अक्षर आकार:

श्रीवैद्यनाथस्तोत्रम्

Shri Vaidyanatha Stotram

श्रीवैद्यनाथस्तोत्रम्

अचिकित्सचिकित्साय आद्यन्तरहिताय च । सर्वलोकैकवन्द्याय वैद्यनाथाय ते नमः ॥ १॥ अप्रेमेयाय महते सुप्रसन्नमुखाय च । अभीष्टदायिने नित्यं वैद्यनाथाय ते नमः ॥ २॥ मृत्युञ्जयाय शर्वाय मृडानीवामभागिने । वेदवेद्याय रुद्राय वैद्यनाथाय ते नमः ॥ ३॥ श्रीरामभद्रवन्द्याय जगतां हितकारिणे । सोमार्धधारिणे नित्यं वैद्यनाथाय ते नमः ॥ ४॥ नीलकण्ठाय सौमित्रिपूजिताय मृडाय च । चन्द्रवह्न्यर्कनेत्राय वैद्यनाथाय ते नमः ॥ ५॥ शिखिवाहनवन्द्याय सृष्टिस्थित्यन्तकारिणे । मणिमन्त्रौषधीशाय वैद्यनाथाय ते नमः ॥ ६॥ गृध्रराजाभिवन्द्याय दिव्यगङ्गाधराय च । जगन्मयाय शर्वाय वैद्यनाथाय ते नमः ॥ ७॥ कुजवेदविधीन्द्राद्यैः पूजिताय चिदात्मने । आदित्यचन्द्रवन्द्याय वैद्यनाथाय ते नमः ॥ ८॥ वेदवेद्य कृपाधार जगन्मूर्ते शुभप्रद । अनादिवैद्य सर्वज्ञ वैद्यनाथ नमोऽस्तु ते ॥ ९॥ गङ्गाधर महादेव चन्द्रवह्न्यर्कलोचन । पिनाकपाणे विश्वेश वैद्यनाथ नमोऽस्तु ते ॥ १०॥ वृषवाहन देवेश अचिकित्सचिकित्सक । करुणाकर गौरीश वैद्यनाथ नमोऽस्तु ते ॥ ११॥ विधिविष्णुमुखैर्देवैरर्च्यमानपदाम्बुज । अप्रमेय हरेशान वैद्यनाथ नमोऽस्तु ते ॥ १२॥ रामलक्ष्मणसूर्येन्दुजटायुश्रुतिपूजित । मदनान्तक सर्वेश वैद्यनाथ नमोऽस्तु ते ॥ १३॥ प्रपञ्चभिषगीशान नीलकण्ठ महेश्वर । विश्वनाथ महादेव वैद्यनाथ नमोऽस्तु ते ॥ १४॥ उमापते लोकनाथ मणिमन्त्रौषधेश्वर । दीनबन्धो दयासिन्धो वैद्यनाथ नमोऽस्तु ते ॥ १५॥ त्रिगुणातीत चिद्रूप तापत्रयविमोचन । विरूपाक्ष जगन्नाथ वैद्यनाथ नमोऽस्तु ते ॥ १६॥ भूतप्रेतपिशाचादेरुच्चाटनविचक्षण । कुष्ठादिसर्वरोगाणां संहर्त्रे ते नमो नमः ॥ १७॥ जाड्यन्धकुब्जादेर्दिव्यरूपप्रदायिने । अनेकमूकजन्तूनां दिव्यवाग्दायिने नमः ॥ १८॥ इति श्रीवैद्यनाथस्तोत्रं सम्पूर्णम् ।