अक्षर आकार:

श्रीताण्डवेश्वरीताण्डवेश्वर सम्मेलनाष्टोत्तरशतनामानि

shrItANDaveshvarItANDaveshvara sammelanAShTottarashatanAmAni

श्रीताण्डवेश्वरीताण्डवेश्वर सम्मेलनाष्टोत्तरशतनामानि

चिदम्बररहस्योक्तानि ॥ श्रीगणेशाय नमः ॥ ॥ पूर्वपीठिका ॥ श्रीसूतः । श‍ृणुध्वं मुनयस्सर्वे रहस्यातिरहस्यकम् । पुरा व्यासेन कथितं विविक्ते मां प्रति प्रियात् ॥ १॥ नारायणात् समालब्धं स्मरणात् पठनात् सकृत् । इष्टार्थदं हि सर्वेषामन्ते कैवल्यदं शुभम् ॥ २॥ सम्मेलनसभानाथपारमेश्वरताण्डवम् । अष्टोत्तरशतं वक्ष्ये तथा ध्यानपुरस्सरम् ॥ ३॥ ॥ इति पूर्वपीठिका ॥ ध्यानम् - शय्यापस्मारपृष्ठे स्थितपदविलसद्वाममुद्धृत्य पादं ज्वालामालासु मध्ये नटनमहिपतिं व्याघ्रपादादिसेव्यम् । भस्मालेपाक्षमालाभरणविलसितं वह्निडोलाभयाङ्कं हस्तैर्ढक्कां दधानं भज हृदि सततं साम्बिकं ताण्डवेशम् ॥ ॐ सदाशिवताण्डवायै नमः । ॐ सदाशिवताण्डवाय नमः । १ ॐ महेशताण्डवायै नमः । ॐ महेशताण्डवाय नमः । २ ॐ रौद्रताण्डवायै नमः । ॐ रौद्रताण्डवाय नमः । ३ ॐ ओङ्कारताण्डवायै नमः । ॐ ओङ्कारताण्डवाय नमः । ४ ॐ विष्णुहृद्ब्रह्मताण्डवायै नमः । ॐ विष्णुहृद्ब्रह्मताण्डवाय नमः । ५ ॐ ब्रह्मशीर्षोर्ध्वताण्डवायै नमः । ॐ ब्रह्मशीर्षोर्ध्वताण्डवायनमः । ६ ॐ आनन्दताण्डवायै नमः । ॐ आनन्दताण्डवाय नमः । ७ ॐ चिन्महाव्योमताण्डवायै नमः । ॐ चिन्महाव्योमताण्डवाय नमः । ८ ॐ सत्त्वचिद्घनताण्डवायै नमः । ॐ सत्त्वचिद्घनताण्डवाय नमः । ९ ॐ गौरीताण्डवायै नमः । ॐ गौरीताण्डवाय नमः । १० ॐ सन्ध्याताण्डवायै नमः । ॐ सन्ध्याताण्डवाय नमः । ११ ॐ अजपाताण्डवायै नमः । ॐ अजपाताण्डवाय नमः । १२ ॐ कालीताण्डवायै नमः । ॐ कालीताण्डवाय नमः । १३ ॐ दहराकाशताण्डवायै नमः । ॐ दहराकाशताण्डवाय नमः । १४ ॐ त्रिपुरताण्डवायै नमः । ॐ त्रिपुरताण्डवाय नमः । १५ ॐ अनवरतताण्डवायै नमः । ॐ अनवरतताण्डवाय नमः । १६ ॐ हंसताण्डवायै नमः । ॐ हंसताण्डवाय नमः । १७ ॐ उन्मत्तताण्डवायै नमः । ॐ उन्मत्तताण्डवाय नमः । १८ ॐ पारावततरङ्गताण्डवायै नमः । ॐ पारावततरङ्गताण्डवाय नमः । १९ ॐ महाकुक्कुटताण्डवायै नमः । ॐ महाकुक्कुटताण्डवाय नमः । २० ॐ भृङ्गिताण्डवायै नमः । ॐ भृङ्गिताण्डवाय नमः । २१ ॐ कमलाताण्डवायै नमः । ॐ कमलाताण्डवाय नमः । २२ ॐ हंसपादताण्डवायै नमः। ॐ हंसपादताण्डवाय नमः । २३ ॐ सुन्दरताण्डवायै नमः । ॐ सुन्दरताण्डवाय नमः२४ ॐ सदाऽभयप्रदताण्डवायै नमः । ॐ सदाऽभयप्रदताण्डवाय नमः । २५ ॐ मूर्तिताण्डवायै नमः । ॐ मूर्तिताण्डवाय नमः । २६ ॐ कैवल्यताण्डवायै नमः। ॐ कैवल्यताण्डवाय नमः । २७ ॐ मोक्षताण्डवायै नमः । ॐ मोक्षताण्डवाय नमः । २८ ॐ हालास्यताण्डवायै नमः । ॐ हालास्यताण्डवाय नमः । २९ ॐ शाश्वतताण्डवायै नमः । ॐ शाश्वतताण्डवाय नमः । ३० ॐ रूपताण्डवायै नमः । ॐ रूपताण्डवाय नमः । ३१ ॐ निश्चलताण्डवायै नमः । ॐ निश्चलताण्डवाय नमः । ३२ ॐ ज्ञानताण्डवायै नमः । ॐ ज्ञानताण्डवाय नमः । ३३ ॐ निरामयताण्डवायै नमः । ॐ निरामयताण्डवाय नमः । ३४ ॐ जगन्मोहनताण्डवायै नमः । ॐ जगन्मोहनताण्डवाय नमः । ३५ ॐ हेलाकलितताण्डवायै नमः । ॐ हेलाकलितताण्डवाय नमः । ३६ ॐ वाचामगोचरताण्डवायै नमः । ॐ वाचामगोचरताण्डवाय नमः । ३७ ॐ अखण्डाकारताण्डवायै नमः । ॐ अखण्डाकारताण्डवाय नमः । ३८ ॐ षट्चक्रताण्डवायै नमः । ॐ षट्चक्रताण्डवाय नमः । ३९ ॐ सर्पताण्डवायै नमः । ॐ सर्पताण्डवाय नमः । ४० ॐ दक्षाध्वरध्वंसताण्डवायै नमः । ॐ दक्षाध्वरध्वंसताण्डवाय नमः । ४१ ॐ सप्तलोकैकताण्डवायै नमः । ॐ सप्तलोकैकताण्डवाय नमः । ४२ ॐ अपस्मारहरताण्डवायै नमः । ॐ अपस्मारहरताण्डवाय नमः । ४३ ॐ आद्यताण्डवायै नमः । ॐ आद्यताण्डवाय नमः । ४४ ॐ गजसंहारताण्डवायै नमः- ॐ गजसंहारताण्डवाय नमः । ४५ ॐ तिल्वारण्यताण्डवायै नमः । ॐ तिल्वारण्यताण्डवाय नमः । ४६ ॐ अष्टकाताण्डवायै नमः । ॐ अष्टकाताण्डवाय नमः । ४७ ॐ चित्सभामध्यताण्डवायै नमः । ॐ चित्सभामध्यताण्डवाय नमः । ४८ ॐ चिदम्बरताण्डवायै नमः। ॐ चिदम्बरताण्डवाय नमः । ४९ ॐ त्रैलोक्यसुन्दरताण्डवायै नमः । ॐ त्रैलोक्यसुन्दरताण्डवाय नमः । ५० ॐ भीमताण्डवायै नमः । ॐ भमिताण्डवाय नमः । ५१ ॐ पुण्डरीकाक्षदृष्टपादताण्डवायै नमः । ॐ पुण्डरीकाक्षदृष्टपादताण्डवाय नमः । ५२ ॐ व्याघ्रताण्डवायै नमः । ॐ व्याघ्रताण्डवाय नमः । ५३ ॐ कुञ्चितताण्डवायै नमः । ॐ कुञ्चितताण्डवाय नमः । ५४ ॐ अघोरताण्डवायै नमः । ॐ अघोरताण्डवाय नमः । ५५ ॐ विश्वरूपताण्डवायै नमः। ॐ विश्वरूपताण्डवाय नमः । ५६ ॐ महाप्रलयताण्डवायै नमः । ॐ महाप्रलयताण्डवाय नमः । ५७ ॐ हुङ्कारताण्डवायै नमः । ॐ हुङ्कारताण्डवाय नमः । ५८ ॐ विजयताण्डवायै नमः । ॐ विजयताण्डवाय नमः । ५९ ॐ भद्रताण्डवायै नमः । ॐ भद्रताण्डवाय नमः । ६० ॐ भैरवानन्दताण्डवायै नमः । ॐ भैरवानन्दताण्डवाय नमः । ६१ ॐ महाट्टहासताण्डवायै नमः । ॐ महाट्टहासताण्डवाय नमेः ६२ ॐ अहङ्कारताण्डवायै नमः । ॐ अहङ्कारताण्डवाय नमः । ६३ ॐ प्रचण्डताण्डवायै नमः । ॐ प्रचण्डताण्डवाय नमः । ६४ ॐ चण्डताण्डवायै नमः। ॐ चण्डताण्डवाय नमः । ६५ ॐ महोग्रताण्डवायै नमः । ॐ महोग्रताण्डवाय नमः । ६६ ॐ युगान्तताण्डवायै नमः । ॐ युगान्तताण्डवाय नमः । ६७ ॐ मन्वन्तरताण्डवायै नमः । ॐ मन्वन्तरताण्डवाय नमः । ६८ ॐ कल्पताण्डवायै नमः । ॐ कल्पताण्डवाय नमः । ६९ ॐ रत्नसंसत्ताण्डवायै नमः । ॐ रत्नसंसत्ताण्डवाय नमः । ७० ॐ चित्रसंसत्ताण्डवायै नमः । ॐ चित्रसंसत्ताण्डवाय नमः । ७१ ॐ ताम्रसंसत्ताण्डवायै नमः । ॐ ताम्रसंसत्ताण्डवाय नमः । ७२ ॐ रजतश्रीसभाताण्डवायै नमः । ॐ रजतश्रीसभाताण्डवाय नमः । ७३ ॐ स्वर्णसभाश्रीचक्रताण्डवायै नमः । ॐ स्वर्णसभाश्रीचक्रताण्डवाय नमः । ७४ ॐ कामगर्वहरताण्डवायै नमः । ॐ कामगर्वहरताण्डवाय नमः । ७५ ॐ नन्दिताण्डवायै नमः । ॐ नन्दिताण्डवाय नमः । ७६ ॐ महादोर्दण्डताण्डवायै नमः। ॐ महादोर्दण्डताण्डवाय नमः । ७७ ॐ परिभ्रमणताण्डवायै नमः । ॐ परिभ्रमणताण्डवाय नमः । ७८ ॐ उद्दण्डताण्डवायै नमः । ॐ उद्दण्डताण्डवाय नमः । ७९ ॐ भ्रमरायितताण्डवायै नमः । ॐ भ्रमरायितताण्डवाय नमः । ८० ॐ शक्तिताण्डवायै नमः । ॐ शक्तिताण्डवाय नमः । ८१ ॐ निशानिश्चलताण्डवायै नमः । ॐ निशानिश्चलताण्डवाय नमः । ८२ ॐ अपसव्यताण्डवायै नमः । ॐ अपसव्यताण्डवाय नमः । ८३ ॐ ऊर्जितताण्डवायै नमः । ॐ ऊर्जितताण्डवाय नमः । ८४ ॐ कराब्जधृतकालाग्निताण्डवायै नमः । ॐ कराब्जधृतकालाग्निताण्डवाय नमः । ८५ ॐ कृत्यपञ्चकताण्डवायै नमः । ॐ कृत्यपञ्चकताण्डवाय नमः । ८६ ॐ पतञ्जलिसुसन्दृष्टताण्डवायै नमः । ॐ पतञ्जलिसुसन्दृष्टताण्डवाय नमः । ८७ ॐ कङ्कालताण्डवायै नमः । ॐ कङ्कालताण्डवाय नमः । ८८ ॐ ऊर्ध्वताण्डवायै नमः । ॐ ऊर्ध्वताण्डवाय नमः । ८९ ॐ प्रदोषताण्डवायै नमः । ॐ प्रदोषताण्डवाय नमः । ९० ॐ मृत्युमथनताण्डवायै नमः । ॐ मृत्युमथनताण्डवाय नमः । ९१ ॐ वृषश‍ृङ्गाग्रताण्डवायै नमः । ॐ वृषश‍ृङ्गाग्रताण्डवाय नमः । ९२ ॐ बिन्दुमध्यताण्डवायै नमः । ॐ बिन्दुमध्यताण्डवाय नमः । ९३ ॐ कलारूपताण्डवायै नमः । ॐ कलारूपताण्डवाय नमः । ९४ ॐ विनोदताण्डवायै नमः । ॐ विनोदताण्डवाय नमः । ९५ ॐ प्रौढताण्डवायै नमः । ॐ प्रौढताण्डवाय नमः । ९६ ॐ भिक्षाटनताण्डवायै नमः । ॐ भिक्षाटनताण्डवाय नमः । ९७ ॐ विराड्रूपताण्डवायै नमः । ॐ विराड्रूपताण्डवाय नमः । ९८ ॐ भुजङ्गत्रासताण्डवायै नमः । ॐ भुजङ्गत्रासताण्डवाय नमः । ९९ ॐ तत्त्वताण्डवायै नमः । ॐ तत्त्वताण्डवाय नमः । १०० ॐ मुनिताण्डवायै नमः । ॐ मुनिताण्डवाय नमः । १०१ ॐ कल्याणताण्डवायै नमः । ॐ कल्याणताण्डवाय नमः । १०२ ॐ मनोज्ञताण्डवायै नमः । ॐ मनोज्ञताण्डवाय नमः । १०३ ॐ आर्भटीताण्डवायै नमः । ॐ आर्भटीताण्डवाय नमः । १०४ ॐ भुजङ्गललितताण्डवायै नमः । ॐ भुजङ्गललितताण्डवाय नमः । १०५ ॐ कालकूटभक्षणताण्डवायै नमः । ॐ कालकूटभक्षणताण्डवाय नमः । १०६ ॐ पञ्चाक्षरमहामन्त्रताण्डवायै नमः । ॐ पञ्चाक्षरमहामन्त्रताण्डवायै नमः । १०७ ॐ परमानन्दताण्डवायै नमः । ॐ परमानन्दताण्डवाय नमः । १०८ ॐ भवस्य देवस्य पत्न्यै नमः । ॐ भवाय देवाय नमः । १०९ ॐ शर्वस्य देवस्य पत्न्यै नमः । ॐ शर्वाय देवाय नमः । ११० ॐ पशुपतेर्देवस्य पत्न्यै नमः । ॐ पशुपतये देवाय नमः । १११ ॐ रुद्रस्य देवस्य पत्न्यै नमः । ॐ रुद्राय देवाय नमः । ११२ ॐ उग्रस्य देवस्य पत्न्यै नमः । ॐ उग्राय देवाय नमः । ११३ ॐ भीमस्य देवस्य पत्न्यै नमः । ॐ भीमाय देवाय नमः । ११४ ॐ महतो देवस्य पत्न्यै नमः । ॐ महते देवाय नमः । ११५ ॥ इति श्रीताण्डवेश्वरीताण्डवेश्वरसम्मेलनाष्टोत्तरशतनामावलिः समाप्ता ॥ ॥ इति शिवम् ॥ इत्येवं कथितं विप्राः ताण्डवाष्टोत्तरं शतम् । पदान्ते ताण्डवं योज्यं स्त्रीपुल्लिङ्गक्रमेणतु ॥ सुगन्धैः कुसुमैर्बिल्वपत्रैर्द्रोणार्कचम्पकैः । सम्पूज्य श्रीशिवं देवीं नित्यं कालत्रयेष्वपि ॥ एककालं द्विकालं वा त्रिपक्षं वा सर्वपापनिवारकम् । सर्वान्कामानवाप्नोति सर्वपापैः प्रमुच्यते । ॥ इति उत्तरपीठिका ॥ ॥ इति श्रीचिदम्बररहस्ये महेतिहासे प्रथमांशे श्रीताण्डवेश्वरीताण्डवेश्वरसम्मेलनाष्टोत्तरशतनाम स्तोत्रन्नाम चतुर्विंशोऽध्यायः ॥ ॥ ॐ नटराजायविद्महे ताण्डवेश्वराय धीमहि तन्नो चिदम्बरः प्रचोदयात् ॥