अक्षर आकार:

सुवर्णमालास्तुती

suvarNamAlAstutiH

सुवर्णमालास्तुती

अथ कथमपि मद्रसनां त्वद्गुणलेशैर्विशोधयामि विभो । साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम् ॥ १ आखण्डलमदखण्डनपण्डित तण्डुप्रिय चण्डीश विभो । साम्ब० ॥ २ इभचर्माम्बर शम्बररिपुवपुरपहरणोज्ज्वलनयन विभो । साम्ब० ॥ ३ ईश गिरीश नरेश परेश महेश बिलेशय भूषण भो । साम्ब० ॥ ४ उमया दिव्यसुमङ्गलविग्रहयालिङ्गितवामाङ्ग विभो । साम्ब० ॥ ५ ऊरीकुरु मामज्ञमनाथं दूरीकुरु मे दुरितं भो । साम्ब० ॥ ६ ऋषिवरमानसहंस चराचरजननस्थितिलयकारण भो । साम्ब० ॥ ७ ॠक्षाधीशकिरीट महोक्षारूढ विधृतरुद्राक्ष विभो । साम्ब० ॥ ८ लृवर्णद्वन्द्वमवृंतसुकुसुममिवाङ्घ्रौ तवार्पयामि विभो । साम्ब० ॥ ९ एकं सदिति श्रुत्या त्वमेव सदसीत्युपास्महे मृड भो । साम्ब० ॥ १० ऐक्यं निजभक्त्येभ्यो वितरसि विश्वंभरोऽत्र साक्षी भो । साम्ब० ॥ ११ ओमिति तव निर्देष्ट्री मायाऽस्माकं मृडोपकर्त्री भो । साम्ब० ॥ १२ औदास्यं स्फुटयति विषयेषु दिगम्बरता च तवैव विभो । साम्ब० ॥ १३ अन्तःकरणविशुद्धिं भक्तिं च त्वयि सतीं प्रदेहि विभो । साम्ब० ॥ १४ अस्तोपाधिसमस्तव्यस्तै रूपैर्जगन्मयोऽसि विभो । साम्ब० ॥ १५ करुणावरुणालय मयि दास उदासस्तवोचितो न हि भो । साम्ब० ॥ १६ खलसहवासं विघटय सतामेव सङ्गमनिशं भो । साम्ब० ॥ १७ गरलं जगदुपकृतये गिलितं भवता समोऽस्ति कोऽत्र विभो । साम्ब० ॥ १८ घनसारगौरगात्र प्रचुरजटाजूटबद्धगङ्ग विभो । साम्ब० ॥ १९ ज्ञप्तिः सर्वशरीरेष्वखण्डिता या विभाति सात्वं भो । साम्ब० ॥ २० चपलं मम हृदयकपिं विषयद्रुचरं दृढं बधान विभो । साम्ब० ॥ २१ छाया स्थाणोरपि तव पापं नमतां हरत्यहो शिव भो । साम्ब० ॥ २२ जय कैलासनिवास प्रमथगणाधीश भूसुरार्चित भो । साम्ब० ॥ २३ झणुतकझिङ्किणुझणुतत्किटतकशब्दैर्नटसि महानट भो । साम्ब० ॥ २४ ज्ञानं विक्षेपावृतिरहितं कुरु मे गुरूस्त्वमेव विभो । साम्ब० ॥ २५ टङ्कारस्तव धनुषो दलयति हृदयं द्विपामशनिरिव भो । साम्ब० ॥ २६ ठाकृतिरिव तव माया बहिरन्तः शून्यरूपिणी खलु भो । साम्ब० ॥ २७ डम्बरमम्बुरुहामपि दलयत्यनघं त्वदङ्घ्रियुगलं भो । साम्ब० ॥ २८ ढक्काक्षसूत्रशूलद्रुहिणकरोटीसमुल्लसत्कर भो । साम्ब० ॥ २९ णाकारगर्भिणी चेच्छभदा ते शरणगतिर्नृणामिह भो । साम्ब० ॥ ३० तव मन्वतिसञ्जपतः सद्यस्तरति नरो हि भवाब्धिं भो । साम्ब० ॥ ३१ थूत्कारस्तस्य मुखे भूयात्ते नाम नास्ति यस्य विभो । साम्ब० ॥ ३२ दयनीयश्च दयालुः कोऽस्ति मदन्यस्त्वदन्य इह वद भो । साम्ब० ॥ ३३ धर्मस्थापनदक्ष त्र्यक्ष गुरो दक्षयज्ञशिक्षक भो । साम्ब० ॥ ३४ ननुताडितोऽसि धनुषा लुब्धधिया त्वं पुरा नरेण विभो । साम्ब० ॥ ३५ परिमातुं तव मूर्तिं नालमजस्तत्परात्परोऽसि विभो । साम्ब० ॥ ३६ फलमिह नृतया जनुषस्त्वत्पदसेवा सनातनेश विभो । साम्ब० ॥ ३७ बलमारोग्यं चायुस्त्वद्गुणरुचितां चिरं प्रदेहि विभो । साम्ब० ॥ ३८ भगवन् भर्ग भयापह भूतपते भूतिभूषिताङ्ग विभो । साम्ब० ॥ ३९ महिमा तव नहि माति श्रुतिषु हिमानीधरात्मजाधव भो । साम्ब० ॥ ४० यमनियमादिभिरङ्गैर्यमिनो हृदये भजन्ति स त्वं भो । साम्ब० ॥ ४१ रज्जावहिरिव शुक्तौ रजतमिव त्वयि जगन्ति भान्ति विभो । साम्ब० ॥ ४२ लब्ध्वा भवत्प्रसादाच्चक्रं विधुरवति लोकमखिलं भो । साम्ब० ॥ ४३ वसुधातद्धरच्छयरथमौर्वीशरपराकृतासुर भो । साम्ब० ॥ ४४ शर्व देव सर्वोत्तम सर्वद दुर्वत्तगर्वहरण विभो । साम्ब० ॥ ४५ षड्रिपुषडूर्मिषड्विकारहर सन्मुख षण्मुखजनक विभो । साम्ब० ॥ ४६ सत्यं ज्ञानमनन्तं ब्रह्मेत्येतल्लक्षणलक्षित भो । साम्ब० ॥ ४७ हाहाहूहूमुखसुरगायकगीतापदानवद्य विभो । साम्ब० ॥ ४८ ळादिर्न हि प्रयोगस्तदन्तमिह मङ्गलं सदाऽस्तु विभो । साम्ब० ॥ ४९ क्षणमिव दिवसान्नेष्यति त्वत्पदसेवाक्षणोत्सुकः शिव भो । साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम् ॥ ५० ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीशङ्करभगवतः कृतौ सुवर्णमालास्तुतिः सम्पूर्णा ॥