेखरम् । पञ्चवक्त्रं महाबाहुं दशबाहुसमन्वितम् ॥ २॥ भस्मोद्धूलितसर्वाङ्गं नागाभरणभूषितम् । परिपूर्णं परानन्दं परं ज्योतिः परात्परम् ॥ ३॥ पराशक्त्या श्रिया सार्धं परमानन्दविग्रहम् । सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् । श्रीरुद्रं सच्चिदानन्दं ध्यायेत् सर्वात्मसिद्धये ॥ ४॥ ॥ अथ लमित्यादि पञ्चपूजा ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पैः पूजयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं अग्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं महानैवेद्यं निवेदयामि । सं सर्वात्मने सर्वोपचारपूजां समर्पयामि ॥ अथ सहस्रनामस्तोत्रम् ॥ ॐ नमः पराय देवाय शङ्कराय महात्मने । कामिने नीलकण्ठाय निर्मलाय कपर्दिने ॥ १॥ निर्विकल्पाय शान्ताय निरहङ्कारिणे नमः । अनर्घ्याय विशालाय सालहस्ताय ते नमः ॥ २॥ अनर्घाय निरञ्जनाय शर्वाय श्रुताय च परात्मने । नमः शिवाय भर्गाय गुणातीताय वेधसे ॥ ३॥ महादेवाय पीताय पार्वतीपतये नमः । Var वीताय केवलाय महेशाय विशुद्धाय बुधात्मने ॥ ४॥ कैवल्याय सुदेहाय निःस्पृहाय स्वरूपिणे । नमः सोमविभूषाय कालायामिततेजसे ॥ ५॥ अजिराय जगत्पित्रे जनकाय पिनाकिने । निराधाराय सिंहाय मायातीताय ते नमः ॥ ६॥ बीजाय सर्पभूषाय पशूनां पतये नमः । पुरन्दराय भद्राय पुरुषाय महीयसे ॥ ७॥ महासन्तोषरूपाय ज्ञानिने शुद्धबुद्धये । नमो वृद्धस्वरूपाय तपसे परमात्मने ॥ ८॥ पूर्वजाय सुरेशाय ब्रह्मणेऽनन्तमूर्तये । निरक्षराय सूक्ष्माय कैलासपतये नमः ॥ ९॥ निरामयाय कान्ताय निरातङ्काय ते नमः । निरालम्बाय विश्वाय नित्याय यतये नमः ॥ १०॥ आत्मारामाय भव्याय पूज्याय परमेष्ठिने । विकर्तनाय सूर्म्याय शम्भवे विश्वरूपिणे ॥ ११॥ ताराय हंसनाथाय प्रतिसर्याय ते नमः । परावरेशरुद्राय भवायालङ्घ्यशक्तये ॥ १२॥ इन्द्रध्वंसनिधीशाय कालहन्त्रे मनस्विने । विश्वमात्रे जगद्धात्रे जगन्नेत्रे नमो नमः ॥ १३॥ जटिलाय विरागाय पवित्राय मृडाय च । निरवद्याय पात्राय स्तेनानां पतये नमः ॥ १४॥ नादाय रविनेत्राय व्योमकेशाय ते नमः । चतुर्भोगाय साराय योगिनेऽनन्तमायिने ॥ १५॥ Var योगिनेऽनन्तगामिने धर्मिष्ठाय वरिष्ठाय पुरत्रयविघातिने । गरिष्ठाय गिरीशाय वरदाय नमो नमः ॥ १६॥ व्याघ्रचर्माम्बरायाथ दिशावस्त्राय ते नमः । दिग्वस्त्राय च परमप्रेममन्त्राय प्रथमाय सुचक्षुषे ॥ १७॥ आद्याय शूलहस्ताय शितिकण्ठाय तेजसे । ते नमः उग्राय वामदेवाय श्रीकण्ठाय नमो नमः ॥ १८॥ विश्वेश्वराय सूर्याय गौरीशाय वराय च । मृत्युञ्जयाय वीराय वीरभद्राय ते नमः ॥ १९॥ कामनाशाय गुरवे मुक्तिनाथाय ते नमः । विरूपाक्षाय सूताय वह्निनेत्राय ते नमः ॥ २०॥ जलन्धरशिरच्छेत्रे हविषे हितकारिणे । महाकालाय वैद्याय सघृणेशाय ते नमः ॥ २१॥ नम ओङ्काररूपाय सोमनाथाय ते नमः । रामेश्वराय शुचये भौमेशाय नमो नमः ॥ २२॥ त्र्यम्बकाय निरीहाय केदाराय नमो नमः । गङ्गाधराय कवये नागनाथाय ते नमः ॥ २३॥ भस्मप्रियाय सूद्याय लक्ष्मीशाय नमो नमः । पूर्णाय भूतपतये सर्वज्ञाय दयालवे ॥ २४॥ धर्माय धनदेशाय गजचर्माम्बराय च । भालनेत्राय यज्ञाय श्रीशैलपतये नमः ॥ २५॥ कृशानुरेतसे नीललोहिताय नमो नमः । अन्धकासुरहन्त्रे च पावनाय बलाय च ॥ २६॥ चैतन्याय त्रिनेत्राय दक्षनाशकराय च । नमः सहस्रशिरसे जयरूपाय ते नमः ॥ २७॥ सहस्रचरणायाथ योगिहृत्पद्मवासिने । सद्योजाताय वन्द्याय सर्वदेवमयाय च ॥ २८॥ आमोदाय प्रगल्भाय गायत्रीवल्लभाय च । व्योमाकाराय विप्राय नमो विप्रप्रियाय च ॥ २९॥ अघोराय सुवेषाय श्वेतरूपाय ते नमः । विद्वत्तमाय चित्राय विश्वग्रासाय नन्दिने ॥ ३०॥ अधर्मशत्रुरूपाय दुन्दुभेर्मर्दनाय च । अजातशत्रवे तुभ्यं जगत्प्राणाय ते नमः ॥ ३१॥ नमो ब्रह्मशिरश्छेत्रे पञ्चवक्त्राय खड्गिने । नमस्ते हरिकेशाय पञ्चवर्णाय वज्रिणे ॥ ३२॥ नमः पञ्चाक्षरायाथ गोवर्धनधराय च । प्रभवे सर्वलोकानां कालकूटविषादिने ॥ ३३॥ सिद्धेश्वराय सिद्धाय सहस्रवदनाय च । नमः सहस्रहस्ताय सहस्रनयनाय च ॥ ३४॥ सहस्रमूर्तये तुभ्यं जिष्णवे जितशत्रवे । काशीनाथाय गेह्याय नमस्ते विश्वसाक्षिणे ॥ ३५॥ हेतवे सर्वजीवानां पालकाय नमो नमः । जगत्संहारकाराय त्रिधावस्थाय ते नमः ॥ ३६॥ एकादशस्वरूपाय नमस्ते वह्निमूर्तये । नरसिंहमहादर्पघातिने शरभाय च ॥ ३७॥ भस्माभ्यक्ताय तीर्थाय जाह्नवीजनकाय च । वल्लभाय देवदानवदैत्यानां गुरवे ते नमो नमः ॥ ३८॥ दलिताञ्जनभासाय नमो वायुस्वरूपिणे । स्वेच्छामन्त्रस्वरूपाय प्रसिद्धाय नमो नमः ॥ ३९॥ Var प्रसिद्धायात्मने नमः वृषध्वजाय गोष्ठ्याय जगद्यन्त्रप्रवर्तिने । अनाथाय प्रजेशाय विष्णुगर्वहराय च ॥ ४०॥ हरेर्विधातृकलहनाशकाय ते नमो नमः । Var हरिर्विधातृकलहनाशकाय नमस्ते दशहस्ताय गगनाय नमो नमः ॥ ४१॥ कैवल्यफलदात्रे च परमाय नमो नमः । ज्ञानाय ज्ञानगम्याय घण्टारवप्रियाय च ॥ ४२॥ पद्मासनाय पुष्टाय निर्वाणाय नमो नमः । अयोनये सुदेहाय ह्युत्तमाय नमो नमः ॥ ४३॥ अन्तकालाधिपतये विशालाक्षाय ते नमः । कुबेरबन्धवे तुभ्यं सोमाय सुखदायिने ॥ ४४॥ अमृतेश्वररूपाय कौबेराय च धन्विने । Var कौबेराय नमो नमः प्रियम्वदसमर्थाय वन्दिने विभवाय च ॥ ४५॥ गिरिशाय गिरित्राय गिरिशन्ताय ते नमः । पारिजाताय बृहते पञ्चयज्ञाय ते नमः ॥ ४६॥ तरुणाय विशिष्टाय बालरूपधराय च । जीवितेशाय तुष्टाय पुष्टानां पतये नमः ॥ ४७॥ भवहेत्यै हिरण्याय कनिष्ठाय नमो नमः । मध्यमाय विधात्रे च ते शूराय सुभगाय च ॥ ४८॥ आदित्यतापनायाथ नमस्ते रुद्रमन्यवे । महाह्रदाय ह्रस्वाय वामनाय नमो नमः ॥ ४९॥ नमस्तत्पुरुषायाथ चतुर्हस्ताय मायिने Var ते नमः । नमो धूर्जटये तुभ्यं जगदीशाय ते नमः ॥ ५०॥ जगन्नाथस्वरूपाय लीलाविग्रहरूपिणे । अनघाय नमस्तुभ्यममराय नमो नमः ॥ ५१॥ अमृताय नमस्तुभ्यमच्छात्राय नमो नमः । लोकाध्यक्षाय वै तुभ्यमनादिनिधनाय च ॥ ५२॥ व्यक्तेतराय व्यक्ताय नमस्ते परमाणवे । लघुस्थूलस्वरूपाय नमः परशुधारिणे ॥ ५३॥ नमः खट्वाङ्गहस्ताय नागहस्ताय ते नमः । वरदाभयहस्ताय घण्टाहस्ताय ते नमः ॥ ५४॥ घस्मराय नमस्तुभ्यमजिताय नमो नमः । अणिमादिगुणेशाय पञ्चब्रह्ममयाय च ॥ ५५॥ पुरातनाय शुद्धाय बलप्रमथनाय च । पुण्योदयाय पद्माय विरक्ताय नमो नमः ॥ ५६॥ उदाराय विचित्राय विचित्रगतये नमः । वाग्विशुद्धाय चितये निर्गुणाय नमो नमः ॥ ५७॥ परमेशाय शेषाय नमः पद्मधराय च । महेन्द्राय सुशीलाय करवीरप्रियाय च ॥ ५८॥ महापराक्रमायाथ नमस्ते कालरूपिणे । विष्टरश्रवसे लोकचूडारत्नाय ते नमः ॥ ५९॥ साम्राज्यकल्पवृक्षाय करुणाय नटाय च ।Var नमस्तुभ्यं त्विषीमते अनर्घ्याय वरेण्याय वज्ररूपाय ते नमः ॥ ६०॥ Var वरेण्याय नमस्तुभ्यं यज्ञरूपाय ते नमः परमज्योतिषे पद्मगर्भाय सलिलाय च । तत्त्वाधिकाय सर्गाय नमो दीर्घाय स्रग्विणे ॥ ६१॥ नमस्ते पाण्डुरङ्गाय घोराय ब्रह्मरूपिणे । निष्कलाय नमस्तुभ्यं प्रपथ्याय नमो नमः ॥ ६२॥ सामगानप्रियाय च नमो जयाय क्षेत्राय क्षेत्राणां पतये नमः । कलाधराय पूताय पञ्चभूतात्मने नमः ॥ ६३॥ अनिर्विण्णाय तथ्याय पापनाशकराय च । विश्वतश्चक्षुषे तुभ्यं मन्त्रिणेऽनन्तरूपिणे ॥ ६४॥ सिद्धसाधकरूपाय मेदिनीरूपिणे नमः । अगण्याय प्रतापाय सुधाहस्ताय ते नमः ॥ ६५॥ श्रीवल्लभायेध्रियाय स्थाणवे मधुराय च । उपाधिरहितायाथ नमः सुकृतराशये ॥ ६६॥ नमो मुनीश्वरायाथ शिवानन्दाय ते नमः । रिपुघ्नाय नमस्तेजोराशयेऽनुत्तमाय च ॥ ६७॥ चतुर्मूर्तिवपुःस्थाय नमोबुद्धीन्द्रियात्मने । उपद्रवहरायाथ प्रियसन्दर्शनाय च ॥ ६८॥ भूतनाथाय मूलाय वीतरागाय ते नमः । नैष्कर्म्याय विरूपाय षट्चक्राय विशुद्धये ॥ ६९॥ कुलेशायावनीभर्त्रे भुवनेशाय ते नमः । हिरण्यबाहवे जीववरदाय नमो नमः ॥ ७०॥ आदिदेवाय भाग्याय चन्द्रसञ्जीवनाय च । हराय बहुरूपाय प्रसन्नाय नमो नमः ॥ ७१॥ आनन्दपूरितायाथ कूटस्थाय नमो नमः । नमो मोक्षफलायाथ शाश्वताय विरागिणे ॥ ७२॥ यज्ञभोक्त्रे सुषेणाय दक्षयज्ञविघातिने । नमः सर्वात्मने तुभ्यं विश्वपालाय ते नमः ॥ ७३॥ विश्वगर्भाय गर्भाय देवगर्भाय ते नमः । संसारार्णवमग्नानां समुद्धरणहेतवे ॥ ७४॥ मुनिप्रियाय खल्याय मूलप्रकृतये नमः । समस्तसिद्धये तेजोमूर्तये ते नमो नमः ॥ ७५॥ आश्रमस्थापकायाथ वर्णिने सुन्दराय च । मृगबाणार्पणायाथ शारदावल्लभाय च ॥ ७६॥ विचित्रमायिने तुभ्यमलङ्करिष्णवे नमः । बर्हिर्मुखमहादर्पमथनाय नमो नमः ॥ ७७॥ नमोऽष्टमूर्तये तुभ्यं निष्कलङ्काय ते नमः । नमो हव्याय भोज्याय यज्ञनाथाय ते नमः ॥ ७८॥ नमो मेध्याय मुख्याय विशिष्टाय नमो नमः । अम्बिकापतये तुभ्यं महादान्ताय ते नमः ॥ ७९॥ सत्यप्रियाय सत्याय प्रियनित्याय ते नमः । नित्यतृप्ताय वेदित्रे मृदुहस्ताय ते नमः ॥ ८०॥ अर्धनारीश्वरायाथ कुठारायुधपाणये । वराहभेदिने तुभ्यं नमः कङ्कालधारिणे ॥ ८१॥ महार्थाय सुसत्त्वाय कीर्तिस्तम्भाय ते नमः । नमः कृतागमायाथ वेदान्तपठिताय च ॥ ८२॥ अश्रोत्राय श्रुतिमते बहुश्रुतिधराय च । अघ्राणाय नमस्तुभ्यं गन्धावघ्राणकारिणे ॥ ८३॥ पादहीनाय वोढ्रे च सर्वत्रगतये नमः । त्र्यक्षाय जननेत्राय नमस्तुभ्यं चिदात्मने ॥ ८४॥ रसज्ञाय नमस्तुभ्यं रसनारहिताय च । अमूर्तायाथ मूर्ताय सदसस्पतये नमः ॥ ८५॥ जितेन्द्रियाय तथ्याय परञ्ज्योतिःस्वरूपिणे । नमस्ते सर्वमर्त्यानामादिकर्त्रे भुवन्तये ॥ ८६॥ सर्गस्थितिविनाशानां कर्त्रे ते प्रेरकाय च । नमोऽन्तर्यामिणे सर्वहृदिस्थाय नमो नमः ॥ ८७॥ चक्रभ्रमणकर्त्रे ते पुराणाय नमो नमः । वामदक्षिणहस्तोत्थलोकेश हरिशालिने ॥ ८८॥ नमः सकलकल्याणदायिने प्रसवाय च । स्वभावोदारधीराय सूत्रकाराय ते नमः ॥ ८९॥ विषयार्णवमग्नानां समुद्धरणसेतवे । अस्नेहस्नेहरूपाय वार्तातिक्रान्तवर्तिने ॥ ९०॥ यत्र सर्वं यतः सर्वं सर्वं यत्र नमो नमः । नमो महार्णवायाथ भास्कराय नमो नमः ॥ ९१॥ भक्तिगम्याय भक्तानां सुलभाय नमो नमः । दुष्प्रधर्षाय दुष्टानां विजयाय विवेकिनाम् ॥ ९२॥ अतर्किताय लोकाय सुलोकाय नमो नमः । पूरयित्रे विशेषाय शुभाय च नमो नमः ॥ ९३॥ नमः कर्पूरदेहाय सर्पहाराय ते नमः । नमः संसारपाराय कमनीयाय ते नमः ॥ ९४॥ वह्निदर्पविघाताय वायुदर्पविघातिने । जरातिगाय वीर्याय नमस्ते विश्वव्यापिने ॥ ९५॥ सूर्यकोटिप्रतीकाश निष्क्रियाय नमो नमः । चन्द्रकोटिसुशीताय विमलाय नमो नमः ॥ ९६॥ नमो गूढस्वरूपाय दिशां च पतये नमः । नमः सत्यप्रतिज्ञाय समस्ताय समाधये ॥ ९७॥ एकरूपाय शून्याय विश्वनाभिह्रदाय च । सर्वोत्तमाय कूल्याय प्राणिनां सुहृदे नमः ॥ ९८॥ कालाय अन्नानां पतये तुभ्यं चिन्मात्राय नमो नमः । ध्येयाय ध्यानगम्याय ध्यानरूपाय ते नमः ॥ ९९॥ नमस्ते शाश्वतैश्वर्यविभवाय नमो नमः । वरिष्ठाय धर्मगोप्त्रे निधनायाग्रजाय च ॥ १००॥ योगीश्वराय योगाय योगगम्याय ते नमः । नमः प्राणेश्वरायाथ सर्वशक्तिधराय च ॥ १०१॥ धर्माधाराय धन्याय पुष्कलाय नमो नमः । महेन्द्रोपेन्द्रचन्द्रार्कनमिताय नमो नमः ॥ १०२॥ महर्षिवन्दितायाथ प्रकाशाय सुधर्मिणे । नमो हिरण्यगर्भाय नमो हिरण्मयाय च ॥ १०३॥ जगद्बीजाय हरये सेव्याय क्रतवे नमः । आधिपत्याय कामाय यशसे ते प्रचेतसे ॥ १०४॥ नमो ब्रह्ममयायाथ सकलाय नमो नमः । नमस्ते रुक्मवर्णाय नमस्ते ब्रह्मयोनये ॥ १०५॥ योगात्मने त्वभीताय दिव्यनृत्याय ते नमः । जगतामेकबीजाय मायाबीजाय ते नमः ॥ १०६॥ सर्वहृत्सन्निविष्टाय ब्रह्मचक्रभ्रमाय च । ब्रह्मानन्दाय महते ब्रह्मण्याय नमो नमः ॥ १०७॥ भूमिभारार्तिसंहर्त्रे विधिसारथये नमः । हिरण्यगर्भपुत्राणां प्राणसंरक्षणाय च ॥ १०८॥ दुर्वाससे षड्विकाररहिताय नमो नमः । नमो देहार्धकान्ताय षडूर्मिरहिताय च ॥ १०९॥ प्रकृत्यै भवनाशाय ताम्राय परमेष्ठिने । अनन्तकोटिब्रह्माण्डनायकाय नमो नमः ॥ ११०॥ एकाकिने निर्मलाय द्रविणाय दमाय च । नमस्त्रिलोचनायाथ शिपिविष्टाय बन्धवे ॥ १११॥ त्रिविष्टपेश्वरायाथ नमो व्याघ्रेश्वराय च । विश्वेश्वराय दात्रे ते नमश्चन्द्रेश्वराय च ॥ ११२॥ व्याधेश्वरायायुधिने यज्ञकेशाय ते नमः । व्यासेश्वराय जैगीषव्येश्वरायाथ दिवोदासेश्वराय च ॥ ११३॥ नागेश्वराय न्यायाय न्यायनिर्वाहकाय च । शरण्याय सुपात्राय कालचक्रप्रवर्तिने ॥ ११४॥ विचक्षणाय दंष्ट्राय वेदाश्वाय नमो नमः । नीलजीमूतदेहाय परात्मज्योतिषे नमः ॥ ११५॥ शरणागतपालाय महाबलपराय च । सर्वपापहरायाथ महानादाय ते नमः ॥ ११६॥ कृष्णस्य जयदात्रे ते बिल्वकेशाय ते नमः । दिव्यभोगाय दूताय कोविदाय नमो नमः ॥ ११७॥ कामपाशाय चित्राय चित्राङ्गाय नमो नमः । नमो मातामहायाथ नमस्ते मातरिश्वने ॥ ११८॥ निःसङ्गाय सुनेत्राय विद्येशाय जयाय च । व्याघ्रसम्मर्दनायाथ मध्यस्थाय नमो नमः ॥ ११९॥ अङ्गुष्ठशिरसा लङ्कानाथदर्पहराय च । वैयाघ्रपुरवासाय नमः सर्वेश्वराय च ॥ १२०॥ नमः परावरेशाय जगत्स्थावरमूर्तये । नमोऽप्यनुपमेशाय शार्ङ्गिणे विष्णुमूर्तये ॥ १२१॥ नारायणाय रामाय सुदीप्ताय नमो नमः । नमो ब्रह्माण्डमालाय गोधराय वरूथिने ॥ १२२॥ नमः सोमाय कूप्याय नमः पातालवासिने । नमस्ताराधिनाथाय वागीशाय नमो नमः ॥ १२३॥ सदाचाराय गौराय स्वायुधाय नमो नमः । अतर्क्यायाप्रमेयाय प्रमाणाय नमो नमः ॥ १२४॥ कलिग्रासाय भक्तानां भुक्तिमुक्तिप्रदायिने । संसारमोचनायाथ वर्णिने लिङ्गरूपिणे ॥ १२५॥ सच्चिदानन्दरूपाय पापराशिहराय च । गजारये विदेहाय त्रिलिङ्गरहिताय च ॥ १२६॥ अचिन्त्यशक्तयेऽलङ्घ्यशासनायाच्युताय च । नमो राजाधिराजाय चैतन्यविषयाय च ॥ १२७॥ नमः शुद्धात्मने ब्रह्मज्योतिषे स्वस्तिदाय च । मयोभुवे च दुर्ज्ञेयसामर्थ्याय च यज्वने ॥ १२८॥ चक्रेश्वराय वै तुभ्यं नमो नक्षत्रमालिने । अनर्थनाशनायाथ भस्मलेपकराय च ॥ १२९॥ सदानन्दाय विदुषे सगुणाय विरोधिने । दुर्गमाय शुभाङ्गाय मृगव्याधाय ते नमः ॥ १३०॥ प्रियाय धर्मधाम्ने ते प्रयोगाय विभागिने । नाद्यायामृतपानाय सोमपाय तपस्विने ॥ १३१॥ नमो विचित्रवेषाय पुष्टिसंवर्धनाय च । चिरन्तनाय धनुषे वृक्षाणां पतये नमः ॥ १३२॥ निर्मायायाग्रगण्याय व्योमातीताय ते नमः । संवत्सराय लोप्याय स्थानदाय स्थविष्णवे ॥ १३३॥ व्यवसायफलान्ताय महाकर्तृप्रियाय च । गुणत्रयस्वरूपाय नमः सिद्धस्वरूपिणे ॥ १३४॥ नमः स्वरूपरूपाय स्वेच्छाय पुरुषाय च । कालात्पराय वेद्याय नमो ब्रह्माण्डरूपिणे ॥ १३५॥ अनित्यनित्यरूपाय तदन्तर्वर्तिने नमः । नमस्तीर्थ्याय कूल्याय पूर्णाय वटवे नमः ॥ १३६॥ पञ्चतन्मात्ररूपाय पञ्चकर्मेन्द्रियात्मने । विश‍ृङ्खलाय दर्पाय नमस्ते विषयात्मने ॥ १३७॥ अनवद्याय शास्त्राय स्वतन्त्रायामृताय च । नमः प्रौढाय प्राज्ञाय योगारूढाय ते नमः ॥ १३८॥ मन्त्रज्ञाय प्रगल्भाय प्रदीपविमलाय च । विश्ववासाय दक्षाय वेदनिःश्वसिताय च ॥ १३९॥ यज्ञाङ्गाय सुवीराय नागचूडाय ते नमः । व्याघ्राय बाणहस्ताय स्कन्दाय दक्षिणे नमः ॥ १४०॥ क्षेत्रज्ञाय रहस्याय स्वस्थानाय वरीयसे । गहनाय विरामाय सिद्धान्ताय नमो नमः ॥ १४१॥ महीधराय गृह्याय वटवृक्षाय ते नमः । ज्ञानदीपाय दुर्गाय सिद्धान्तैर्निश्चिताय च ॥ १४२॥ श्रीमते मुक्तिबीजाय कुशलाय विवासिने । प्रेरकाय विशोकाय हविर्धानाय ते नमः ॥ १४३॥ गम्भीराय सहायाय भोजनाय सुभोगिने । महायज्ञाय तीक्ष्णाय नमस्ते भूतचारिणे ॥ १४४॥ नमः प्रतिष्ठितायाथ महोत्साहाय ते नमः । परमार्थाय शिशवे प्रांशवे च कपालिने ॥ १४५॥ सहजाय गृहस्थाय सन्ध्यानाथाय विष्णवे । सद्भिः सम्पूजितायाथ वितलासुरघातिने ॥ १४६॥ जनाधिपाय योग्याय कामेशाय किरीटिने । अमोघविक्रमायाथ नग्नाय दलघातिने ॥ १४७॥ सङ्ग्रामाय नरेशाय नमस्ते शुचिभस्मने । भूतिप्रियाय भूम्ने ते सेनाय चतुराय च ॥ १४८॥ मनुष्यबाह्यगतये कृतज्ञाय शिखण्डिने । निर्लेपाय जटार्द्राय महाकालाय मेरवे ॥ १४९॥ नमो विरूपरूपाय शक्तिगम्याय ते नमः । नमः सर्वाय सदसत्सत्याय सुव्रताय च ॥ १५०॥ नमो भक्तिप्रियायाथ श्वेतरक्षापराय च । सुकुमारमहापापहराय रथिने नमः ॥ १५१॥ नमस्ते धर्मराजाय धनाध्यक्षाय सिद्धये । महाभूताय कल्पाय कल्पनारहिताय च ॥ १५२॥ ख्याताय जितविश्वाय गोकर्णाय सुचारवे । श्रोत्रियाय वदान्याय दुर्लभाय कुटुम्बिने ॥ १५३॥ विरजाय सुगन्धाय नमो विश्वम्भराय च । भवातीताय तिष्याय नमस्ते सामगाय च ॥ १५४॥ अद्वैताय द्वितीयाय कल्पराजाय भोगिने । चिन्मयाय नमः शुक्लज्योतिषे क्षेत्रगाय च ॥ १५५॥ सर्वभोगसमृद्धाय साम्परायाय ते नमः । नमस्ते स्वप्रकाशाय स्वच्छन्दाय सुतन्तवे ॥ १५६॥ सर्वज्ञमूर्तये तुभ्यं गुह्येशाय सुशान्तये । शारदाय सुशीलाय कौशिकाय धनाय च ॥ १५७॥ अभिरामाय तत्त्वाय व्यालकल्पाय ते नमः । अरिष्टमथनायाथ सुप्रतीकाय ते नमः ॥ १५८॥ आशवे ब्रह्मगर्भाय वरुणायाद्रये नमः । नमः कालाग्निरुद्राय श्यामाय सुजनाय च ॥ १५९॥ अहिर्बुध्न्याय जाराय दुष्टानां पतये नमः । नमः समयनाथाय समयाय गुहाय च ॥ १६०॥ दुर्लङ्घ्याय नमस्तुभ्यं छन्दःसाराय दंष्ट्रिणे । ज्योतिर्लिङ्गाय मित्राय जगतां हितकारिणे ॥ १६१॥ नमः कारुण्यनिधये श्लोकाय जयशालिने । ज्ञानोदयाय बीजाय जगद्विभ्रमहेतवे ॥ १६२॥ अवधूताय शिष्टाय छन्दसां पतये नमः । नमः फेन्याय गुह्याय सर्वबन्धविमोचिने ॥ १६३॥ उदारकीर्तये शश्वत्प्रसन्नवदनाय च । वसवे वेदकाराय नमो भ्राजिष्णुजिष्णवे ॥ १६४॥ चक्रिणे देवदेवाय गदाहस्ताय पुत्रिणे । पारिजातसुपुष्पाय गणाधिपतये नमः ॥ १६५॥ सर्वशाखाधिपतये प्रजनेशाय ते नमः । सूक्ष्मप्रमाणभूताय सुरपार्श्वगताय च ॥ १६६॥ अशरीरशरीराय अप्रगल्भाय ते नमः । सुकेशाय सुपुष्पाय श्रुतये पुष्पमालिने ॥ १६७॥ मुनिध्येयाय मुनये बीजसंस्थमरीचये । चामुण्डाजनकायाथ नमस्ते कृत्तिवाससे ॥ १६८॥ व्युप्तकेशाय योग्याय धर्मपीठाय ते नमः । महावीर्याय दीप्ताय बुद्धायाशनये नमः ॥ १६९॥ विशिष्टेष्टाय सेनान्ये द्विपदे कारणाय च । कारणानां भगवते बाणदर्पहराय च ॥ १७०॥ अतीन्द्रियाय रम्याय जनानन्दकराय च । सदाशिवाय सौम्याय चिन्त्याय शशिमौलये ॥ १७१॥ नमस्ते जातूकर्ण्याय सूर्याध्यक्षाय ते नमः । ज्योतिषे कुण्डलीशस्य वरदायाभयाय च ॥ १७२॥ वसन्ताय सुरभये जयारिमथनाय च । प्रेम्णे पुरञ्जयायाथ पृषदश्वाय ते नमः ॥ १७३॥ रोचिष्णवेऽसुरजिते श्वेतपीताय ते नमः । नमस्ते चञ्चरीकाय तमिस्रमथनाय च ॥ १७४॥ प्रमाथिने निदाघाय चित्रगर्भाय ते नमः । शिवालयाय स्तुत्याय तीर्थदेवाय ते नमः ॥ १७५॥ पत्तीनां पतये तुभ्यं विचित्रगतये नमः । Var विचित्रशक्तये नमो निस्तुलरूपाय सवित्रे तपसे नमः ॥ १७६॥ अहङ्कारस्वरूपाय मेघाधिपतये नमः । अपाराय तत्त्वविदे क्षयद्वीराय ते नमः ॥ १७७॥ पञ्चास्यायाग्रगण्याय विष्णुप्राणेश्वराय च । अगोचराय याम्याय क्षेम्याय वडवाग्नये ॥ १७८॥ विक्रमाय स्वतन्त्राय स्वतन्त्रगतये नमः ॥ वनानां पतये तुभ्यं नमस्ते जमदग्नये ॥ १७९॥ अनावृताय मुक्ताय मातृकापतये नमः । नमस्ते बीजकोशाय दिव्यानन्दाय ते नमः ॥ १८०॥ नमस्ते विश्वदेवाय शान्तरागाय ते नमः । विलोचनसुदेवाय हेमगर्भाय ते नमः ॥ १८१॥ अनाद्यन्ताय चण्डाय मनोनाथाय ते नमः । ज्ञानस्कन्दाय तुष्टाय कपिलाय महर्षये ॥ १८२॥ नमस्त्रिकाग्निकालाय देवसिंहाय ते नमः । नमस्ते मणिपूराय चतुर्वेदाय ते नमः ॥ १८३॥ स्वरूपाणां स्वभावाय ह्यन्तर्यागाय ते नमः । नमः श्लोक्याय वन्याय महाधर्माय ते नमः ॥ १८४॥ प्रसन्नाय नमस्तुभ्यं सर्वात्मज्योतिषे नमः । स्वयम्भुवे त्रिमूर्तीनामध्वातीताय ते नमः ॥ १८५॥ सदाशिव उवाच जपन्तु मामिकां देवाः नाम्नां दशशतीमिमाम् । मम चातिप्रियकरीं महामोक्षप्रदायिनीम् ॥ १८६॥ सङ्ग्रामे जयदात्रीं तु सर्वसिद्धिकरीं शुभाम् । यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ॥ १८७॥ पुत्रकामो लभेत्पुत्रं राज्यकामस्तु राजताम् । प्राप्नुयात्परया भक्त्या धनधान्यादिकं बहु ॥ १८८॥ शिवालये नदीतीरे बिल्वमूले विशेषतः । प्रजपेत्सिद्धिदां देवाः शुचौ देशे शमीतले ॥ १८९॥ धनकामस्तु जुहुयाद्घृताक्तैर्बिल्वपत्रकैः । मोक्षकामस्तु गव्येन घृतेन प्रतिनामतः ॥ १९०॥ आयुष्कामस्तु जुहुयादाज्येन मधुना तथा । पुत्रकामस्तु जुहुयात्तिलाक्तेन तथाम्भसा ॥ १९१॥ मत्समीपे प्रदोषे च नत्वा भक्त्या जपेन्नरः । जीवन्सरूपतां प्राप्य सायुज्यं मम चाप्नुयात् ॥ १९२॥ कालोऽपि जनशास्ता हि मम भक्तं न पश्यति । अहं पुरःसरस्तस्य नेष्यामि गगनस्थलम् ॥ १९३॥ त्रिसन्ध्यं यः पठेद्भक्त्या वत्सरं नियमान्वितः । मच्चित्तो मन्मना भूत्वा साक्षान्मोक्षमवाप्नुयात् ॥ १९४॥ रुद्रपाठेन यत्पुण्यं यत्पुण्यं वेदपाठतः । तत्पुण्यं लभते योऽसावेकावृत्त्या पठेदिमाम् ॥ १९५॥ कन्याकोटिप्रदानेन यत्फलं लभते नरः । तत्फलं लभते सम्यङ्नाम्नां दशशतं जपन् ॥ १९६॥ अश्वमेधसहस्रस्य यत्फलं लभते नरः । कपिलाशतदानस्य तत्फलं पठनाद्भवेत् ॥ १९७॥ यः श‍ृणोति सदा विद्यां श्रावयेद्वापि भक्तितः । सोऽपि मुक्तिमवाप्नोति यत्र गत्वा न शोचति ॥ १९८॥ यक्षराक्षसवेतालग्रहकूष्माण्डभैरवाः । पठनादस्य नश्यन्ति जीवेच्च शरदां शतम् ॥ १९९॥ ब्रह्महत्यादिपापानां नाशः स्याच्छ्रवणेन तु । किं पुनः पठनादस्य मुक्तिः स्यादनपायिनी ॥ २००॥ इत्युक्त्वा स महादेवो भगवान्परमेश्वरः । पुनरप्याह भगवान्कृपया परया युतः ॥ २०१॥ दीयतां मम भक्तेभ्यो यदुक्तं भवघातकम् । इत्युक्त्वान्तर्दधे देवः परानन्दस्वरूपधृक् ॥ २०२॥ श्रीकृष्ण उवाच एतदेव पुरा रामो लब्धवान् कुम्भसम्भवात् । अरण्ये दण्डकाख्ये तु प्रजजाप रघूद्वहः ॥ २०३॥ नित्यं त्रिषवणस्नायी त्रिसन्ध्यं सुस्मरञ्शिवम् । तदासौ देवदेवोऽपि प्रत्यक्षः प्राह राघवम् ॥ २०४॥ महापाशुपतं दिव्यं प्रगृहाण रघूद्वह । एतदासाद्य पौलस्त्यं जहि मा शोकमर्हसि ॥ २०५॥ तदाप्रभृति भूदेवाः प्रजपन्ति सुभक्तितः । गृह्णन्तु परया भक्त्या भवन्तः सर्व एव हि ॥ २०६॥ श्रीव्यास उवाच ततस्ते मुनयः सर्वे जगृहुर्मुनिपुङ्गवाः । गृह्णन्तु मम वाक्यं तु मुक्तिं प्राप्स्यथ निश्चिताः ॥ २०७॥ भवद्भिरात्मशिष्येभ्यो दीयतामिदमादरात् । नाम्नां सहस्रमेतद्धि लिखितं यन्निकेतने ॥ २०८॥ अविमुक्तं तु तद्गेहं नित्यं तिष्ठति शङ्करः । अनेन मन्त्रितं भस्माखिलदुष्टविनाशनम् ॥ २०९॥ पिशाचस्य विनाशाय जप्तव्यमिदमुत्तमम् । नाम्नां सहस्रेणानेन समं किञ्चिन्न विद्यते ॥ २१०॥ ॥ इति श्रीपद्मपुराणे बिल्वकेश्वरमाहात्म्ये श्रीकृष्णमार्कण्डेय संवादे वेदसारशिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥ ॥