अक्षर आकार:

श्रीवीरभद्रसहस्रनामस्तोत्रम्

shrIvIrabhadrasahasranAmastotram

श्रीवीरभद्रसहस्रनामस्तोत्रम्

ॐ श्रीगणेशाय नमः । श्रीउमामहेश्वराभ्यां नमः । श्रीवीरभद्राय नमः । श्रीभद्रकाल्यै नमः । ॥ श्रीवीरभद्रसहस्रनामस्तोत्रम् ॥ पूर्वभागम् । ॐ अस्य श्रीवीरभद्रसहस्रनामस्तोत्रमहामन्त्रस्य नारायणऋषिः । अनुष्टुप्छन्दः । श्रीवीरभद्रोदेवता । श्रीं बीजम् । वीं शक्तिः । रं कीलकम् ॥ ममोपात्त समस्तदुरितक्षयार्थं चिन्तितफलावाप्त्यर्थं धर्मार्थकाममोक्ष चतुर्विधफलपुरुषार्थसिद्ध्यर्थं श्रीवीरभद्रसहस्रनामस्तोत्रपाठे विनियोगः ॥ अथ ध्यानम् । रौद्रं रुद्रावतारं हुतवहनयनं चोर्ध्वकेशं सुदंष्ट्रं भीमाङ्गं भीमरूपं किणिकिणिरभसं ज्वालमालाऽऽवृताङ्गम् । भूतप्रेतादिनाथं करकमलमहाखड्गपात्रे वहन्तं वन्दे लोकैकवीरं त्रिभुवननमितं श्यामलं वीरभद्रम् ॥ अथ सहस्रनामस्तोत्रम् । शम्भुः शिवो महादेवो शितिकण्ठो वृषध्वजः । दक्षाध्वरकरो दक्षः क्रूरदानवभञ्जनः ॥ १॥ कपर्दी कालविध्वंसी कपाली करुणार्णवः । शरणागतरक्षैकनिपुणो नीललोहितः ॥ २॥ निरीशो निर्भयो नित्यो नित्यतृप्तो निरामयः । गम्भीरनिनदो भीमो भयङ्करस्वरूपधृत् ॥ ३॥ पुरन्दरादि गीर्वाणवन्द्यमानपदाम्बुजः । संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजः ॥ ४॥ मृत्युञ्जयः कृत्तिवासस्त्र्यम्बकस्त्रिपुरान्तकः । वृन्दारवृन्दमन्दारो मन्दाराचलमण्डनः ॥ ५॥ कुन्देन्दुहारनीहारहारगौरसमप्रभः । राजराजसखः श्रीमान् राजीवायतलोचनः ॥ ६॥ महानटो महाकालो महासत्यो महेश्वरः । उत्पत्तिस्थितिसंहारकारणानन्दकर्मकः ॥ ७॥ सारः शूरो महाधीरो वारिजासनपूजितः । वीरसिंहासनारूढो वीरमौलिशिखामणिः ॥ ८॥ वीरप्रियो वीररसो वीरभाषणतत्परः । वीरसङ्ग्रामविजयी वीराराधनतोषितः ॥ ९॥ वीरव्रतो विराड्रूपो विश्वचैतन्यरक्षकः । वीरखड्गो भारशरो मेरुकोदण्डमण्डितः ॥ १०॥ वीरोत्तमाङ्गः श‍ृङ्गारफलको विविधायुधः । नानासनो नतारातिमण्डलो नागभूषणः ॥ ११॥ नारदस्तुतिसन्तुष्टो नागलोकपितामहः । सुदर्शनः सुधाकायो सुरारातिविमर्दनः ॥ १२॥ असहायः परः सर्वसहायः साम्प्रदायकः । कामदो विषभुग्योगी भोगीन्द्राञ्चितकुण्डलः ॥ १३॥ उपाध्यायो दक्षरिपुः कैवल्यनिधिरच्युतः । सत्त्वं रजस्तमः स्थूलः सूक्ष्मोऽन्तर्बहिरव्ययः ॥ १४॥ भूरापो ज्वलनो वायुर्गगनं त्रिजगद्गुरुः । निराधारो निरालम्बः सर्वाधारः सदाशिवः ॥ १५॥ भास्वरो भगवान् भालनेत्रो भावजसंहरः । व्यालबद्धजटाजूटो बालचन्द्रशिखामणिः ॥ १६॥ अक्षय्यैकाक्षरो दुष्टशिक्षकः शिष्टरक्षितः । दक्षपक्षेषुबाहुल्यवनलीलागजो ऋजुः ॥ १७॥ यज्ञाङ्गो यज्ञभुग्यज्ञो यज्ञेशो यजनेश्वरः । महायज्ञधरो दक्षसम्पूर्णाहूतिकौशलः ॥ १८॥ मायामयो महाकायो मायातीतो मनोहरः । मारदर्पहरो मञ्जुर्महीसुतदिनप्रियः ॥ १९॥ सौम्यः समोऽसमोऽनन्तः समानरहितो हरः । सोमोऽनेककलाधामा व्योमकेशो निरञ्जनः ॥ २०॥ गुरुः सुरगुरुर्गूढो गुहाराधनतोषितः । गुरुमन्त्राक्षरगुरुः परः परमकारणम् ॥ २१॥ कलिः कलाढ्यो नीतिज्ञः करालासुरसेवितः । कमनीयरविच्छायो नन्दनानन्दवर्धनः ॥ २२॥ स्वभक्तपक्षः प्रबलः स्वभक्तबलवर्धनः । स्वभक्तप्रतिवादीन्द्रमुखचन्द्रवितुन्तुदः ॥ २३॥ शेषभूषो विशेषज्ञस्तोषितः सुमनाः सुधीः । दूषकाभिजनोद्धूतधूमकेतुस्सनातनः ॥ २४॥ दूरीकृताघपटलश्चोरीकृतसुखप्रजः । पूरीकृतेषुकोदण्डो निर्वैरीकृतसङ्गरः ॥ २५॥ ब्रह्मविद्ब्राह्मणो ब्रह्म ब्रह्मचारी जगत्पतिः । ब्रह्मेश्वरो ब्रह्ममयः परब्रह्मात्मकः प्रभुः ॥ २६॥ नादप्रियो नादमयो नादबिन्दुर्नगेश्वरः । आदिमध्यान्तरहितो वादो वादविदां वरः ॥ २७॥ इष्टो विशिष्टस्तुष्टघ्नः पुष्टिदः पुष्टिवर्धनः । कष्टदारिद्र्यनिर्नाशो दुष्टव्याधिहरो हरः ॥ २८॥ पद्मासनः पद्मकरो नवपद्मासनार्चितः । नीलाम्बुजदलश्यामो निर्मलो भक्तवत्सलः ॥ २९॥ नीलजीमूतसङ्काशः कालकन्धरबन्धुरः । जपाकुसुमसन्तुष्टो जपहोमार्च्चनप्रियः ॥ ३०॥ जगदादिरनादीशोऽजगवन्धरकौतुकः । पुरन्दरस्तुतानन्दः पुलिन्दः पुण्यपञ्जरः ॥ ३१॥ पौलस्त्यचलितोल्लोलपर्वतः प्रमदाकरः । करणं कारणं कर्म करणीयाग्रणीर्दृढः ॥ ३२॥ करिदैत्येन्द्रवसनः करुणापूरवारिधिः । कोलाहलप्रियः प्रीतः शूली व्यालकपालभृत् ॥ ३३॥ कालकूटगलः क्रीडालीलाकृतजगत्त्रयः । दिगम्बरो दिनेशेशो धीमान्धीरो धुरन्धरः ॥ ३४॥ दिक्कालाद्यनवच्छिन्नो धूर्जटिर्धूतदुर्गतिः । कमनीयः करालास्यः कलिकल्मषसूदनः ॥ ३५॥ करवीरोऽरुणाम्भोजकल्हारकुसुमार्पितः । खरो मण्डितदोर्दण्डः खरूपः कालभञ्जनः ॥ ३६॥ खरांशुमण्डलमुखः खण्डितारामतिण्डलः । गणेशगणितोऽगण्यः पुण्यराशी सुखोदयः ॥ ३७॥ गणाधिपकुमारादिगणकैरवबान्धवः । घनघोषबृहन्नादघनीकृतसुनूपुरः ॥ ३८॥ घनचर्चितसिन्दूरो घण्टाभीषणभैरवः । परापरो बलोऽनन्तश्चतुरश्चक्रबन्धकः ॥ ३९॥ चतुर्मुखमुखाम्भोजचतुरस्तुतितोषणः । छलवादी छलश्शान्तश्छान्दसश्छान्दसप्रियः ॥ ४०॥ छिन्नच्छलादिदुर्वादच्छिन्नषट्तन्त्रतान्त्रिकः । जडीकृतमहावज्रजम्भारातिर्नतोन्नतः ॥ ४१॥ जगदाधारभूतेशो जगदन्तो निरञ्जनः । झर्झरध्वनिसम्युक्तो झङ्काररवभूषणः ॥ ४२॥ झटीविपक्षवृक्षौघझञ्झामारुतसन्निभः । प्रवर्णाञ्चितपत्राङ्कः प्रवर्णाद्यक्षरव्रजः ॥ ४३॥ ट वर्णबिन्दुसम्युक्तष्टङ्कारहृतदिग्गजः । ठ वर्णपूरद्विदळष्टवर्णाग्रदळाक्षरः ॥ ४४॥ ठ वर्णयुतसद्यन्त्रष्ठ ज चाक्षरपूरकः । डमरुध्वनिसम्रक्तो डम्बरानन्दताण्डवः ॥ ४५॥ डण्डण्ढघोषप्रमदाऽऽडम्बरो गणताण्डवः । ढक्कापटहसुप्रीतो ढक्कारववशानुगः ॥ ४६॥ ढक्कादिताळसन्तुष्टो टोडिबद्धस्तुतिप्रियः । तपस्विरूपस्तपनस्तप्तकाञ्चनसन्निभः ॥ ४७॥ तपस्विवदनाम्भोजकारुण्यस्तरणिद्युतिः । ढगादिवादसौहार्दस्थितः सम्यमिनां वरः ॥ ४८॥ स्थाणुस्तण्डुनुतिप्रीतः स्थितिस्थावरजङ्गमः । दरहासाननाम्भोजदन्तहीरावळिद्युतिः ॥ ४९॥ दर्वीकराङ्गतभुजो दुर्वारो दुःखदुर्गहा । धनाधिपसखो धीरो धर्माधर्मपरायणः ॥ ५०॥ धर्मध्वजो दानशौण्डो धर्मकर्मफलप्रदः । पशुपाशहारः शर्वः परमात्मा सदाशिवः ॥ ५१॥ परापरः परशुधृत् पवित्रः सर्वपावनः । फल्गुनस्तुतिसन्तुष्टः फल्गुनाग्रजवत्सलः ॥ ५२॥ फल्गुनार्जितसङ्ग्रामफलपाशुपतप्रदः । बलो बहुविलासाङ्गो बहुलीलाधरो बहुः ॥ ५३॥ बर्हिर्मुखो सुराराध्यो बलिबन्धनबान्धवः । भयङ्करो भवहरो भर्गो भयहरो भवः ॥ ५४॥ भालानलो बहुभुजो भास्वान् सद्भक्तवत्सलः । मन्त्रो मन्त्रगणो मन्त्री मन्त्राराधनतोषितः ॥ ५५॥ मन्त्रयज्ञो मन्त्रवादी मन्त्रबीजो महान्महः । यन्त्रो यन्त्रमयो यन्त्री यन्त्रज्ञो यन्त्रवत्सलः ॥ ५६॥ यन्त्रपालो यन्त्रहरस्त्रिजगद्यन्त्रवाहकः । रजताद्रिसदावासो रवीन्दुशिखिलोचनः ॥ ५७॥ रतिश्रान्तो जितश्रान्तो रजनीकरशेखरः । ललितो लास्यसन्तुष्टो लब्धोग्रो लघुसाहसः ॥ ५८॥ लक्ष्मीनिजकरो लक्ष्यलक्षणज्ञो लसन्मतिः । वरिष्ठो वरदो वन्द्यो वरदानपरो वशी ॥ ५९॥ वैश्वानराञ्चितभुजो वरेण्यो विश्वतोमुखः । शरणार्तिहरः शान्तः शङ्करः शशिशेखरः ॥ ६०॥ शरभः शम्बरारातिर्भस्मोद्धूळितविग्रहः । षट्त्रिंशत्तत्त्वविद्रूपः षण्मुखस्तुतितोषणः ॥ ६१॥ षडक्षरः शक्तियुतः षट्पदाद्यर्थकोविदः । सर्वज्ञः सर्वसर्वेशः सर्वदाऽऽनन्दकारकः ॥ ६२॥ सर्ववित्सर्वकृत्सर्वः सर्वदः सर्वतोमुखः । हरः परमकल्याणो हरिचर्मधरः परः ॥ ६३॥ हरिणार्धकरो हंसो हरिकोटिसमप्रभः । देवदेवो जगन्नाथो देवेशो देववल्लभः ॥ ६४॥ देवमौलिशिखारत्नं देवासुरसुतोषितः । सुरूपः सुव्रतः शुद्धस्सुकर्मा सुस्थिरः सुधीः ॥ ६५॥ सुरोत्तमः सुफलदः सुरचिन्तामणिः शुभः । कुशली विक्रमस्तर्क्कः कुण्डलीकृतकुण्डली ॥ ६६॥ खण्डेन्दुकारकजटाजूटः कालानलद्युतिः । व्याघ्रचर्माम्बरधरो व्याघ्रोग्रबहुसाहसः ॥ ६७॥ व्याळोपवीती विलसच्छोणतामरसाम्बकः । द्युमणिस्तरणिर्वायुः सलिलं व्योम पावकः ॥ ६८॥ सुधाकरो यज्ञपतिरष्टमूर्तिः कृपानिधिः । चिद्रूपश्चिद्घनानन्दकन्दश्चिन्मयनिष्कलः ॥ ६९॥ निर्द्वन्द्वो निष्प्रभो नित्यो निर्गुणो निर्गतामयः । व्योमकेशो विरूपाक्षो वामदेवो निरञ्जनः ॥ ७०॥ नामरूपः शमधुरः कामचारी कलाधरः । जाम्बूनदप्रभो जाग्रज्जन्मादिरहितोज्ज्वलः ॥ ७१॥ जनकः सर्वजन्तूनां जन्मदुःखापनोदनः । पिनाकपाणिरक्रोधः पिङ्गलायतलोचनः ॥ ७२॥ परमात्मा पशूपतिः पावनः प्रमथाधिपः । प्रणवः कामदः कान्तः श्रीप्रदो दिव्यलोचनः ॥ ७३॥ प्रणतार्तिहरः प्राणः परञ्ज्योतिः परात्परः । तुष्टस्तुहिनशैलाधिवासः स्तोतृवरप्रदः ॥ ७४॥ इष्टकाम्यार्थफलदः सृष्टिकर्ता मरुत्पतिः । भृग्वत्रिकण्वजाबालि हृत्पद्माहिमदीधितिः ॥ ७५॥ क्रतुध्वंसी क्रतुमुखः क्रतुकोटिफलप्रदः । क्रतुः क्रतुमयः क्रूरदर्पघ्नो विक्रमो विभुः ॥ ७६॥ दधीचिहृदयानन्दो दधीच्यादिसुपालकः । दधीचिवाञ्छितसखो दधीचिवरदोऽनघः ॥ ७७॥ सत्पथक्रमविन्यासो जटामण्डलमण्डितः । साक्षित्रयीमयश्चारुकलाधरकपर्दभृत् ॥ ७८॥ मार्कण्डेयमुनिप्रीतो मृडो जितपरेतराट् । महीरथो वेदहयः कमलासनसारथिः ॥ ७९॥ कौण्डिन्यवत्सवात्सल्यः काश्यपोदयदर्पणः । कण्वकौशिकदुर्वासाहृद्गुहान्तर्निधिर्निजः ॥ ८०॥ कपिलाराधनप्रीतः कर्पूरधवलद्युतिः । करुणावरुणः काळीनयनोत्सवसङ्गरः ॥ ८१॥ घृणैकनिलयो गूढतनुर्मुरहरप्रियः । गणाधिपो गुणनिधिर्गम्भीराञ्चित वाक्पतिः ॥ ८२॥ विघ्ननाशो विशालाक्षो विघ्नराजो विशेषवित् । सप्तयज्ञयजः सप्तजिह्वा जिह्वातिसंवरः ॥ ८३॥ अस्थिमालाऽऽविलशिरो विस्तारितजगद्भुजः । न्यस्ताखिलस्रजस्तोकविभवः प्रभुरीश्वरः ॥ ८४॥ भूतेशो भुवनाधारो भूतिदो भूतिभूषणः । भूतात्मकात्मको भूर्भुवादि क्षेमकरः शिवः ॥ ८५॥ अणोरणीयान्महतो महीयान् वागगोचरः । अनेकवेदवेदान्ततत्त्वबीजस्तपोनिधिः ॥ ८६॥ महावनविलासोऽतिपुण्यनामा सदाशुचिः । महिषासुरमर्दिन्या नयनोत्सवसङ्गरः ॥ ८७॥ शितिकण्ठः शिलादादि महर्षिनतिभाजनः । गिरिशो गीष्पतिर्गीतवाद्यनृत्यस्तुतिप्रियः ॥ ८८॥ अङ्गीकृतः सुकृतिभिः श‍ृङ्गाररसजन्मभूः । भृङ्गीताण्डवसन्तुष्ठो मङ्गलो मङ्गलप्रदः ॥ ८९॥ मुक्तेन्द्रनीलताटङ्को मुक्ताहारविभूषितः । सक्तसज्जनसद्भावो भुक्तिमुक्तिफलप्रदः ॥ ९०॥ सुरूपः सुन्दरः शुक्लधर्मः सुकृतविग्रहः । जितामरद्रुमः सर्वदेवराडसमेक्षणः ॥ ९१॥ दिवस्पतिसहस्राक्षवीक्षणावळितोषकः । दिव्यनामामृतरसो दिवाकरपतिः प्रभुः ॥ ९२॥ पावकप्राणसन्मित्रं प्रख्यातोर्ध्वज्वलन्महः । प्रकृष्टभानुः पुरुषः पुरोडाशभुगीश्वरः ॥ ९३॥ समवर्ती पितृपतिर्धर्मराट्शमनो यमी । पितृकाननसन्तुष्टो भूतनायकनायकः ॥ ९४॥ नयान्वितः सुरपतिर्नानापुण्यजनाश्रयः । नैरृत्यादि महाराक्षसेन्द्रस्तुतयशोऽम्बुधिः ॥ ९५॥ प्रचेताजीवनपतिर्धृतपाशो दिगीश्वरः । धीरोदारगुणाम्भोधिकौस्तुभो भुवनेश्वरः ॥ ९६॥ सदानुभोगसम्पूर्णसौहार्दः सुमनोज्ज्वलः । सदागतिः साररसः सजगत्प्राणजीवनः ॥ ९७॥ राजराजः किन्नरेशः कैलासस्थो धनप्रदः । यक्षेश्वरसखः कुक्षिनिक्षिप्तानेकविस्मयः ॥ ९८॥ ईशानः सर्वविद्यानामीश्वरो वृषलाञ्छनः । इन्द्रादिदेवविलसन्मौलिरम्यपदाम्बुजः ॥ ९९॥ विश्वकर्माऽऽश्रयो विश्वतोबाहुर्विश्वतोमुखः । विश्वतः प्रमदो विश्वनेत्रो विश्वेश्वरो विभुः ॥ १००॥ सिद्धान्तः सिद्धसङ्कल्पः सिद्धगन्धर्वसेवितः । सिद्धितः शुद्धहृदयः सद्योजाताननश्शिवः ॥ १०१॥ श्रीमयः श्रीकटाक्षाङ्गः श्रिनामा श्रीगणेश्वरः । श्रीदः श्रीवामदेवास्यः श्रीकण्ठः श्रीप्रियङ्करः ॥ १०२॥ घोराघध्वान्तमार्ताण्डो घोरेतरफलप्रदः । घोरघोरमहायन्त्रराजो घोरमुखाम्बुजः ॥ १०३॥ ततः सुषिर सुप्रीत तत्त्वाद्यागमजन्मभूः । तत्त्वमस्यादि वाक्यार्थस्तत्पूर्वमुखमण्डितः ॥ १०४॥ आशापाशविनिर्मुक्तः शेषभूषणभूषितः । दोषाकरलसन्मौलिरीशानमुखनिर्मलः ॥ १०५॥ पञ्चवक्त्रो दशभुजः पञ्चाशद्वर्णनायकः । पञ्चाक्षरयुतः पञ्चः पञ्च पञ्च सुलोचनः ॥ १०६॥ वर्णाश्रमगुरुः सर्ववर्णाधारः प्रियङ्करः । कर्णिकारार्क दुत्तूर पूर्णपूजाफलप्रदः ॥ १०७॥ योगीन्द्रहृदयानन्दो योगी योगविदां वरः । योगध्यानादिसन्तुष्टो रागादिरहितो रमः ॥ १०८॥ भवाम्भोधिप्लवो बन्धमोचको भद्रदायकः । भक्तानुरक्तो भव्यः सद्भक्तिदो भक्तिभावनः ॥ १०९॥ अनादिनिधनोऽभीष्टो भीमकान्तोऽर्जुनो बलः । अनिरुद्धः सत्यवादी सदानन्दाश्रयोऽनघः ॥ ११०॥ आलयः सर्वविद्यानामाधारः सर्वकर्मणाम् । आलोकः सर्वलोकानामाविर्भावो महात्मनाम् ॥ १११॥ इज्यापूर्तेष्टफलदः इच्छाशक्त्यादि संश्रयः । इनः सर्वामराराध्य ईश्वरो जगदीश्वरः ॥ ११२॥ रुण्डपिङ्गलमध्यस्थो रुद्राक्षाञ्चितकन्धरः । रुण्डिताधारभक्त्यादिरीडितः सवनाशनः ॥ ११३॥ उरुविक्रमबाहुल्य उर्व्याधारो धुरन्धरः । उत्तरोत्तरकल्याण उत्तमोत्तमनायकः ॥ ११४॥ ऊरुजानुतडिद्वृन्द ऊर्ध्वरेता मनोहरः । ऊहितानेकविभव ऊहिताम्नायमण्डलः ॥ ११५॥ ऋषीश्वरस्तुतिप्रीतो ऋषिवाक्यप्रतिष्ठितः । ॠगादि निगमाधारो ऋजुकर्मा मनोजवः ॥ ११६॥ रूपादि विषयाधारो रूपातीतो ऋषीश्वरः । रूपलावण्यसम्युक्तो रूपानन्दस्वरूपधृत् ॥ ११७॥ लुलितानेकसङ्ग्रामो लुप्यमानरिपुव्रजः । लुप्तक्रूरान्धको वारो लूकाराञ्चितयन्त्रधृत् ॥ ११८॥ लूकारादि व्याधिहरो लूस्वराञ्चितयन्त्रयुक् । लूशादि गिरिशः पक्षः खलवाचामगोचरः ॥ ११९॥ एष्यमाणो नतजन एकच्चितो दृढव्रतः । एकाक्षरमहाबीज एकरुद्रोऽद्वितीयकः ॥ १२०॥ ऐश्वर्यवर्णनामाङ्ग ऐश्वर्यप्रकरोज्ज्वलः । ऐरावणादि लक्ष्मीश ऐहिकामुष्मिकप्रदः ॥ १२१॥ ओषधीशशिखारत्न ओङ्काराक्षरसम्युतः । ओकः सकलदेवानामोजोराशिरजाद्यजः ॥ १२२॥ औदार्यजीवनपर औचित्यमणिजन्मभूः । उदासीनैकगिरिश उत्सवोत्सवकारणौ ॥ १२३॥ अङ्गीकृतषडङ्गाङ्ग अङ्गहारमहानटः । अङ्गजाङ्गजभस्माङ्गो मङ्गलायतविग्रहः ॥ १२४॥ कः किं त्वदनु देवेशः कः किन्नु वरदप्रदः । कः किन्नु भक्तसन्तापहरः कारुण्यसागरः ॥ १२५॥ स्तोतव्यः स्तोतुमिच्छूनां मन्तव्यः शरणार्थिनाम् । ध्येयो ध्यानैकनिष्ठानां धाम्नः परमपूरकः ॥ १२६॥ भगनेत्रहरः पूतः साधुदूषकभूषणः । भद्रकाळिमनोराजो हंसः सत्कर्मसारथिः ॥ १२७॥ सभ्यः साधुः सभारत्नं सौन्दर्यगिरिशेखरः । सुकुमारः सौख्यकरः सहिष्णुः साध्यसाधनम् ॥ १२८॥ निर्मत्सरो निष्प्रपञ्चो निर्लोभो निर्गुणो नयः । वीताभिमानो निर्जातो निरातङ्को निरञ्जनः ॥ १२९॥ कालत्रयः कलिहरो नेत्रत्रयविराजितः । अग्नित्रयनिभाङ्गश्च भस्मीकृतपुरत्रयः ॥ १३०॥ कृतकार्यो व्रतधरो व्रतनाशः प्रतापवान् । निरस्तदुर्विधिर्निर्गताशो निर्वाणनीरधिः ॥ १३१॥ निधानं सर्वहेतूनां निश्चितार्थेश्वरेश्वरः । अद्वैतशाम्भवमहो सनिर्व्याजोर्ध्वलोचनः ॥ १३२॥ अपूर्वपूर्वः परमः सपूर्वः पूर्वपूर्वदिक् । अतीन्द्रियः सत्यनिधिरखण्डानन्दविग्रहः ॥ १३३॥ आदिदेवः प्रसन्नात्मा आराधकजनेष्टदः । सर्वदेवमयः सर्वः जगद्व्यासः सुलक्षणः ॥ १३४॥ सर्वान्तरात्मा सदृशः सर्वलोकैकपूजितः । पुराणपुरुषः पुण्यः पुण्यश्लोकः सुधामयः ॥ १३५॥ पूर्वापरज्ञः पुरजित् पूर्वदेवामरार्चितः । प्रसन्नदर्शितमुखः पन्नगावळिभूषणः ॥ १३६॥ प्रसिद्धः प्रणताधारः प्रलयोद्भूतकारणम् । ज्योतिर्मयो ज्वलद्दंष्ट्रो ज्योतिर्मालावळीवृतः ॥ १३७॥ जाज्ज्वल्यमानो ज्वलननेत्रो जलधरद्युतिः । कृपाम्भोराशीरम्लानो वाक्यपुष्टोऽपराजितः ॥ १३८॥ क्षपाकरार्ककोटिप्रभाकरः करुणाकरः । एकमूर्तिस्त्रिधामूर्तिर्दिव्यमूर्तिरनाकुलः ॥ १३९॥ अनन्तमूर्तिरक्षोभ्यः कृपामूर्तिः सुकीर्तिधृत् । अकल्पितामरतरुरकामितसुकामधुक् ॥ १४०॥ अचिन्तितमहाचिन्तामणिर्देवशिखामणिः । अतीन्द्रियोऽजितः प्रांशुर्ब्रह्मविष्ण्वादिवन्दितः ॥ १४१॥ हंसो मरीचिर्भीमश्च रत्नसानुशरासनः । सम्भवोऽतीन्द्रियो वैद्यो विश्वरूपी निरञ्जनः ॥ १४२॥ वसुदः सुभुजो नैकमायोऽव्ययः प्रमादनः । अगदो रोगहर्ता च शरासनविशारदः ॥ १४३॥ मायाविश्वादनो व्यापी पिनाककरसम्भवः । मनोवेगो मनोरुपी पूर्णः पुरुषपुङ्गवः ॥ १४४॥ शब्दादिगो गभीरात्मा कोमलाङ्गः प्रजागरः । त्रिकालज्ञो मुनिः साक्षी पापारिः सेवकप्रियः ॥ १४५॥ उत्तमः सात्त्विकः सत्यः सत्यसन्धो निराकुलः । रसो रसज्ञो सारज्ञो लोकसारो रसात्मकः ॥ १४६॥ पूषादन्तभिदव्यग्रो दक्षयज्ञनिषूदनः । देवाग्रणीः शिवध्यानतत्परः परमः शुभः ॥ १४७॥ जयो जयादिः सर्वाघशमनो भवभञ्जनः । अलङ्करिष्णुरचलो रोचिष्णुर्विक्रमोत्तमः ॥ १४८॥ शब्दगः प्रणवो वायुरंशुमाननिलतापहृत् । वायुरंशुमाननल निरीशो निर्विकल्पश्च चिद्रूपो जितसाध्वसः ॥ १४९॥ उत्तारणो दुष्कृतिहा दुर्धर्षो दुस्सहोऽभयः । नक्षत्रमाली नाकेशः स्वाधिष्ठानषडाश्रयः ॥ १५०॥ अकायो भक्तकायस्थः कालज्ञानी महानटः । अंशुः शब्दपतिर्योगी पवनः शिखिसारथिः ॥ १५१॥ वसन्तो माधवो ग्रीष्मः पवनः पावनोऽमलः । वारुर्विशल्यचतुरः शिवचत्वरसंस्थितः ॥ १५२॥ आत्मयोगः समाम्नायतीर्थदेहः शिवालयः । मुण्डो विरूपो विकृतिर्दण्डो दान्तो गुणोत्तमः ॥ १५३॥ देवासुरगुरुर्देवो देवासुरनमस्कृतः । देवासुरमहामन्त्रो देवासुरमहाश्रयः ॥ १५४॥ दिवोऽचिन्त्यो देवताऽऽत्मा ईशोऽनीशो नगाग्रगः । नन्दीश्वरो नन्दिसखो नन्दिस्तुतपराक्रमः ॥ १५५॥ नग्नो नगव्रतधरः प्रलयाकाररूपधृत् । सेश्वरः स्वर्गदः स्वर्गः स्वरः सर्वमयः स्वनः ॥ १५६॥ बीजाध्यक्षो बीजकर्ता धर्मकृद्धर्मवर्धनः । दक्षयज्ञमहाद्वेषी विष्णुकन्धरपातनः ॥ १५७॥ धूर्जटिः खण्डपरशुः सकलो निष्कलोऽसमः । मृडो नटः पूरयिता पुण्यक्रूरो मनोजवः ॥ १५८॥ सद्भूतः सत्कृतः शान्तः कालकूटो महानघः । अर्थानर्थो महाकायो नैककर्मसमञ्जसः ॥ १५९॥ भूशयो भूषणो भूतिर्भूषणो भूतवाहनः । शिखण्डी कवची शूली जटी मुण्डी च कुण्डली ॥ १६०॥ मेखली मुसली खड्गी कङ्कणीकृतवासुकिः ॥ १६१॥ उत्तरभागम् । एतत्सहस्रनामाङ्कं वीरभद्रस्य कीर्तनम् । एकैकाक्षरमाहात्म्यं महापातकनाशनम् ॥ १६२॥ महाव्याधिहरं मृत्युदारिद्र्यतिमिराञ्जनम् । महासंसारजलधिमग्नोत्तारणनाविकः ॥ १६३ धर्मार्थकाममोक्षाणां निजगेहं निरर्गलम् । कर्मभक्तिचिदानन्दं कन्दकारणकन्दकम् ॥ १६४॥ रसं रसायनं दिव्यं नामामृतरसं नरः । श‍ृणुयाद्यः स्मरन्योऽपि सर्वपापैः प्रमुच्यते ॥ १६५॥ अग्निष्टोमस्य यज्ञस्य वाजपेयशतस्य च । कन्यादानसहस्रस्य यत्फलं लभते नरः ॥ १६६॥ तत्फलङ्कोटिगुणितं नामैकस्य सकृज्जपात् । आयुरारोग्यसौभाग्यं पुत्रपौत्रप्रवर्धनम् ॥ १६७॥ ऐहिकामुष्मिकभयच्छेदनं सुखसाधनम् । कुष्ठापस्मारपैशाचचेष्टादिरुजनाशकम् ॥ १६८॥ अश्मरीं वातशीतोष्णं ज्वरं माहेश्वरीज्वरम् । त्रिदोषजं सन्निपातं कुक्षिनेत्रशिरोव्यथाम् ॥ १६९॥ मृत्युदारिद्र्यजन्मादि तीव्रदुःखनिवारणम् । मारणं मोहनं चैव स्तम्भनोच्चाटनं तथा ॥ १७०॥ विद्वेषणं कर्षणं च कुटिलं वैरिचेष्टितम् । विषशस्त्रोरगव्याघ्रभयं चोराग्निशत्रुजम् ॥ १७१॥ भूतवेतालयक्षादि ब्रह्मराक्षसजं भयम् । शाकिन्यादि भयं भैरवोद्भवं बहुद्विट्भयम् ॥ १७२॥ त्यजन्त्येव सकृत् स्तोत्रं यः स्मरेद्भीतमानसः । यः स्मरेत् वीरभद्रेति लभेत् सत्यं श्रियं जयम् ॥ १७३॥ वीरभद्रस्य नाम्नां यत् सहस्रं सर्वसिद्धिदम् । वज्रपञ्जरमित्युक्तं विष्णुना प्रभविष्णुना ॥ १७४॥ करचिन्तामणिनिभं स्वैरकामदगोसमम् । स्वाङ्गणस्थामरतरुसमानमसमोपमम् ॥ १७५॥ एककालं द्विकालं वा त्रिकालं नित्यमेव वा । यः पठेद्वीरभद्रस्य स्तोत्रं मन्त्रमिदं नरः ॥ १७६॥ इह भुक्त्वाखिलान्भोगानन्ते शिवपदं व्रजेत् ॥ १७७॥ इति श्रीमत्पद्मपुराणे उपरिभागे दक्षाध्वरे श्रीमहाशरभ- नृसिंहयुद्धे नरहरिरूपनारायणप्रोक्तं श्रीवीरभद्र- सहस्रनामस्तोत्रं सम्पूर्णम् ॥