अक्षर आकार:

वीरेश्वराभिलाषाष्टकम् अथवा विश्वेश्वरस्तोत्रम्

vIreshvarAbhilAShAShTakam or vishveshvarastotram

वीरेश्वराभिलाषाष्टकम् अथवा विश्वेश्वरस्तोत्रम्

॥ श्रीगणेशाय नमः ॥ विश्वानर उवाच । एकं ब्रह्मैवाद्वितीयं समस्तं सत्यं सत्यं नेह नानाऽस्ति किं तु । एको रुद्रो न द्वितीयोऽवतस्थे तस्मादेकं तत्त्वां प्रपद्ये महेशम् ॥ १॥ एकः कर्ता त्वं हि सर्वस्य शम्भो नानारूपेष्वेकरूपोऽप्यरूपः । यद्वत्प्रत्यग्धर्म एकोऽप्यनेकस्तस्मान्नान्यं त्वां विनेशं प्रपद्ये ॥ २॥ रज्जौ सर्पः शुक्तिकायां च रौप्यं नैरः पूरस्तन्मृगाख्ये मरीचौ । यद्यत्तद्वद्विष्वगेषः प्रपञ्चो यस्मिन् ज्ञाते त्वां प्रपद्ये महेशम् ॥ ३॥ तोये शैत्यं दाहकत्वं च वह्नौ तापो भानौ शीतभानौ प्रसादः । पुष्पे गन्धो दुग्धमध्येऽपि सर्पिर्यत्तच्छम्भो त्वं ततस्त्वां प्रपद्ये ॥ ४॥ शब्दं गृह्णास्यश्रवास्त्वं हि जिघ्रेरघ्राणस्त्वं व्यङ्घ्रिरायासि दूरात् । व्यक्षः पश्येस्त्वं रसज्ञोऽप्यजिह्वः कस्त्वां सम्यग्वेत्त्यतस्त्वां प्रपद्ये ॥ ५॥ नो वेदस्त्वामीश साक्षाद्विवेदो नो वा विष्णुर्नो विधाताऽखिलस्य । नो योगीन्द्रा नेन्द्रमुख्याश्च देवा भक्तो वेदस्त्वामतस्त्वां प्रपद्ये ॥ ६॥ नो ते गोत्रं नापि जन्मापि नाख्या नो वा रूपं नैव शीलं न तेजः । इत्थं भूतोऽपीश्वरस्त्वं त्रिलोक्याः सर्वान्कामान्पूरयेस्त्वं भजे त्वाम् ॥ ७॥ त्वत्तत्सर्वं त्वं हि सर्वं स्मरारे त्वं गौरीशस्त्वं च नग्नोऽतिशान्तः । त्वं वै वृद्धस्त्वं युवा त्वं च बालस्तत्किं यत्त्वं नास्यतस्त्वां नतोऽहम् ॥ ८॥ स्तुत्वेति भूमौ निपपात विप्रः स दण्डवद्यावदतीव हृष्टः । तावत्स बालोऽखिलवृद्धवृद्धः प्रोवाच भूदेव वरं वृणीहि ॥ तत उत्थाय हृष्टात्मा मुनिर्विश्वानरः कृती । प्रत्यब्रवीत्किमज्ञातं सर्वज्ञस्य तव प्रभो ॥ सर्वान्तरात्मा भगवान्सर्वः सर्वप्रदो भवान् । यात्राप्रतिनियुक्ते मां किमीशो दैन्यकारिणीम् । इति श्रुत्वा वचस्तस्य देवो विश्वानरस्य ह । शुचिः शुचिव्रतस्याथ शुचिस्मित्वाब्रवीच्छिशुः ॥ बाल उवाच । त्वया शुचे शुचिष्मत्यां योऽभिलाषः कृतो हृदि । अचिरेणैव कालेन स भविष्यत्यसंशयः ॥ तव पुत्रत्वमेष्यामि शुचिष्मत्यां महामते । ख्यातो गृहपतिर्नाम्ना शुचिः सर्वामरप्रियः ॥ अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् । अब्दं त्रिकालपठनात्कामदं शिवसन्निधौ ॥ एतत्स्तोत्रस्य पठनं पुत्रपौत्रधनप्रदम् । सर्वशान्तिकरं चापि सर्वापत्परिनाशनम् ॥ स्वर्गापवर्गसम्पत्तिकारकं नात्र संशयः । प्रातरुत्थाय सुस्नातो लिङ्गमभ्यर्च्य शाम्भवम् ॥ वर्षं जपमिदं स्तोत्रमपुत्रः पुत्रवान्भवेत् । वैशाखे कार्तिके माघे विशेषनियमैर्युतः ॥ यः पठेत्स्नानसमये लभते सकलं फलम् । कार्तिकस्य तु मासस्य प्रसादादहमव्ययः ॥ तव पुत्रत्वमेष्यामि यस्त्वन्यस्तत्पठिष्यति । अभिलाषाष्टकमिदं न देयं यस्य कस्यचित् ॥ गोपनीयं प्रयत्नेन महावन्ध्याप्रसूतिकृत् । स्त्रिया वा पुरुषेणापि नियमाल्लिङ्गसन्निधौ ॥ अब्दं जपमिदं स्तोत्रं पुत्रदं नात्र संशयः । इत्युक्त्वान्तर्दधे बालः सोपि विप्रो गृहं गतः ॥ ॥ इति श्रीस्कन्दपुराणे काशीखण्डे वीरेश्वरस्तोत्रं सम्पूर्णम् ॥ Alternative names vishveshvarastotram, vIreshvarastotram, vIreshvarAbhilAShAShTakam