अक्षर आकार:

श्रीवीरभद्राष्टोत्तरशतनामावलिः

Shri Virabhadra Ashtottara Shata Namavali

श्रीवीरभद्राष्टोत्तरशतनामावलिः

ॐ वीरभद्राय नमः । ॐ महाशूराय नमः । ॐ रौद्राय नमः । ॐ रुद्रावतारकाय नमः । ॐ श्यामाङ्गाय नमः । ॐ उग्रदंष्ट्राय नमः । ॐ भीमनेत्राय नमः । ॐ जितेन्द्रियाय नमः । ॐ ऊर्ध्वकेशाय नमः । ॐ भूतनाथाय नमः । १० ॐ खड्गहस्ताय नमः । ॐ त्रिविक्रमाय नमः । ॐ विश्वव्यापिने नमः । ॐ विश्वनाथाय नमः । ॐ विष्णुचक्रविभञ्जनाय नमः । ॐ भद्रकालीपतये नमः । ॐ भद्राय नमः । ॐ भद्राक्षाभरणान्विताय नमः । ॐ भानुदन्तभिदे नमः । ॐ उग्राय नमः । २० ॐ भगवते नमः । ॐ भावगोचराय नमः । ॐ चण्डमूर्तये नमः । ॐ चतुर्बाहवे नमः ॐ चतुराय नमः । ॐ चन्द्रशेखराय नमः । ॐ सत्यप्रतिज्ञाय नमः । ॐ सर्वात्मने नमः । ॐ सर्वसाक्षिणे नमः । ॐ निरामयाय नमः । ३० ॐ नित्यनिष्ठितपापौघाय नमः । ॐ निर्विकल्पाय नमः । ॐ निरञ्जनाय नमः । ॐ भारतीनासिकच्छादाय नमः । ॐ भवरोगमहाभिषजे नमः । ॐ भक्तैकरक्षकाय नमः । ॐ बलवते नमः । ॐ भस्मोद्धूलितविग्रहाय नमः । ॐ दक्षारये नमः । ॐ धर्ममूर्तये नमः । ४० ॐ दैत्यसङ्घभयङ्कराय नमः । ॐ पात्रहस्ताय नमः । ॐ पावकाक्षाय नमः । ॐ पद्मजाक्षादिवन्दिताय नमः । ॐ मखान्तकाय नमः । ॐ महातेजसे नमः । ॐ महाभयनिवारणाय नमः । ॐ महावीराय नमः ॐ गणाध्यक्षाय नमः । ॐ महाघोरनृसिंहजिते नमः । ५० ॐ निश्वासमारुतोद्धूतकुलपर्वतसञ्चयाय नमः । ॐ दन्तनिष्पेषकाराय ॐ मुखरीकृतदिक्तटाय नमः । ॐ पादसङ्घट्टगोद्भ्रान्तशेषशीर्षसहस्रकाय नमः । ॐ भानुकोटिप्रभाभास्वन्मणिकुण्डलमण्डिताय नमः । ॐ शेषभूषाय नमः । ॐ चर्मवाससे नमः । ॐ चारुहस्तोज्ज्वलत्तनवे नमः । ॐ उपेन्द्रेन्द्रयमादिदेवानामङ्गरक्षकाय नमः । ॐ पट्टसप्रासपरशुगदाद्यायुधशोभिताय नमः । ६० ॐ ब्रह्मादिदेवदुष्प्रेक्ष्यप्रभाशुम्भत्कीरीटधृते नमः । ॐ कूश्माण्डग्रहभेतालमारीगणविभञ्जनाय नमः । ॐ क्रीडाकन्दुकितादण्डभाण्डकोटीविराजिताय नमः । ॐ शरणागतवैकुण्ठब्रह्मेन्द्रामररक्षकाय नमः । ॐ योगीन्द्रहृत्पयोजातमहाभास्करमण्डलाय नमः । ॐ सर्वदेवशिरोरत्नसङ्घृष्टमणिपादुकाय नमः । ॐ ग्रैवेयहारकेयूरकाञ्चीकटकभूषिताय नमः । ॐ वागतीताय नमः । ॐ दक्षहराय नमः । ॐ वह्निजिह्वानिकृन्तनाय नमः । ७० ॐ सहस्रबाहवे नमः । ॐ सर्वज्ञाय नमः । ॐ सच्चिदानन्दविग्रहाय नमः । ॐ भयाह्वयाय नमः । ॐ भक्तलोकाराति तीक्ष्णविलोचनाय नमः । ॐ कारुण्याक्षाय नमः । ॐ गणाध्यक्षाय नमः । ॐ गर्वितासुरदर्पहृते नमः । ॐ सम्पत्कराय नमः । ॐ सदानन्दाय नमः । ८० ॐ सर्वाभीष्टफलप्रदाय नमः । ॐ नूपुरालङ्कृतपदाय नमः । ॐ व्यालयज्ञोपवीतकाय नमः । ॐ भगनेत्रहराय नमः । ॐ दीर्घबाहवे नमः । ॐ बन्धविमोचकाय नमः । ॐ तेजोमयाय नमः । ॐ कवचाय नमः । ॐ भृगुश्मश्रुविलुम्पकाय नमः । ॐ यज्ञपूरुषशीर्षघ्नाय नमः । ९० ॐ यज्ञारण्यदवानलाय नमः । ॐ भक्तैकवत्सलाय नमः । ॐ भगवते नमः । ॐ सुलभाय नमः । ॐ शाश्वताय नमः । ॐ निधये नमः । ॐ सर्वसिद्धिकराय नमः । ॐ दान्ताय नमः । ॐ सकलागमशोभिताय नमः । ॐ भुक्तिमुक्तिप्रदाय नमः । १०० ॐ देवाय नमः । ॐ सर्वव्याधिनिवारकाय नमः । ॐ अकालमृत्युसंहर्त्रे नमः । ॐ कालमृत्युभयङ्कराय नमः । ॐ ग्रहाकर्षणनिर्बन्धमारणोच्चाटनप्रियाय नमः । ॐ परतन्त्रविनिर्बन्धाय नमः । ॐ परमात्मने नमः । ॐ परात्पराय नमः । ॐ स्वमन्त्रयन्त्रतन्त्राघपरिपालनतत्पराय नमः । १०९ श्री वीरभद्राय नमः । इति श्रीवायुपुराणे हयग्रीवावतारविरचिता श्रीवीरभद्राष्टोत्तरशतनामावलिः समापता ।