अक्षर आकार:

श्रीवीरभद्ररनक्षत्रनामावलिः

Shri Virabhadrara Nakshatra Namavali

श्रीवीरभद्ररनक्षत्रनामावलिः

ॐ श्रीगणेशाय नमः । श्रीवीरभद्ररनक्षत्रनामावलिः (तिरुनेल्वेलि जिलान्तर्गते (तमिल् नाडु) तेर्किळन्दैकुळं श्रीअघोरवीरभद्रस्वामिमन्दिरे नित्यपूजनार्थं प्रयुक्तम् ।) Used in terkiLandai kuLam Shri Aghora Virabhadra Swamy Temple, in Tirunelveli District). ॐ श्री गणेशाय नमः । अथ श्रीवीरभद्ररनक्षत्रनामावलिः । ध्यानम् । ॐ गोक्षीराभं दधानं परशुडमरुकौ खड्गकेटौ कपालं शूलं चाभीतिदाने त्रिनयनलसितं व्याघ्रचर्माम्बराढ्यम् । वेतालाऽरूढमुग्रं कपिशतरजडाबद्धशीतांशुखण्डं ध्यायेद्भोगीन्द्रभूषं निजगणसहितं सन्ततं वीरभद्रम् । ॐ वीरभद्रेश्वराय नमः । ॐ वीरनाथाय नमः । ॐ वीरप्रभावकाय नमः । ३ ॐ उग्राय नमः । ॐ रथवाहनाय नमः । ॐ त्रिनेत्राय नमः । ६ ॐ त्रैलोक्यवासकाय नमः । ॐ देवदेवाय नमः । ॐ देवरक्षिणे नमः । ९ ॐ योगभद्राय नमः । ॐ पार्वतीप्रियपुत्राय नमः । ॐ पङ्कजप्रियाय नमः । १२ ॐ रौद्ररूपाय नमः । ॐ भक्तरक्षकाय नमः । ॐ शरभाय नमः । १५ ॐ शङ्खचक्रधराय नमः । ॐ धनुभृते नमः । ॐ खड्गहस्ताय नमः । १८ ॐ सर्वेश्वराय नमः । ॐ सर्पाभरणाय नमः । ॐ रक्तकेशाय नमः । २१ ॐ यागहन्त्रे नमः । ॐ वीणानाथाय नमः । ॐ सिंहासनाय नमः । २४ ॐ नन्दिगणाय नमः । ॐ नृसिंहसंहाराय नमः । ॐ श्रीवीरभद्राय नमः । २७ ॥ॐ श्रीवीरभद्रस्वामिने नमः ॥ नानाविध परिमलपुष्पाणि समर्पयामि ॥