अक्षर आकार:

श्रीविश्वमङ्गलं श्रीवामदेवकवचम्

Shri Vamadeva Kavacham

श्रीविश्वमङ्गलं श्रीवामदेवकवचम्

ॐ श्रीगणेशाय नमः । ॐ श्रीदेव्यै सदासुफलदायिन्यै नमः । श्रीभैरव उवाच - अथ वक्ष्यामि देवेशि कवचं मन्त्रगर्भकम् । मूलमन्त्रस्वरूपं च विश्वमङ्गलकाभिधम् ॥ १॥ सर्वसम्पत्प्रदं चैव वामदेवस्य पार्वति । गुह्यातिगुह्यं परमं मूलविद्यामयं ध्रुवम् ॥ २॥ परमार्थप्रदं नित्यं भोगमोक्षैककारणम् । महाभयहरं देवि महैश्वर्यप्रदं शिवे ॥ ३॥ कवचस्यास्य देवेशि ऋषिर्भैरव ईरितः । अनुष्टुप्छन्द इत्युक्तं वामदेवश्च देवता ॥ ४॥ इन्द्रो बीजं पराशक्तिः तारं कीलकमीरितम् । धर्मार्थकाममोक्षार्थविनियोग इतीरितः ॥ ५॥ अस्य श्रीवामदेवकवचस्य भैरवऋषिः, अनुष्टुप्छन्दः, श्रीवामदेवोदेवता । इन्द्रो बीजं, पराशक्तिः, तारं कीलकृम्म् । धर्मार्थकाममोक्षार्थे कवचपाठे विनियोगः । भैरवऋषये नमः - शिरसि । अनुष्टुप्छन्दसे नमः - मुखे । श्रीवामदेवदेवतायै नमः - हॄदि । इन्द्रो बीजाय नमो - गुह्ये । पराशक्तये नमः - पादयोः । तारं कीलकाय नमः - नाभौ । कवचपाठे विनियोगः - सर्वाङ्गे । अथ ध्यानम् । वरक्षमालाऽभयढक्कहस्तः सरोजकिञ्जल्कसमानवर्णः । त्रिलोचनश्चारुचतुर्मुखो मां पयादुदीच्यां दिशि वामदेवः ॥ ॐ वां शिरः पातु मे देवो ललाटं ह्रीं सदा मम । वामदेवः प्रदेशं मे बीजद्वयस्वरूपिणम् ॥ १॥ हुं पातु लोचनद्वन्द्वं मुखं ह्रीं बीजरूपिणम् । ह्रीङ्कारो कण्ठदेलं ह्रीं पातु स्कन्धयोर्मम ॥ २॥ वामदेवो सदा पातु भुजौ सव्येतरौ मम । ह्रीङ्कारो हृदयं पातु ह्रीं सोऽव्यादुदरं मम ॥ ३॥ ह्रीं नाभौ पातु सततं देवो ह्रिङ्काररूपकः । अव्यान्मे लिङ्गदेशं च ह्रिं रक्षेद्गुददेशके ॥ ४॥ चन्द्रबीजं पातु पादौ नमः पादतलं मम । दशाक्षरः पातु नित्यं सर्वाङ्गं मम सर्वदा ॥ ५॥ अन्तर्बहिश्च मां पातु वामदेवश्च भैरवः । भगलिङ्गामृतप्रीतो सर्वसन्धिषु रक्षतु ॥ ६॥ शङ्करो मां सदा पातु ममेन्द्रियसमानकम् । शिवो ममेन्द्रियार्थेषु रक्षयेदखिलेष्वपि ॥ ७॥ वामदेवःपश्चिमेऽव्यादक्षिणे देवदत्तकः । भगलिङ्गामृतप्रीतो भगलिङ्गस्वरूपकः ॥ ८॥ उदीच्यामूर्ध्वगः पातु पूर्वे संहारभैरवः । दिगम्बरः श्मशानस्थः पातु दिक्षु विदिक्षु च ॥ ९॥ घोररावाट्टाट्टहासो मे शिवो त्वं सुशोभितः । पातु विघ्नेषु घोरेषु जगद्रुधिरभक्षकः ॥ १०॥ करालवदनो घोरः प्रेतकोलाहलप्रियः । मुक्तकेशः सुकेशश्च मदिरोन्मत्तभैरवः ॥ ११॥ देवदत्तो महोग्रश्च सदाश्मशानगः परः । शिरसः पादपर्यन्तं देवदत्तोऽवतात्सदा ॥ १२॥ इतीदं कवचं दिव्यं साधकानां सुदुर्लभम् । मन्त्रसिद्धिकरं साक्षान्महादेवस्य भाषितम् ॥ १३॥ इदं कवचमज्ञात्वा योजयेद्वामदेवकः । शतलक्षप्रजप्तोऽपि तस्य देवो न सिद्ध्यते ॥ १४॥ स शस्त्रघातमाप्नोति सोऽचिरन्मृतुमाप्नुयात् । मन्त्रेण म्रियते योगी रक्षयेत् कवचं परम् ॥ १५॥ त्रिसन्ध्यं पठनादस्य कवचस्य तु पार्वति । सिद्धयोऽष्टौ करे तस्य महेश इव चापरः ॥ १६॥ रूपेण स्मरतुल्योऽसौ कामिनीनां प्रियो भवेत् । तस्मादेतत्सुकवचं न देयं यस्यकस्यचित् । भक्तियुक्ताय शान्ताय दानशीलाय धीमते ॥ १७॥ यो ददाति सुशिष्येभ्यस्तस्य वश्यं जगद्भवेत् । गुह्याद्गुह्यतरं गुह्यं महारुद्रेण भाषितम् ॥ १८॥ यस्य कण्ठगतं तस्य करस्थाः सर्वसिद्धयः । श्रीविश्वमङ्गलं नाम कवचं न प्रकाशयेत् । रहस्यातिरहस्यं च गोपनीयं स्वयोनिवत् ॥ १९॥ इति श्रीरुद्रयामलेतन्त्रे श्रीविश्वमङ्गलं नाम वामदेवकवचं सम्पूर्णम् ॥