अक्षर आकार:

श्रीताण्डवेश्वरस्तोत्रम्

Shri Tandaveshvara Stotram

श्रीताण्डवेश्वरस्तोत्रम्

वृथा किं संसारे भ्रमथ मनुजा दुःखबहुले पदाम्भोजं दुःखप्रशमनमरं संश्रयत मे । इतीशानस्सर्वान्परमकरुणानीरधिरहो पदाब्जं ह्युद्धृत्याबुजनिभ करेणोपदिशति ॥ १॥ संसारानलतापतप्त हृदयास्सर्वे जवान्मत्पदं सेवध्वं मनुजा भयं भवतु मा युष्माकमित्यद्रिशः । हस्तेऽग्निं दधदेष भीतिहरणं हस्तं च पादाम्भुजं ह्युद्धृत्योपदिशत्यहो करसरोजातेन कारुण्यधिः ॥ २॥ ताण्डवेश्वर ताण्डवेश्वर ताण्डवेश्वर पाहि माम् । ताण्डवेश्वर ताण्डवेश्वर ताण्डवेश्वर रक्ष माम् ॥ ३॥ गाण्डिवेश्वर पाण्डवार्चित पङ्कजाभपदद्वयं चण्डमुण्डविनाशिनी हृत वामभागमनीश्वरं । दण्डपाणि कपाल भैरव तण्डुमुख्य गणैर्युतं मण्डिताखिल विनष्टपं विजितान्धकं प्रणमाम्यहम् ॥ ४॥ भासमान शरीर कान्ति विभासिताखिल विष्टपं वासवाद्यमृताशसेवित पादपङ्कज संयुतम् । कासमान मुखारविन्द जितामृतांशुमशेषहृत् वासताण्डव शङ्कर सकलाघनाशकमाश्रये ॥ ५॥ मेरुपर्वतकार्मुकं त्रिपुरार्तनिर्जरयाचितं ज्याकृताखिलसर्पराज महीशतल्प सुसायकम् । ज्यारथं चतुरागमाश्वमजेन सारथिसंयुतं संहृतत्रिपुरं महीध्रसुतानु मोदकमाश्रये ॥ ६॥ गदाभृद्ब्रह्मेन्द्राद्यखिल सुरवृन्दार्च्य चरणं ददानं भक्तेभ्यश्चितिमखिल रूपामनवधिम् । पदास्पृष्टोक्षानं जितमनसिजं शान्तमानसं सदा शम्भुं वन्दे शुभदगिरिजाष्लिष्टवपुषम् ॥ ७॥ इति श्रीजगद्रुरु श्रीश‍ृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती श्रीपादैः विरचितं श्रीताण्डवेश्वरस्तोत्रम् सम्पूर्णम् ।