अक्षर आकार:

श्रीतेजिनीवनेश्वराष्टोत्तरशतनामावलिः

Shri Tejinivaneshvarashtottarashatanamavali

श्रीतेजिनीवनेश्वराष्टोत्तरशतनामावलिः

(पञ्चाक्षरादिः) ॐ श्रीगणेशाय नमः । ॐ ओङ्काररूपाय नमः । ॐ ओङ्कारनिलयाय नमः । ॐ ओङ्कारबीजाय नमः । ॐ ओङ्कारसारसहंसकाय नमः । ॐ ओङ्कारमदमध्याय नमः । ॐ ओङ्कारमन्त्रवाससे नमः । ॐ ओङ्काराध्वरदक्षाय नमः । ॐ ओङ्कारवेदोपनिषदे नमः । ॐ ओङ्कारपरसौख्यदाय नमः । ॐ ओङ्कारमूर्तये नमः । ॐ ओङ्कारवेद्याय नमः । ॐ ओङ्कारभूषणाय नमः । ॐ ओङ्कारवर्णभेदिने नमः । ॐ ओङ्कारपदप्रियाय नमः । ॐ ओङ्कारब्रह्ममयाय नमः । ॐ ओङ्कारमध्यस्थाय नमः । ॐ ओङ्कारनन्दनाय नमः । ॐ ओङ्कारभद्राय नमः । ॐ ओङ्कारविषयाय नमः । ॐ ओङ्कारहराय नमः ॥ २०॥ ॐ ओङ्कारेशाय नमः । ॐ ओङ्कारताण्डवाय नमः । ॐ ओङ्कारोदकाय नमः । ॐ ओङ्कारवह्नये नमः । ॐ ओङ्कारवायवे नमः । ॐ ओङ्कारनभसे नमः । ॐ ॐशिवाय नमः । ॐ नकाररूपाय नमः । ॐ नन्दिविद्याय नमः । ॐ नरसिंहगर्वहराय नमः । ॐ नानाशास्त्रविशारदाय नमः । ॐ नवीनाचलनायकाय नमः । ॐ नवावरणाय नमः । ॐ नवशक्तिनायकाय नमः । ॐ नवयौवनाय नमः । ॐ नवनीतप्रियाय नमः । ॐ नन्दिवाहनाय नमः । ॐ नटराजाय नमः । ॐ नष्टशोकाय नमः ॥ ४०॥ ॐ नर्मालापविशारदाय नमः । ॐ नयदक्षाय नमः । ॐ नयनत्रयधराय नमः । ॐ नवाय नमः । ॐ नवनिधिप्रियाय नमः । ॐ नवग्रहरूपिणे नमः । ॐ नव्याव्ययभोजनाय नमः । ॐ नगाधीशाय नमः । ॐ मकाररूपाय नमः । ॐ मन्त्रज्ञाय नमः । ॐ महिताय नमः । ॐ मन्दारकुसुमप्रियाय नमः । ॐ मधुरावासभूमये नमः । ॐ मन्ददूराय नमः । ॐ मन्मथनाशनाय नमः । ॐ मन्त्रविद्याय नमः । ॐ मन्त्रशास्त्राय नमः । ॐ मलविमोचकाय नमः । ॐ मनोन्मनीपतये नमः । ॐ मत्ताय नमः ॥ ६०॥ ॐ मत्तधूर्तशिरसे नमः । ॐ महोत्सवाय नमः । ॐ मङ्कळाकृतये नमः । ॐ मण्डलप्रियाय नमः । ॐ महादेवाय नमः । ॐ महानन्दाय नमः । ॐ महासत्त्वाय नमः । ॐ महेशाय नमः । ॐ शिकाररूपाय नमः । ॐ शिवाय नमः । ॐ शिक्षितदानवाय नमः । ॐ शितिकण्ठाय नमः । ॐ शिवाकान्ताय नमः । ॐ शिंशुमारशुकावताराय नमः । ॐ शिवात्मसुतचक्षुषे नमः । ॐ शिपिविष्टाय नमः । ॐ शीतभीताय नमः । ॐ शिखिवाहनजन्मभुवे नमः । ॐ शिशुपालविपक्षेन्द्राय नमः । ॐ शिर:कृतसुरापगाय नमः ॥ ८०॥ ॐ शिलीमुखकृतविष्णवे नमः । ॐ शिखिभोगसन्तुष्टाय नमः । ॐ शिवाच्युतैकभावाय नमः । ॐ शिवकेतनाय नमः । ॐ शिवसिद्धिवासिने नमः । ॐ शिरश्चन्द्रभूषणाय नमः । ॐ शिवालयाय नमः । ॐ शिखामणये नमः । ॐ वकाररूपाय नमः । ॐ वाग्वादिनीपतये नमः । ॐ वनपनसवासिने नमः । ॐ वरवेषधराय नमः । ॐ वराभयहस्ताय नमः । ॐ वामाचारप्रयुक्ताय नमः । ॐ वामदक्षिणहस्तोक्ताय नमः । ॐ वरुणार्चिताय नमः । ॐ वारुणीमदविह्वलाय नमः । ॐ वज्रमकुटधारिणे नमः । ॐ वह्निसोमार्कनयनाय नमः । ॐ वासवार्चिताय नमः ॥ १००॥ ॐ वल्लीनाथपित्रे नमः । ॐ वचनशुद्धये नमः । ॐ वागीश्वरार्चिताय नमः । ॐ वायुवेगाय नमः । ॐ वसन्तोत्सवप्रियाय नमः । ॐ वज्रशक्तिप्रहरणाय नमः । ॐ वशित्वाद्यष्टसिद्धये नमः । ॐ वर्णभेदिने नमः । ॐ यकाररूपाय नमः । ॐ यागाधीश्वराय नमः । ॐ यजुर्वेदार्चिताय नमः । ॐ यत्कर्मसाक्षिणे नमः । ॐ यत्तन्निर्विघ्नाय नमः । ॐ यजमानस्वरूपाय नमः । ॐ यदाकाशनगरेशाय नमः । ॐ यत्कात्यायनीपतये नमः । ॐ यद्वृषभवाहनाय नमः । ॐ यत्कर्मफलदायकाय नमः । ॐ याज्ञिकादिप्रवर्तकाय नमः । ॐ यमान्तकाय नमः । ॐ यावदक्षरनायकाय नमः । ॐ यावन्मन्त्रस्वरुपिणे नमः । ॐ यक्षस्वरूपाय नमः । ॐ यज्ञाङ्गाय नमः । ॐ यज्ञभोक्त्रे नमः । ॐ यस्य दयाभोक्त्रे नमः । ॐ यत्साधुसङ्गमप्रियाय नमः । ॐ यावन्नक्षत्रमालिने नमः । ॐ यावद्भक्तहृदिस्थिताय नमः । ॐ याचकवेषधराय नमः ॥ १३०॥ श्रीसुन्दरकुचाम्बासमेत तेजिनीवनेश्वरस्वामिने नमः । इति श्रीतेजिनीवनेश्वराष्टोत्तरशतनामावलिः समाप्ता ।