अक्षर आकार:

श्रीत्यागराजमुचुकुन्दसहस्रनामावलिः

Shri Tyagaraja Muchukunda Sahasranamavali

श्रीत्यागराजमुचुकुन्दसहस्रनामावलिः

ॐ श्रीगणेशाय नमः । ॐ श्रीमत्त्यागमहाराजाय नमः । श्रीमत्सिंहासनेश्वराय । श्रीराजराजाय । श्रीनाथहृदयाम्बुजमध्यगाय । श्रिया सहनिवासाय । श्रीनाथपरिपूजिताय । श्रीपुरैकनिवासिने । श्रीहंसनटनेश्वराय । श्रीविद्यात्मकरूपाय । श्रीपीठान्तर्निवासिने । श्रीविद्याच्छादित हृदयाय । आच्छाद्य श्रीविद्याहंससम्पुटाय । श्रीविद्यापरिधानाख्याय । श्रीपूजितपदाम्बुजाय । श्रीमत्त्यागविनोदाख्यवासनैकबहुप्रियाय । श्रीशिवाय । श्रीशिवतराय । श्रीशिवायाः प्रियङ्कराय । श्रीविद्यायास्त्रिखण्डात्मसोमास्कन्दस्वरूपवते । श्रीमूलाधारनिलयाय नमः । २० ॐ श्रीभारतीशिवाप्रियाय नमः । सच्चिदानन्दरूपाय । श्रीविद्यामोघवैभवाय । सदाशिवमहाकारसर्वागमविवेचिताय । सत्पूज्याय । सकलाय । सर्वातीतस्वरूपिणे । सर्वभूतान्तरात्मने । सर्वभूतलयङ्कर्त्रे । सर्वसान्निध्यकारकाय । सर्वमन्त्रमयाकृतये । सर्वमन्त्रेश्वराय । सर्वयन्त्रेश्वराधिपाय । महाकल्पमहाघोरमहाताण्डवनायकाय । अजपाताण्डवप्रियाय । हंसताण्डवसुप्रीताय । हादिविद्यास्वरूपिणे । अम्बिकागुहसंयुताय । अरिष्टमथनाय । सर्वारिष्टविनाशनाय नमः । ४० ॐ सर्वभूतस्वरूपिणे नमः । सर्वभूताधिपेश्वराय । सर्वसङ्क्षोभहारिणे । सदाराध्याय । समाकृतिने । समाकृतये सर्वशक्तिमयाय । सर्वसमानाधिकवर्जिताय । सर्वमङ्गलरूपाय । नमतां सद्गतिप्रदाय । मूलमन्त्रस्वरूपिणे । मुलविद्याजपप्रियाय । मूलश‍ृङ्गाटनिलयाय । मुक्तिमार्गप्रकाशकाय । रथप्रियाय । भूमिरथाय । चन्द्रभास्वच्चक्ररथाय । var चन्द्रभास्करचक्ररथाय क्षोणीरथवरासीनाय । वरासनाय महारथवरस्थिताय । चतुःषष्टिकलास्तम्भरथारूढमहारथाय । शतारचक्रसंयुक्तरथारोहणशोभनाय नमः । ६० ॐ त्रितत्त्वरथसंस्थायिने नमः । शिवतत्त्वविमानगाय । श्रीगणाधीश्वरस्कन्दद्वारपद्रथभासुराय । var गणाधीश्वरसंयुक्त सरस्कन्द द्वारोद्यद्रथ भासुराय अश्वायितचतुर्वेदाय । रथावनिपरायणाय । शरायितरमाकान्ताय । सारथीभूतविश्वसृजे । चापायितमहामेरवे । तूणीकृतमहार्णवाय । गुणीकृतफणीशानाय । शास्त्ररज्जुसमाकृताय । मार्ताण्डप्रतिमद्युतये । सोमसुन्दरविग्रहाय । मेरुतुल्यत्रिचक्रात्मरथेन त्रिदिवागताय । सौधसान्निध्यसम्पूर्णवीथीसञ्चारसुन्दराय । महाफणिमहारज्जुसमाकृष्टमहारथाय । मन्दस्मितमुखाम्भोजस्मितदग्धपुरासुराय । ललाटनयनज्वालाजालदग्धाङ्गमन्मथाय । पादप्रहारसङ्क्षुब्धवक्षःस्थलकृतान्तकाय । पादाग्रकल्पितात्युग्रचक्रच्छिन्नजलन्धराय नमः । ८० ॐ पादान्तर्दर्शनार्थाय गजसंहारकर्मकृते नमः । दक्षयज्ञसमुत्पन्नशिवनिन्दानिवारकाय । विधिगर्वशिरोहारिकपालमालया युताय । अन्धकासुरविच्छेदजगद्ध्वान्तनिवारकाय । दशास्यभुजदर्पघ्नपादाङ्गुष्ठबलोज्ज्वलाय । कुण्डलिन्यधिदेवाय । कुलकुण्डालयस्थिताय । आधारकुण्डलिन्यस्तदक्षपादसरोरुहाय । पराशक्तिपराधीशपराख्याकुण्डलीश्वराय । कुटिलारूपकुण्डल्यारोपितस्वपदाम्बुजाय । श्रीमत्सहस्रपत्राख्यकुलकुण्डालयस्थिताय । कटकीकृतभोगीन्द्रकुण्डलीकृतपन्नगाय । पिङ्गलेडारज्जुबद्धकुण्डलीवृषभध्वजाय । कुण्डल्युपरिविन्यस्तकिङ्किणीपदशोभिताय । शब्दोपादानसर्वात्मशक्तिकुण्डलिभूषणाय । चलन्नूपुरपादाब्जाय । अज्ञानतिमिरारुणाय । पादपङ्कजविन्यस्तपञ्चशीर्षफणीश्वराय । प्राणायामपरप्राणाय । प्राज्ञाप्राणप्रकाशकाय नमः । १०० ॐ सुषुम्नान्तरवासिने नमः । शिष्टेष्टसिद्धिदायकाय । var शिष्टदायकाय शरभाश्लिष्टदेहाय । शरभाय । साल्वपक्षिराजे । नृसिंहगर्वसर्वस्वनिर्वापणधुरन्धराय । प्रलयानलसज्वालहालाहलविषाशनाय । सपिङ्गलसुशोभाभसूक्ष्माय । अवसूक्ष्मणाय स्थूलगोपुराय । चतुर्वेदमयस्तम्भरङ्गमध्यस्थलस्थिताय । सहस्रदलपद्मस्थसुधासाराभिवर्षणाय । चतुर्योगयुगद्वारसदानन्दरसस्थिताय । चतुःषष्टिकला शोभिनिजालययुताय । षष्टिजाल कलाषोडशकस्तम्भसहस्रस्थानमध्यगाय । सहस्रपादमाणिक्यमण्डपस्थाननायकाय । देवाश्रयमहारत्नमण्डपासीनदैवताय । पताकापटलै राजदग्रमण्डपशोभिताय । ताराकारसमाकारस्तूपीपञ्चकमध्यगाय । अष्टादशपुराणार्थवाङ्मनान्युतमन्दिराय । अष्टाविंशतिमन्त्रात्मफलकाकीलितासनाय नमः । १२० ॐ रत्नस्तम्भसहस्राढ्यकलासम्पूर्णमन्दिराय नमः । कलापञ्चकसंसिद्धभित्ति युक्तसभान्तराय । संसिद्धभक्ति वीथीविटङ्करूपाय । स्वयम्भूतस्वरूपवते । विटङ्गविष्णुहृदयनिवासोत्सुकमानसाय । विटङ्कवीथीसम्भूतश्वासनिःश्वासरूपवते । विटङ्कवीथीसम्भूतव्यष्टिद्वारविनिर्गताय । विटङ्कविविधाकारवीथीसञ्चारमञ्जुलाय । विधिविष्णुविराड्विश्ववीथीविटङ्करूपवते । विटङ्कावयवाय । वीरखड्गद्वयान्विताय । अज्ञानतिमिरत्यागविज्ञानमयवेदनाय । कारणेशपरित्यागनित्यानन्दनिजासनाय । सर्वोपाधिपरित्यागसर्वत्यागरमान्विताय । त्यागवैभवसंयुक्तत्यागध्वजविराजिताय । विद्वज्जनधनत्यागिने । त्यागित्यागपरायणाय । सर्वबन्धपरित्यागिसर्वसंशुद्धिकारकाय । ब्रह्मादिकारणत्यागराजराजशिखामणये । कलिदोषपरित्यागकल्मषादिविवर्जिताय नमः । १४० ॐ अध्वषट्कपरित्यागराजमानपदाम्बुजाय नमः । षडाघारपरित्यागपरमानन्दविग्रहाय । दुष्टदूरपरित्यागशिष्टमार्गप्रवर्तकाय । अशेषदुरितत्यागप्रभामण्डलमध्यगाय । प्रभामण्डलसत्यागराजमानमहेश्वराय । प्रपञ्चकालसत्यागराजमानतटित्प्रभाय । प्रमाणरीतिसत्यागप्रमाणैकशिरोमणये । कारणेशपरित्यागकल्पितात्ममहाकृतये । कलाषोडशसत्यागनादान्तलिखिताकृतये । पञ्चमन्त्रषडङ्गादिपरित्यागपदाम्बुजाय । मेधादिगोन्मनान्तादिपरित्यागविराजिताय । अशेषसारत्यागिने । अमृताम्भोधिमध्यगाय । परात्परतराय । परापरविवर्जिताय । सायाह्नज्वलनोद्भूतनीराजनविराजिताय । पुरत्रयजयोद्भूतनीराजनविराजिताय । इन्द्राणीहस्तविन्यस्तनीराजनविराजिताय । त्रितत्त्ववृत्तिनीराज्यनीराजनविराजिताय । कालभज्जनविश्रान्तिनीराजनविधिप्रियाय नमः । १६० ॐ कालभञ्जनकालाग्निज्वालानीराजनप्रियाय नमः । कालभज्जनविश्रान्तिगौरीनीराजनप्रियाय । महाप्रलयकालान्तगौरीनीराजनप्रियाय । रमावाणीशचीमुख्यनीराजनबहुप्रियाय । त्रितत्ववृत्तिनीराज्यनीराजनसुरक्षिताय । उपसंहारसायाह्ननीराजनसुरक्षिताय । सायाह्नज्वलनोद्भूतक्षारक्षितविष्टपाय । संसारार्णवसम्मग्नसमुद्धरणपण्डिताय । देवलोकागताभौमपारिजातसुमार्चिताय । जवन्तीकुसुमाबद्धकृष्णागरुसुकर्णिकाय । मल्लिकामालतीजातीमृदुलाङ्गमनोहराय । रम्भापुष्पाञ्चलिप्रीताय । पञ्चाष्टकुसुमार्चिताय । कह्लारकुसुमप्रीताय । जवन्तीकुसुमोज्ज्वलाय । परशम्भूहृदुद्भूतजवन्तीकुसुमप्रियाय । पञ्चभूतात्मकोत्फुल्लमल्लिकादाममण्डिताय । जवन्तीमल्लिकाजातीकह्लारस्रङ्मनोहराय । चम्पकाशोकपुन्नागसौगन्धिकसुगन्धिताय । देववापीसमुद्भूतकह्लारकुसुमप्रियाय नमः । १८० ॐ देवलोकागताभौमपुष्पमण्डपमण्डिताय नमः । सदाशिवमुखोद्भूतसौगन्धिकुसुमप्रियाय । मन्दारतरुसन्तानमहाराधनतत्पराय । गङ्गालङ्कृतमूर्ध्ने । ज्ञानचन्द्रकलाधराय । पूर्वाङ्गरम्यदेहाय । अपराङ्गमनोहराय । अत्यन्तसुन्दरतररसापाङ्गविरजिताय । अतिसुन्दरसर्वाङ्गाय । अम्बिकास्कन्दसुन्दराय । अशेषदुरितध्वंसिने । विशेषसुखदायकाय । अरिष्टमथनाय । सर्वारिष्टविनाशनाय । परित्यक्तदुराचाराय । शिष्टमार्गप्रकाशकाय । दुःखसागरनिर्मग्नसमुद्धरणपण्डिताय । अनन्तकालसत्यात्मने । स्थिरविद्युत्समप्रभाय । प्रमाणवेद्यरूपाय नमः । २०० ॐ त्यागविद्याविनोदाय नमः । कवितारसिकाय । कवये । स्वहृदावेद्यचिद्घनाय । तेजोगर्भितमार्ताण्डचिदानन्दनिजार्चिताय । निष्कलाकारसदनसकलीकृतविग्रहाय । दिव्यचक्रगणाधीशाय । बीजचक्रपितामहाय । बिन्दुचक्रस्थविष्णवे । नादचक्रमहेश्वराय । शक्तिचक्रस्थजीवात्मने । शान्तिचक्रपरात्मकाय । शान्त्यतीतेन्दुबिम्बस्थगुरवे । परमचिन्मयाय । निष्कम्पाय । अचलमूर्तये । श्वासनिःश्वासकम्पिताय । अन्तर्यामिने । जगद्धात्रे । कर्त्रे । कारयित्रे नमः । २२० ॐ वामरूपजगाद्धात्रे नमः । ज्येष्ठरूपजनार्दनाय । रौद्ररूपहराकाराय । महाबिन्द्वासनस्थिताय । अम्बिकारूपविलसच्छान्त्या समरसगताय । तुर्यातीतसमागम्यस्वानुभूतिप्रमाणगाय । आत्मतत्त्वाधिपब्रह्मणे । विद्यातत्त्वाधिपहरये । शिवतत्त्वाधिपरुद्राय । सर्वतत्त्वाधिपशिवाय । सर्वार्थसवशब्दात्मसर्वशब्दैककारणाय । सर्वभूतानुकम्पिने । सर्वापाशविमोचकाय । सर्वयोनिक्षोभकाय । सर्वबीजस्वरूपवते । सर्वभूतदयालवे । सर्वभूताभयप्रदाय । महाप्रकाशदिव्यात्मने । महानन्दमहानटाय । महामन्त्राय नमः । २४० ॐ महायन्त्राय नमः । महावाच्याय । महावपुषे । महामन्त्रस्वरूपाय । महासौन्दर्यवारिधये । महाभैरवबेषाय । महाविज्ञानविग्रहाय । महाबलसमायुक्ताय । महामातङ्गमर्दनाय । हरिमोहनभिक्षाटसम्भवस्वात्मकैङ्कराय । note अत्र मोहिन्यवतारभृतो विष्णोः भिक्षाटावसरभृतश्च शिवस्य पुत्रभूतस्य हरिहरपुत्रस्य द्राविड्यां ``अय्यनार्'' इति ख्यातस्य निर्देशः । सुवर्णवर्णरुचिराय । सुन्दराय । सुन्दरप्रियाय । सुन्दरेशस्य वैवाह्यस्थगय्यशासनीकृताय । note अत्र ``तडुत्तु आट्कोण्डार्'' stopped and accepted इति द्राविडयुक्तेरनुवादः कृतः । सुन्दरप्रोक्तपद्यौघश्रवणोत्सुकमानसाय । सुन्दरप्रार्थनानाक्लृप्तदौत्यकर्मविहारवते । देवाश्रयसमायातभक्तपद्याद्यवाक्प्रदाय । भक्तसुन्दरसङ्गीतद्राविडस्तोत्रतोषिताय । वृद्धिक्षयविहीनेन्दुसुन्दरप्रियदर्शनाय । परवासुन्दरद्वन्द्वसन्धानक्षमपेशलाय नमः । २६० ॐ परवागीतसन्तुष्टाय नमः । परवादौत्यकोविदाय । कृतवातपुरेशज्ञानदीक्षोपदेशाय । ज्ञानसम्बन्धपद्यौघश्रवणोत्सुकमानसाय । माणिक्यवाचकप्रोक्तश्रीवाचकबहुप्रियाय । एकविंशतिसङ्ख्यातपद्यद्राविडतोषिताय । वीरमुण्डमहाभक्तसंवदाद्भित्तिलीनकाय । प्रतिज्ञाभेदसङ्क्लृप्तस्वागमात्पदखण्डिताय । स्वभक्तवीरमुण्डस्य पाददर्शनमोक्षदाय । भक्तानां चित्तशुद्धयर्थं देवतीर्थजलाप्लुताय । वृद्धरूपौ समालोक्य सुन्दरस्नानतोत्थिताय । note प्रसिद्धां कामपि त्यागेशसुन्दरमूर्तिकथां परमृशति । बिन्दुनादकलाक्लृप्तसाङ्गोपाङ्गमनोहराय । चिद्गन्धदिव्यप्रसवमालावृतभुजान्तराय । महानुभावाय । महिताय । महातेजसे । महायशसे । महाबुद्धये । महासिद्धये । महामायापरिच्छदाय नमः । २८० ॐ नानासिद्धान्तकर्त्रे नमः नमः । नानागमविधायकाय । नानागममहामोहव्यपनोदनपण्डिताय । दिव्यवेषाय । दिव्यतनवे । देवसिद्धौघवन्दिताय । भक्तहृत्पद्ममार्ताण्डाय । भक्तेन्दीवरचन्द्रमसे । उमास्कन्दमुखालोकिने । उमास्कन्दातिवत्सलाय । उमास्कन्दोल्लसत्पार्श्वाय । स्कन्दोमाप्रेमवर्धनाय । स्कन्दोमानयनानन्दविधानैकधुरन्धराय । स्कन्दोमावन्दिताय । देवाय । स्कन्दोमानन्दविग्रहाय । मुकुन्दमुचुकुन्देन्द्रविधिमुख्यैः समागताय । श्रीविद्यार्णाम्बरच्छन्नदिव्यावयवकान्तिमते । भक्तकल्पद्रुमसमाय । भक्तसर्वार्थसाधकाय नमः । ३०० ॐ राहुग्रस्तात्मबालार्कमण्डलाकृतिभासुराय नमः । मन्दस्मितमुखाय । मन्दवातवातायनोत्सुकाय । दक्षवातायनायातनारीगीतश्रवणकौतुकाय । पञ्चाशद्वर्णज्योतिःप्रभामण्डलमध्यगाय । शुद्धपञ्चाक्षरज्योतिःसंस्थितानन्दविग्रहाय । प्रभाराशिमध्यगताय । ज्योतिषां ज्योतिषे । अव्ययाय । अखण्डानन्दचिन्मूर्तये । अपारकरुणानिधये । वरप्रासादचक्रस्थकलाकल्पितविग्रहाय । सप्तकोटिमहामन्त्रजनकाय । मन्त्ररूपवते । व्योमव्यापिमहामन्त्रवर्णितानेकशक्तिकाय । परापरमहामन्त्रनायकस्तुतवैभवाय । मन्त्राभिमानिमन्त्रज्ञाय । मन्त्रप्रकृत्यूर्जिताय । मन्त्राधिष्ठानरूपाय । मन्त्रमन्त्रेश्वराय । अथर्वणमहामन्त्रप्रोक्तमङ्गलविग्रहाय नमः । ३२० ॐ हंसमन्त्रषडङ्गाभहंसव्यत्यासनर्तनाय नमः । ब्रह्माङ्गमन्त्रसम्पन्नगुप्तलास्यैकतत्पराय । सप्तकोटिमहामन्त्रनिषेवितपदाम्बुजाय । देवतागणपस्तुत्यध्वनिमन्त्रविशारदाय । मायामन्त्रमहामूलविद्यासम्भूततत्पराय । निगमागममन्त्रादिनिर्मितात्मस्वरूपवते । निरिन्धनमहासंविदग्नित्रिभुवनोज्ज्वलाय । यज्ञाय । यजमानाय । हविषे । होत्रे । यज्ञभृते । मृकण्डुसूनुरक्षार्थव्यसूकृतकृतान्तकाय । जनितात्मभुवश्रीमते । गोरूपिणे । गोसवप्रियाय । वत्सीकृतकृतान्तस्य रथचक्रमृतीकृताय । अनपायमहीपालभक्तिप्रकटनोद्यताय । अनपायपुरेशानाय । निरपायबलान्विताय नमः । ३४० ॐ महात्मने नमः । महैश्वर्याय । महाबलपराक्रमाय । मुमुक्षुभिर्ज्ञेयरूपाय । अज्ञानामतिदुर्लभाय । श्रीमते आदिभिक्षवे । var आदिभिक्षेश्वराय ईश्वराय । अनीश्वराय । वाच्यवाचकरूपाय । अवाच्याय । वाञ्छितार्थदाय । नवग्रहमयज्योतिषे । संसारभ्रमकारकाय । संसारभ्रमविच्छित्तिकारणज्ञानदायकाय । परब्रह्मस्वरूपिणे । पराशक्तिपरिग्रहाय । पाटलीमूलनिलयाय । श्रुङ्गारवनमध्यगाय । दूर्वासोमुचुकुन्दादिनिर्मितालयसंस्थिताय । दूर्वासोमुनिना क्लृप्तस्वागमार्चनपूजिताय । दूर्वासोमुनिना क्लृप्तस्वतन्त्रविषयाद्भुताय । देवेन्द्रपूजिताय नमः । ३६० ॐ दिव्यदेवसङ्घप्रपूजिताय नमः । पुलोमजार्चितपुण्याय । पुरुहूतबहुप्रियाय । अप्सरोहस्तविन्यस्तचामरस्तोमवीजिताय । अशेषदेवताकॢप्तपुष्पवर्षौघवर्षिताय । ऐरावतसमानीतदेवसिन्धुजलाप्लुताय । जिह्वानाथेरितानेकगानप्रियदयानिधये । देवभाषाविशेषज्ञाय । देवगानप्रियाय । विभवे । मुचुकुन्दार्चिताय । मुख्याय । मुचुकुन्दवरप्रदाय । मुचुकुन्दस्वप्नवेलादर्शितस्वात्मविग्रहाय । मुचुकुन्द सप्तभेददर्शितस्वात्मरूपिणे । नववीरसमुपेत मुचुकुन्दसुवन्दिताय । नववीरसमानीत षडङ्गहंसनटनसमूलास्थितविग्रहाय । सामऋग्यजुराथर्ववेदवेदितविग्रहाय । कुङ्कुमाङ्कितपादाब्जाय । कर्पूरालेपिताङ्गकाय नमः । ३८० ॐ कृष्णागरुकृतामोदनासायुगलमण्डिताय नमः नमः । कृष्णगन्धप्रियाय । कुष्णगन्धगन्धितकर्णिकाय । प्रलयकालप्रवीणप्रगल्भानन्दताण्डवाय । प्रणवध्वनिगम्भीरमृगासक्तकराम्बुजाय । प्रलयानलधिक्कारप्रवीणपरशुभृते । वरप्रदाननिपुणवामपाणिसरोरुहाय । चिन्मुद्राञ्चितदक्षपाणये । चित्प्रदाय । चित्प्रबोधकाय । मोक्षविज्ञापनोद्भासिलम्बमानपदाम्बुजाय । वीरासनान्यपादाब्जकृतकिल्बिषसंहृतये । आनन्दनृत्तव्यापारस्कन्दगौरीसमन्विताय । शङ्खकाहलसंयुक्ततालमद्दलनर्तकाय । वीणावेणुमृदङ्गादिवाद्यश्रवणलोलुपाय । प्रणवान्तर्गतज्योतिषे । काहलप्रणवध्वनये । तालमद्दलवाद्यौघध्वनिसाम्याजपानटनाय । विरिञ्चिविष्णुसन्ताड्यतालमद्दलजध्वनये । काहलीमङ्गलारावसम्पूरितदिगन्तराय नमः । ४०० ॐ कौसुम्भवसनप्रीताय नमः । दुकूलवसनान्विताय । अनेकपुष्पविलसच्चीनाम्बरसमावृताय । विचित्ररेखासंयुक्तवसनाय । व्याघ्रचर्मभृते । सप्तसागरवेलाढ्यस्वात्मवस्त्रपरिच्छदाप । स्वच्छवस्त्रपरीधानसर्वाभरणभूषिताय । वर्णन्यग्रोधमूलस्थदक्षिणामूर्तिसंज्ञिताय । शिवज्ञानामृतनिधये । मुनिवृन्दनिषेविताय । विश्वन्यग्रोधमूलस्थविश्वव्यापारशक्तिमते । अन्तर्यजनसुप्रीताय । ध्यानैकनिरतोत्सुकाय । मातृकावर्णपीठस्थाय । मातृकावर्णविग्रहाय । महापद्मोन्मनारूपकर्णिकाबिन्दुमध्यगाय । मूलादिद्वादशान्तस्थमन्त्रसिंहासनस्थिताय । गोसृष्टिस्थितिसंहारस्वापकालप्रवर्तकाय । विद्यारूपप्रकाशात्मने । जन्ममृत्युजरापहाय नमः । ४२० ॐ कालातीताय नमः । कालहन्त्रे । देहाहङ्कारकर्त्त्रे । मृत्युहन्त्रे । मृत्युवाहाय । मृत्युञ्जयमयाकृतये । स्कन्दोमामुखसौन्दर्यालोकनोत्सुकलोचनाय । सर्वज्वालाप्रभासीनाय । अतिनिर्मलदेहाय । सामगानानुरञ्जिताय । सोमसूर्याग्निरूपवते । कार्यकारणरूपवते । सोमसूर्याग्निलोचनाय । विश्वनेत्राय । विश्वगर्भाय । विश्वेशाय । विश्वविग्रहाय । षट्छक्तिव्यक्तमूर्तये । षडङ्गावरणोज्ज्वलाय । वेदवेदाङ्गकर्त्रे । त्रयीयुवतिसुन्दराय । शब्दब्रह्मात्मरूपाय । शब्दब्रह्मैकनूपुराय । सर्वाधारादिरूपाय । सर्वशब्दैककारणाय नमः । ४४० ॐ लिङ्गत्रयात्मकाय नमः । महालिङ्गमहातनवे । समांशकमहालिङ्गाय । स्वात्मलिङ्गसमुद्भवाय । आढ्यलिङ्गाकृतये । सुरलिङ्गाकृतये । स्वयम्भूबाणलिङ्गात्मने । परलिङ्गपरात्पराय । अग्निष्टोमात्मलिङ्गाय । मातृकालिङ्गाय । स्थूललिङ्गमहामेरवे । सूक्ष्मकैलासलिङ्गकृते । पञ्चलिङ्गमयस्वात्मने । पञ्चलिङ्गमयाकृतये । सर्वलिङ्गमयाकाराय । सहस्रलिङ्गस्वरूपिणे । विश्वाकारमहामेरोः स्वात्मलिङ्गमयोद्भवाय । श्यामरत्नसितज्योतिर्ज्योतिर्लिङ्गमहातनवे । पातालबुद्बुदाकारतेजोलिङ्गमहाकृतये । विद्याराज्ञीसप्तकोशाय नमः । ४६० ॐ विद्याराज्ञीसमर्चिताय नमः । घोराय । शान्तमहाविष्णवे । सर्वतोऽनन्तवक्त्रकाय । सर्वतोऽनन्तपादाय । सर्वतोऽनन्तहस्ताय । असङ्ख्यभुजपादाय । असङ्ख्यातगुणनिधये । क्रमाक्रमसमुत्पत्तिरक्षासंहारकारकाय । सर्वदा सुप्रदर्शिने । मानतर्काद्यगोचराय । असङ्ख्यदलसंराजत्कमलालयमध्यगाय । घृतायितजलोद्भूतदीपदीप्तदिनान्तराय । चमत्कारपुराधीशाय । चमत्कारनृपाधिपाय । चमत्कारमहीपालभक्त्युद्भूताचलेश्वराय । दीपच्छायाप्रत्ययकृते । हाटकक्षेत्रनायकाय । अन्तर्गतेश्वराय । अन्तर्मुखमनोहराय नमः । ४८० ॐ वम्रिरूपेन्द्रसञ्छिन्नसज्याविष्णुशिरोधृताय नमः । महालक्ष्मीवराल्लभ्यस्वमाङ्गल्यपतीसुताय । पुत्रार्थिविष्णुसङ्कॢप्तसिद्धिसम्पत्तिसाधकाय । श्रीविष्णुतपसा प्राप्तस्वात्मवल्मीकसम्भवाय । विराड्विष्णुसमुत्पन्नविटङ्कात्मस्वरूपवते । विराड्विष्णुसमुत्पन्नविष्णुहृत्पद्मवासभुवे । क्षीरसागरवैकुण्ठश्रीविष्णुस्वात्मपूजिताय । सहस्रपद्मैकशून्यहरिनेत्रसमर्चिन्ताय । महासुरजयोद्युक्तविष्णुचक्रप्रदायकाय । हरिलक्ष्मीविधिवाणीगौरीशचीन्द्रपूजिताय । पादाब्जपालिताजस्रमुसलासुरशिक्षकाय । कबन्धकबलप्राप्तकपर्दाङ्कितमस्तकाय । कुरुक्षेत्रमहायज्ञकोपोद्धृतस्वकार्मुकाय । अध्यात्मदृष्टिसन्दृश्याय । अध्यात्मज्ञानिवत्सलाय । चमत्कारकलाकर्त्रे । चमत्कारवचःपटवे । षट्छताधिकविंशैकसहस्राजपयान्विताय । सफल्गुन्यजपासीनताण्डवाडम्बरोत्सुकाय । पुरन्दरमहायातमुकुन्दपरिवन्दिताय नमः । ५०० ॐ हस्ताद्युत्तराषाढान्तषट्त्रिंशद्दिवसोत्सवाय नमः । षट्त्रिंशत्तत्त्वबन्धघ्नसाङ्गोपाङ्गमहोत्सवाय । महार्द्रोत्सवसम्प्राप्तजनानुग्रहकारकाय । दिनान्तसुप्रसन्नात्मदीपसन्दर्शनोत्सुकाय । हंसकीकृतभीगीन्द्राय । हंसताण्डवसुप्रीताय । पतञ्जलिव्याघ्रपादमुनिमानसहंसकाय । कलासहस्रसम्पूर्णमहादीपावलोकवते । कर्पूरधूलीमिलितधवलावयवोज्जलाय । सायाह्नदीपसन्द्रष्टृभक्ताभीष्टप्रदायकाय । भक्तिमत्पापतूलग्नये । भक्तिमत्सुलभाभयाय । अनन्तपुण्यफलदाय । अनन्तामृतवारिधये । दिनाष्टकनिविष्टात्मने । पाशाष्टकविनाशनाय नमः । ५२० ॐ महास्वापे जागरूकाय नमः । महासन्ध्यासुवन्दिताय । महादिवससंस्थायिने । महासंहारकारकाय । मध्यावान्तरसंहारसृष्टिस्थितिविधायकाय । महाविष्णुमहारुद्रश्रीकण्ठानन्दविग्रहाय । महास्वापसमुद्भूतपञ्चकृत्यपरायणाय । रत्नसिंहासनासीनाय । रत्नप्रासादमध्यगाय । नवरत्नसभाधीशाय । रत्नप्राकारमध्यगाय । पञ्चाशत्पीठशक्तिसपरिवारपरीवृताय । कामरूपमहापीठपरमानन्दविग्रहाय । श्रीपीठमध्यवासिने । श्रीकण्ठादिभिरावृताय । नवरत्नगृहज्योतिर्मातृकाक्षरमालिकाय । कामेश्वरीवल्लभाय । महाकामेश्वराकृतये । आसीनोत्थाननटननानाताण्डवपण्डिताय । ऊर्ध्वताण्डवसंवादिने नमः । ५४० ॐ पादव्यत्यासताण्डवाय नमः । सप्तसागरपरिखाभभूमिदुर्गपरिच्छदाय । ज्योतिष्मतीशिखावाससर्वदेवगणावृताय । यशोवतीपुरीशानाय । मनोवाक्यविधिस्तुताय । भूबिम्बस्थमहामायालिपिवृत्तसमाश्रयाय । पञ्चकोशान्तरप्राप्तत्रिकोणस्थितमध्यगाय । अजपावर्णवाच्याय । अजपाजपसुप्रीताय । समस्तजनहृत्पद्मज्वलद्दीपसमाकृतये । देशकालानवच्छिन्नाय । देशकालप्रवर्तकाय । महाभोगिने । महायोगिने । महास्यन्दनसुन्दराय । तिरोभावक्रियाशक्तिसंसर्गपशुबन्धकृते । अनुग्रहपराशक्तिलीलाकलनलोलुपाय । नाडीत्रयान्तविलसत्सुधासाराभिवर्षणाय । नानाविधरसास्वादमहानुभवशक्तिमते । सोमसूर्याग्निपाद्यार्घ्यसुधाबिन्दुसमर्चिताय नमः । ५६० ॐ अपराधसहिष्णवे नमः । शरणागतवत्सलाय । श्रीमद्देवरखण्डात्मने । देवतासार्वभौमाय । वीरखड्गाभिरामाय । सर्ववीराधिनायकाय । वीरसिंहासनारूढाय । महावीरासनस्थिताय । विराठृदयपद्मस्थाय । वीर्योद्भूतविनायकाय । आधारपद्मवल्मीकनाथाय । घोषस्वनात्मकाय । सकुलान्तमहापद्मसंराजत्समनाकृतये । ब्रह्मरन्ध्रमहापद्मकोटिशीतांशुसन्निभाय । हृत्पद्मध्यसंस्थानसूर्यबिम्बोपमद्युतये । तिथिसङ्ख्यफणादीप्तमहाकुण्डलिभूषणाय । त्रुट्यदिकालपवनफूत्कारफणिभूषणाय । उमाकुमारसहिताय । श्रीकण्ठपुरनायकाय । अनाश्रितादिकालाग्निरुद्रान्तभुवनाधिपाय नमः । ५८० ॐ एकाशमहाकोटिरुद्रावरणसंस्थिताय नमः नमः । अनेकद्वादशादित्यमण्डलान्तसमुज्ज्वलाय । अष्टकोटिवसुप्राज्ञपुष्पपूजितपादुकाय । महापूरचतुःषष्टिमण्डलाधिपतीश्वराय । सप्तलोकान् समालोक्य स्वात्मप्रतिमतेजसे । सर्वलोकमहापुण्यप्रदर्शितमहात्मने । विरिञ्चियज्ञसम्भूतकपालमालयायुताय । ऋणत्रयविनाशाय । स्वर्णामलकवर्षिणे । देवतीर्थसकृत्स्नानदेवत्ववरदायकाय । जननान्मोक्षदानेन जितचण्डकृतान्तकाय । मरणान्मोक्षदानेन मृत्युवाहनतत्पराय । जननान्मोक्षसन्दायिक्षितिमूलनिवासिने । कृतमृत्युक्रियाविष्ट-मृत्युञ्जयमयाकृतये । जन्ममृत्युजरातप्तजनविश्रान्तिदायकाय । मुनिपक्षिमृगेन्द्रादिमुक्तिमार्गैकतत्पराय । पिष्टार्थमृद्भृतो मूर्ध्नि वेत्रप्रहरचिह्निताय । प्रकृत्याकारसगुणसकलीकृतविग्रहाय । असङ्ख्यरूपसङ्ख्यात्मने । सर्वनाम्ने । सर्वगाय नमः । ६०० ॐ सर्वप्रज्ञानिवासाय नमः । सर्वसङ्केतजन्मभुवे । सर्वसङ्केतसमयकारकाय । करुणानिधये । जगद्भ्रात्रे । जगद्बान्धवाय । जगन्मात्रे । जगत्पित्रे । कालज्ञाय । कालकर्त्रे । महाकालप्रवर्तकाय । अष्टादशाधिकशतमहारुद्रप्रपूजितय । सौगन्धिकलसत्पुष्पस्रगन्वितभुजान्तराय । सर्वसौन्दर्यनिलयाय । सर्वसम्पत्समृद्धिमते । दुग्धसम्मितवागीशज्ञानदुग्धाब्धिवासभुवे । श्रुतिस्मृतिपुराणैक्यगम्यविग्रहरूपवते । चिद्घनसुमहारुद्रगुरुमन्त्रेशनायकाय । श्यामोमारुणस्कन्दवामभागमनोहराय । पश्यन्तीमध्यमाभिख्यवैखर्याश्रितविग्रहाय नमः । ६२० ॐ घोषमेघविद्युदाभमहापद्मासनप्रभवे नमः । वसन्तवातविलसद्बृहत्पुष्पावतंसकाय । प्राणापानागमप्राज्ञाय । विश्वातीतस्वरूपगाय । सुभुजोद्दण्डदौर्भाग्यहरणेऽतिनिपुणाय । दुरितारण्यदावाग्नये । दुष्टदूरतरस्थिताय । अशेषदेवताधीशविष्णुहृत्पद्मवासभुवे । स्वपादहंसकोद्भूतप्रत्याहारार्थसूत्रकाय । स्वपादकिङ्किणीजातनवव्याकरणावलये । कामिकाद्यागमाकाराय । सर्वावयववर्जिताय । सर्वावयवसम्पन्नाय । द्वात्रिंशल्लक्षणान्विताय । सर्वलक्षणसम्पन्नाय । अनौपम्यशुभाकाराय । निस्तुलाय । निरहङ्कृतये । निराधारात्मसर्वविदे । सर्वज्ञाय । सर्वगोचराय नमः । ६४० ॐ लौकिकागमकर्त्रे नमः । वैदिकोक्तफलप्रदाय । अध्यात्मज्ञानकर्त्रे । अतिमार्गप्रवर्तकाय । स्वशक्तिज्वालाकल्पाय । स्वशक्तिकिरणोज्ज्वलाय । स्वशक्तये । लीनविग्रहाय । लोकातिशयसौन्दर्यनिधये । अन्तर्बहिर्गताय । साम्ना शक्त्येकाशीतिपादुकाय । परमार्थदाय । वरप्रासादचक्रस्थद्रुमवर्णत्रयात्मकाय । शुद्धप्रपञ्चसृष्ट्यादिकर्तृसिद्धान्तबोधकाय । महत्परादिसम्बन्धगुरुसन्तानबोधकाय । धर्माधिष्ठानचक्रस्थभूतग्रामविवर्तकाय । निष्प्रपञ्चाय । निराकाराय । ध्यातृमानसमन्दिराय । महामायासुधासिन्धवे । परानन्दामृतोदधये । अशेषदुःखतरणज्ञानानन्दसुबोधकाय । विराण्मूलालयाम्भोजमहामन्दिरमध्यगाय नमः । ६६० ॐ परमानन्दसन्दोहमन्दस्मितमुखाम्बुजाय नमः । करोटिमालाकलितहरिगर्वनिवारकाय । ललाटनेत्रदहनभस्मीकृतमनोभवाय । कवचीकृतषट्चक्रतिरोधानमहेश्वराय । बाह्यदृष्ट्यप्रमेयाङ्गाय । ज्ञानदृष्ट्यवलोकिताय । पञ्चमूर्धफणीशानतिरोहितपदाम्बुजाय । त्रिलोकसंरक्षणार्थाय राजवेषघराय । पुष्यात्मरथसम्प्रीताय । पुण्यभूमिनिवेशिताप । पुरुहूतार्चितपुण्याय । पुरुहूताघमोचनाय । सौन्दर्यसिन्धुसम्भूतनिशाकरसमाकृतये । जघन्यजन्मविच्छेत्त्रे । देवेन्द्रस्य वरप्रदाय । पुरन्दरमहाघोरचण्डालत्वविमोचकाय । कृतपाणिग्रहोदारगुणेन्द्राणीपुरन्दराय । देवराजमहाघोरगुल्मरोगनिवारकाय । पुरन्दरमहाशापपुरोगमसमुत्सुकाय । शिलादजात्मजेनाशु नन्दिकेशाधिकारिताय नमः । ६८० ॐ सुमेरुश‍ृङ्गमूलस्थविश्वसृष्ट्याद्यकारकाय नमः । आमूलद्वादशान्ताद्याधारादिषु वासिताय । अद्वितीयचिदानन्दघनकल्याणसुन्दराय । अशेषकलुषारण्यदावानलशिखायुताय । दशप्राणमहाभूतप्राणायामकचिन्मयाय । आनन्दचित्सभाशैलाद्विनिर्गतविभावसवे । तेजोमण्डलमध्यस्थचिदानन्ददिवाकराय । भानुमण्डलमध्यस्थाय । चन्द्रमण्डलमध्यगाय । तेजोमण्डलमध्यस्थाय । तेजस्विने । तेजसां निधये । कालाधिदैवताय । कालाय । अवस्थानीतमूर्तिमते । कालहन्त्रे । कालरूपिणे । सर्वकालप्रवर्तकाय । चतुरन्तायतमूर्तये । सर्वावस्थाप्रवर्तकाय नमः । ७०० ॐ चतुराम्नायमूर्तये नमः । षडङ्गावरणोज्ज्वलाय । मीमांसामांसलांसाय । तर्कशास्त्रकशेरुकाय । पुराणेन्द्रियसंयुक्ताय । धर्मशास्त्रात्मचेतनाय । षट्स्मृतिचतुर्वेदधनुर्वेदप्रतापवते । गान्धर्ववेदगानाढ्याय । आयुर्वेदारोग्यविदे । अवर्णविग्रहज्योतिषे । नाट्यकादिरसान्विताय । चतुःषष्टिकलारूपसर्वावयवसुन्दराय । मनोवाङ्मयदेहाय । शब्दब्रह्मस्वरूपवते । भक्तेष्टचित्तशुद्ध्यर्थं शाकीकृतशिशूत्सवाय । उमास्कन्दादिसहितमहाचण्डालवेषभृते । सोमयाजिमहायागप्रवेशव्यग्रविग्रहाय । सोमपूज्यसोमयुतसोमसुन्दरविग्रहाय । सोमयाजिमहाभक्तिव्यक्तिसन्तुष्टमानसाय । पदद्वयैर्नटत्सोमहविर्भागप्रतिग्रहाय नमः । ७२० ॐ सोमसूर्याग्निनाड्यन्तर्वीथीसञ्चारसुन्दराय नमः नमः । हंसमन्त्राक्षरद्वन्द्ववाच्याय । विश्वाघमोचकाय । दिग्देशकालरहितानन्याय । अचिन्त्यरूपवते । शतोपनिषदुद्घुष्टनित्याखण्डप्रकाशकृते । कलापञ्चककालादित्यागराजतटित्प्रभवे । सुप्रसन्नेन्द्रियग्रामाय । सर्वप्रत्यक्षदर्शनाय । कृशानुरेतसे । सर्वात्मने । ऊर्ध्वरेतसे । जितेन्द्रियाय । समस्तगुणसम्पन्नाय । सर्वापगुणवर्जिताय । निष्प्रपञ्चाय । प्रपञ्चात्मने । सेन्द्रियाय । निरिन्द्रियाय । शान्त्यादिषङ्गुणोपेताय नमः । ७४० ॐ मोहाद्यखिलदोषहृते नमः । निर्मलाय । मलध्वंसिने । शान्तशाश्वतविग्रहाय । सुषुम्नान्तःसमुदितनादरूपिणे । नटाधिपाय । निःश्वासलीलासञ्जातनिगमागमसन्ततये । देशिकादिष्टमार्गैकदृश्याय । देशिकपुङ्गवाय । वक्त्रे । वाचालकाय । वाच्याय । कैवर्तरूपोद्वहाय । ज्ञानज्ञातृज्ञेयरूपाय । अज्ञानज्ञानगोचराय । कृशानुभानुचन्द्रात्मने । त्रेताग्निपवनाकृतये । दिवासन्ध्यानिशाऽऽकाराय । सन्ध्यात्रयनिषेविताय । गायत्रीमन्त्रवेद्याय नमः । ७६० ॐ गायत्रीत्रिपदात्मकाय नमः । वाग्बीजकामराजाख्यपराबीजत्रयाभिधाय । षड्विधैक्यानुसन्धानपरदेशिकदर्शिताय । षड्विधार्थस्वरूपेण षडक्षरमयाकृतये । त्रयीदर्शितमूर्त्यात्ममन्त्रमूर्तिमहातनवे । शब्दार्थमात्रसामान्यबिन्दुमूर्तित्रयोज्ज्वलाय । सन्ध्यात्रयात्मस्वरूपत्रिसन्ध्यापरिवर्जिताय । विश्वात्मवेद्यवेदान्तत्रयीसिद्धान्तदर्शिताय । सच्चिदानन्दविधृतसोमास्कन्दमहेश्वराय । समस्तजननिध्यातचित्ताम्बुजसुखासनाय । पुरुषार्थप्रदाय । पूर्णाय । हेयोपादेयवर्जिताय । सविमर्शप्रकाशात्मसहजानन्दविग्रहाय । शिवशक्तिस्वरूपात्मशक्तिशक्तिमदाकृतये । तत्पदर्थैकस्वरूपात्मतत्त्वम्पदसुलक्षिताय । आवृत्तित्रयसम्पूज्यत्रिलोकीपरिरक्षिताय । रत्नस्तम्भसहस्राढ्यकलासम्पूर्णमन्दिराय । आसीनस्पन्दनटनपरशम्भुपरासखाय । सहस्रभानुसदृशाय । चन्द्रकोटिसुशीतलाय नमः । ७८० ॐ अपारकरुणासिन्धवे नमः । असङ्ख्यमहिमार्णवाय । सर्वज्ञतादिषाड्गुण्यसंयुतस्वात्मवैभवाय । पञ्चाशाद्वर्णमध्यस्थपराप्रासादमन्त्रगाय । पञ्चाशद्वर्णराज्ञीभिः स्तुतशाम्भववैभवाय । तेजःपञ्चकबिम्बोद्यद्दीपज्वालावलोकनाय । सोमसूर्याग्निनक्षत्रविद्युत्प्रतिमतेजसे । श्रीविद्याराज्ञीकराम्भोजकृतकौतुकमङ्गलाय । मेघध्वनिसमालापाय । वल्मीकसाध्वसध्वनये । यज्ञेश्वराय । यज्ञमयाय । महायज्ञक्रमावृताय । जपयज्ञक्रियाज्ञानतोषितध्वनये । मन्त्रविदे । वागर्थरूपाय । वागीशाय । त्रिकालप्रणवाभिधाय । भक्तोत्सुकाय । भक्तिगम्याय । भक्ति गीतस्तवोन्मुखाय नमः । ८०० ॐ दृष्टादृष्टानेकमूर्तये नमः । दुष्टारिबलमर्दनाय । शिवोत्तमाय । शिवतमाय । शिवदात्रे । शिवाप्रियाय । शिवानन्दमयाकाराय । शिवाप्रेमविधायकाय । शिवामृताब्धिशीतांशवे । शिवानन्दामृतार्णवाय । शिवाक्षरपरञ्जयोतिषे । शिवाङ्गाधिकसुन्दराय । शिवासंसक्तहृदयाय । शिवातोषितमानसाय । शिवाक्षरद्वयाकाराय । शिवागममुखाम्बुजाय । शिवश‍ृङ्गारवेषाढ्याय । शिवाकल्याणसुन्दराय । शिवागमैकनिलयाय । शिवोऽहम्भावना-प्रीताय नमः । ८२० ॐ शिवजीवात्मबोधकाय नमः । शिवमन्त्रोपदेशकाय । शिवागमोक्तनियमाय । गमाय शिवागमनदीपकाय । शिवमन्त्रज्ञमुक्तिदाय । शिवमन्त्रजपप्रियाय । भूताधिपाय । भूथनाथाय । भूतवाहनसुन्दराय । भूतनाट्योत्सुकाय । भूतसन्दोहसुप्रियाय । भूतचक्राराधिताय । भूतसङ्घसमावृताय । भूतादिकालवेत्रे । भूतिभूषितविग्रहाय । भूतसङ्घप्रपूजिताय । भूतपञ्चकविग्रहाय । लक्षकोटिमहाभूतगणसंरक्षकावृताय । कोटिकोटिमहाभूतरक्षिताण्डबहिःस्थलाय । पुण्यापुण्यविनिर्मुक्तपुण्यापुण्यसमेक्षणाय नमः । ८४० ॐ सकृत्सन्दर्शनादेव सुरेन्द्रपददायकाय नमः । पुण्यश्रवणकीर्त्यात्मने । पुण्यापुण्यफलप्रदाय । करालमुखकृष्णाङ्गाय । कृष्णाजिनसुलाञ्छिताय । कोटिचन्द्रप्रभाकारपूर्णचन्द्रनिभाननाय । महाकैरातवेषाढ्यपार्थप्रहरमूर्धकाय । महापाशुपतास्त्रेशदानतोषितपाण्डवाय । महागणेशविध्वस्तविघ्नसिद्धौघवन्दिताय । महाप्रलयंसभूतसर्वप्राण्युपसंहृतये । महाप्रलयकालान्तसृष्टिस्थितिविधायकाय । मूलात्मकोषःकालस्थमुद्गान्नप्रियमानसाय । स्वाधिष्ठानात्मकप्रातर्दध्यन्नप्रियमानसाय । मणिपूरात्ममध्याह्नघृतमुद्गान्नमानसाय । अनाहतात्मसायाह्नगुळान्नप्रियमानसाय । विशुद्धयात्मनिशासन्ध्यापायसान्नप्रियात्मकाय । आज्ञात्मकार्धयामस्थसर्वान्नप्रियमानसाय । समुद्गशर्कराज्यान्नमाषापूपरसप्रियाय । समुद्गचोचकैर्मिश्रसूचीघनबहुप्रियाय । नानाकोणमधुच्छिद्रनानाभक्ष्यबहुप्रियाय नमः । ८६० ॐ लीलामात्रकृतानेकजगदुत्पत्तिनाशनाय नमः । अव्याजकरुणामूर्तये । अज्ञानध्वान्तभास्कराय । मार्ताण्डभैरवाराध्यवीरखड्गविराजिताय । वीरभद्रसमाराध्यवृषभेन्द्रविलासिताय । वेदमार्गैकनिपुणाय । वेदान्तपरिनिष्ठिताय । वैदिकाचारसम्पन्नाय । वामदेववरप्रदाय । ऊर्ध्वस्वायम्भुवादृश्याय । दिव्यस्वायम्भुवात्मकाय । मन्वात्मने । शैवसम्पन्नाय । सकृत्सन्तानबोधकाय । कमलापतिसंसेव्यकमलासनपूजिताय । उक्षपताकापतये । हराय । आरूढवृषध्वजाय । अजय्यगोपदीप्यग्राय । महाकारुणिकोत्तमाय । जगत्प्रदीपरूपिणे । लोकत्रयविभावनाय नमः । ८८० ॐ जगद्धितैषिणे नमः । दिव्यात्मने । श्रीमते अमितविग्रहाय । महाग्रासाय । महामानिने । क्षयद्वीराय । शाश्वताय । श्रीक्षेत्रभैरवाय । कैवर्तकन्यकोद्वहाय । नृसिंहहन्त्रे । कामारये । विष्णुमायान्तकाय । त्र्यम्बकाय । शिपिविष्टाय । मखारये । नीललोहिताय । महाप्राणाय । महाजीवाय । प्राणापानप्रवर्तकाय । व्योमव्यापिने । व्योमरूपाय नमः । ९०० ॐ व्योमसूक्ष्माय नमः । विराण्मयाय । एकाधिपत्यसाम्राज्यप्रदाय । एकान्तपूजिताय । द्विरूपशिवशक्त्यात्मने । हंसदिव्याक्षराभिधाय । त्रिमात्रप्रणवध्येयाय । त्र्यक्षाय । त्रिजगदीश्वराय । चतुर्मुखादिसंसेव्याय । चतुर्वर्गफलप्रदाय । पञ्चाक्षरपरञ्ज्योतिषे । पञ्चाक्षरमयाकृतये । पञ्चाक्षरप्राणरूपाय । पञ्चाक्षरजपप्रियाय । पञ्चाक्षरग्रहाधीशाय । पञ्चाक्षरतिरोहिताय । पञ्चाक्षरसदाव्यापिने । पञ्चाक्षरपुरेश्वराय । पञ्चाक्षरप्रमाणज्ञाय नमः । ९२० ॐ पञ्चाक्षरकमुक्तिदाय नमः । पञ्चाक्षरविदीप्ताय । पञ्चाक्षरफलप्रदाय । पञ्चाक्षरनिवासीनक्षीरार्णवमणये । नटाय । पञ्चाक्षरमहामन्त्रशब्दब्रह्माक्षरोज्ज्वलाय । चतुःषष्टिकलातीर्थदेवताकोटिसंश्रिताय । श्रीमत्स्वात्मकलामूर्ध्नि जटागङ्गाकलाधराय । श्रीमद्भगीरथेन्द्राय भूवाराणसिदर्शकाय । श्रीमत्कात्यायनीमुख्यशक्तिपाणिग्रहोत्सुकाय । षडङ्गसंस्थिताय । सप्तकोटीश्वरनिषेविताय । अष्टमूर्तये । अनेकात्मने । अष्टैश्वर्यफलप्रदाय । नवतत्वातीतमूर्तये । नवाक्षरजपप्रियाय । दशायुधाय । दशभुजाय । दशदिग्व्याप्तविग्रहाय । एकादशमहारुद्ररूपिणे । सर्वजगत्प्रभवे । भूलोकजनपुण्यौघसम्प्राप्तकमलालयाय । शुद्धस्फटिकसङ्काशस्मितशोभिमुखाम्बुजाय । दयातरङ्गितापाङ्गविलोकनविलासवते नमः । ९४० ॐ वरदाभीतिपरशुमृगासक्तकराम्बुजाय नमः । कोटिकन्दर्पलावण्यपुण्यसर्वाङ्गसुन्दराय । सौन्दर्यलहरीपूर्णराजकुम्भेशविग्रहाय । निजावयवगन्धश्रीसुगन्धितदिगन्तराय । श्रवणानन्दसन्दायिसौन्दर्यमृदुभाषणाय । कर्पूरधूलिमिलितभस्मोद्धूलितपाण्डराय । महामृगमदोद्दामकृष्णगन्धसुगन्धिताय । कर्पूरकुङ्कुमाद्यष्टचन्दनद्रवचर्चिताय । कालागरुकृतानेकधूपामोदसुमोदिताय । गव्यनिर्वर्तितानेकप्रदीपावलिभासुराय । समुद्रगरलभ्राजद्गलस्थलसुशोभिताय । तिलोत्तमोर्वशीरम्भाकल्पितारात्रिकक्रमाय । सायन्तनमहादीपमङ्गलाराधनक्रमाय । दर्पणान्तर्गतस्वात्मप्रतिबिम्बनिभेक्षणाय । चन्द्रमण्डलसङ्काशश्वेतच्छत्रविराजिताय । पार्श्वद्वयपरिभ्राजच्चामरावलिराजिताय । तापिञ्छनीलपिञ्छौघच्छायासञ्छादिताम्बराय । मयूरव्यजनोद्भूतमन्दमारुतसन्ततये । ऋग्यजुःसामजस्तोत्रश्रवणोत्सुकमानसाय । तरुणीभिः समारब्धशुद्धनृत्तेक्षणप्रियाय नमः । ९६० ॐ पञ्चब्रह्मषडङ्गार्णपञ्चब्रह्मषडङ्गकाय नमः । एकमन्त्रषडङ्गार्णपञ्चव्रह्मषडङ्गवते । अष्टत्रिंशत्कलाकॢप्ततनुवीक्षणवैभवाय । व्योमव्यापिमहामन्त्रवर्णितनेकशक्तिकाय । अनन्तादिशिवध्याननन्दिभृङ्ग्यादिसेविताय । दशायुधादिदिक्पालैर्दिक्पतिद्विदशावृताय । शतरुद्रावृतप्रान्तसहस्रगणपावृताय । सिद्धगन्धर्वयक्षादिदेवसङ्घनिषेविताय । अनेकजन्मसंसिद्धपुण्यलभ्यपदाम्बुजाय । नित्यतृप्तानादिबोधस्वतन्त्त्रालुप्त्यनन्तकाय । प्रत्युप्तनवरत्नैघसिंहासनवरस्थिताय । भक्ताभीष्टप्रदाय । साक्षात्सकलीकृतविग्रहाय । वसन्तवातसन्तुष्टाय । वसन्तनर्तनोत्सुकाय । श्रीनीलोत्पलनायक्याःपाणिग्रहणभास्वराय । संसारतापविच्छेत्त्रे । महासंसारकारकाय । ईषणारहितोद्युक्तशिवज्ञानप्रदायकाय । हाटकक्षेत्रसम्भूतजीवन्मुक्तिप्रदायकाय । हाटकाभरणाबद्धसर्वावयवशेभिताय नमः । ९८० ॐ शेखरीकृतशीतांशुजाह्नवीबद्धमस्तकाय नमः । शरच्चन्द्रसमाकारवदनाय । मञ्जुलस्वनाय । प्रलयाग्निसमाकारहालाहलविषाशनाय । अनेककोटिब्रह्माण्डनायकाय । नीलकन्धराय । कनकाङ्गदकेयूरकमनीयभुजान्विताय । झलञ्झलितशब्दौघकटकाबद्धपादुकाय । व्याघ्रचर्मधराय । व्याघ्रपादपूजितपादुकाय । आनन्दवनमध्यस्थाय । सर्वानन्दविधायकाय । सिद्धेश्वराय । सर्वसिद्धपूजिताय । परमाद्भुताय । षष्टित्रिंशत्सङ्ख्यातलीलाकल्पितविग्रहाय । लोकसंरक्षणार्थाय राजवेषधराय । नानाविचित्रवेषाढ्याय । नानासिद्धान्तवेदिने । दिव्यश‍ृङ्गारवेषाढ्याय । नामरूपविवर्जिताय नमः । १००० ॐ दिगम्बराय नमः । अव्ययाय । श‍ृङ्गारवनमध्यगाय । भूदाररूपवैकुण्ठपरिमृग्यपदाम्बुजाय । हंसरूपहंसवाहादृष्टशिरसे । लेलिहानमहाघोरमहातेजःस्वरूपवते । चन्द्रहासद्वययुतचन्द्रहासमुखान्विताय । वीथीविटङ्कसाम्बाय । स्वात्मपूजनतत्पराय । महाभिषेकनैवेद्यमहापूजनतत्पराय । विराडाधारमूलस्थत्यागाराजमहेश्वराय । श्रीसोमास्कन्दवीथीविटङ्कसाम्बपरमेश्वराय नमः । १०१० श्रीत्यागराजाय । कृपानिधये । दयानिधये नमः । इति श्रीत्यागराज-मुचुकुन्द-सहस्रनामावली समाप्ता । The name count exceeds way over 1000. Additional names are due to longer combined names split appropriately.