अक्षर आकार:

तारावलिस्तोत्रम्

Taravali Stotra

तारावलिस्तोत्रम्

निरवधिकरुणार्द्रैर्निह्नुताशेषदोषैः अमृतरसझराणां अन्तरङ्गैरपाङ्गैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ १॥ श्रियमवनतिभाजां श्रेयसामादधानैः अमृतरसतरङ्गश्रीधुरीणैरपाङ्गैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ २॥ गजमुखशरजन्मप्रेमगाढोपगूढैः नगदुहितुरमन्दानन्दमूलैरपाङ्गैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ ३॥ गिरिवरतनयायाः केलिकोपे नतस्तत् चरणनखरुचिश्रीवर्मितैरीक्षणैर्द्राक् । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ ४॥ स्मरहरदयनीयास्मीत्युमायां वदन्त्यां दरहसितमुखेन्दुस्तामपाङ्गैः पिबद्भिः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ ५॥ नमदमरकिरीटक्रीडदुद्दण्डशुण्डा- मुखमिभमुखमारादापिबद्भिः कटाक्षैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ ६॥ समदधत मृकण्डोरात्मजे चोपमन्यौ समभिलषितसिद्धिं ये कटाक्षाङ्करास्तैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ ७॥ मकुटशशिकिशोरस्यन्दिपीयूषधारा- मधुरशिशिरभावस्तोमचोरैरपाङ्गैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ ८॥ प्रणमदमरमौलि प्रस्फुरद्रत्नबृन्द- प्रसृमरकिरणश्रीदत्तहस्तेरपाङ्गैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ ९॥ प्रणमनकृतिसृष्टा शम्भुना पद्मपङ्क्ति- प्रविततिरियमित्यध्यस्यमानैरपाङ्गैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ १०॥ प्रणमनपरसंसन्मोक्षसाम्राज्यलक्ष्मी- वरणकमलमालोदारयापाङ्गभङ्ग्या । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ ११॥ गदगणगलनायुः कल्पनोदूढदीक्षैः अभिमतसकलार्थादानदक्षैः कटाक्षैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ १२॥ भवभरतपतापोपप्लुतानां नतानां श्रमहृदमृतवृष्ट्या सान्द्रकारुण्यदृष्ट्या । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ १३॥ दलमपिकुसुमं वा दत्तवद्भ्यो जनेभ्यो विधिवलमथन श्रीविक्रयिण्या दृशा द्राक् । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ १४॥ अवनमनपराणां आत्मतत्त्वावबोध- प्रकटनपटुदीपैः प्रस्फुरद्भिः कटाक्षैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ १५॥ अवनमनपराणां आयुरारोग्यवृद्धिं निजचरणरतिञ्चोदञ्चयद्भिः कटाक्षैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ १६॥ हृदि विनतजनानां भक्तिकल्पद्रुवल्ली- जनिकृदमृतसेकैर्विस्फुरद्भिः कटाक्षैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ १७॥ गजवदनकराग्राकीर्यमाणस्वचूडा- तटवरसरिदूर्म्यासेचनैस्तापहारी । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ १८॥ निजमकुटतटाञ्चन्निम्नगावीचिविप्रुट्- प्रकरविकसनेन प्रापयन् तापशान्तिम् । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ १९॥ प्रथमभिषगधीशख्यातिमूर्जस्वलां स्वां प्रविदधदवनम्र व्यूहसर्वार्तिहृत्या । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ २०॥ प्रवणजनविमोहध्वान्तविध्वंसकेली- पटुतरदरहास प्रस्फुरञ्चन्द्रिकाभिः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ २१॥ कुपितशिखरिकन्या चित्तशीतांशुकान्त द्रुतिषु शशिमयूखैः सुन्दरैर्मन्दहासैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ २२॥ प्रणमति विहरद्भिस्तत्र संप्रीति दत्त- प्रविमलतरहारभ्रान्तिदैर्मन्दहासैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ २३॥ स्फुटविचकलितार्या तुङ्गवक्षोजकुम्भ- श्रितकुवलयमालेनामलेन स्मितेन । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ २४॥ स्फुरदधररुचिश्रीसङ्गिना पद्मराग- द्युतिकवचितहीराभेन मन्दस्मितेन । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ २५॥ सुकृतिहृदयसौध प्रोल्लसच्चन्द्रिकाभिः दरहसितरुचीभिर्दारितार्तिच्छटाभिः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ २६॥ कमलजठरनिर्यच्चन्द्रिकाभ्रान्तिकृद्भिः शुभतरदरहासैराननान्निसरद्भिः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ २७॥ श्रितजनघनपुण्यश्रेणिमल्लीमतल्ली- कुसुमसमुदयेनोदारमन्दस्मितेन । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्ति साम्बमूर्तिर्विधत्ताम् ॥ २८॥ तारावलीस्तुतिमिमां तरुणेन्दुमौलेः श‍ृण्वन्ति ये भुवि पठन्ति शिवः स तेषाम् । दीर्घायुरुन्नतविभूतिसुतर्द्धि शम्भु भक्त्याद्यभीष्टमखिलं प्रददाति हृष्टः ॥ २९॥ ॥ इति श्रीश्रीधरवेङ्कटेशार्यकृतौ तारावलीस्तोत्रं सम्पूर्णम् ॥