अक्षर आकार:

श्रीकण्ठत्रिशतीनामावलिः

Shrikantha Trishati NamAvali 300 Names

श्रीकण्ठत्रिशतीनामावलिः

ऋषयः ऊचुः -- सूत सूत महाभाग सर्वशास्त्रविशारद । रहस्यं श्रोतुमिच्छामो लोकानां मोक्षदायकम् ॥ १॥ श्रीसूत उवाच -- श‍ृणुध्वं मुनयः सर्वे सावधानेन चेतसा । पुरा संप्रार्थिता गौरी कुमारेण महात्मना ॥ २॥ यद्रहस्यमुवाचैतत् पुत्रस्नेहेन संयुता । तदेवेदं महादेव्या नाम्नां त्रिशतमुत्तमम् ॥ ३॥ गुरोः प्रसादाद् व्यासस्य पुरा भक्त्या मया श्रुतम् । यथाश्रुतं प्रवक्ष्यामि सर्वलोकहिताय तत् ॥ ४॥ ध्यानम् - चन्द्रोपरिष्टात्सम्बद्ध पद्मासनविराजितम् । चन्द्रवर्णं स्रवद्दिव्यामृतचन्द्रकलाधरम् ॥ ५॥ योगमुद्राक्षसम्बद्धाधरहस्तद्वयान्वितम् । अमृतापूर्णकनककलशाप्तकरद्वयम् ॥ ६॥ सोमसूर्याग्निनेत्रं च बद्धपिङ्गजटाधरम् । नागाभरणसम्भूषं नागयज्ञोपवीतिनम् ॥ ७॥ व्याघ्रचर्माम्बरधरं देवं भक्तानुकम्पिनम् । भस्मानुलेपितं रुद्रं मृत्युञ्जयमिमं नुमः ॥ ८॥ अथ नामावलिः । श्री श्री श्रीकण्ठाय नमः । महादेवाय । वृषकेतवे । महेश्वराय । मृत्युञ्जयाय । चन्द्रचूडाय । पार्वतीशाय । कपालभृते । अष्टमूर्तये । अनेकात्मने । त्रिणेत्राय । प्रमथाधिपाय । शिवाय । रुद्राय । विषधराय । मृडाय । शम्भवे । जटाधराय । भस्मोद्धूलितसर्वाङ्गाय । नागाभरण भूषिताय नमः । २० व्याघ्रचर्माम्बरधराय नमः । व्यालयज्ञोपवीतवते । रुद्राक्षमालाभरणाय । त्रिपुण्डाङ्कितमस्तकाय । शुद्धस्फटिकसङ्काशाय । केतकीशापदायकाय । गङ्गाधराय । वृषारूढाय । शूलपाणये । शिवाप्रियाय । पञ्चवक्त्राय । दशभुजाय । सच्चिदानन्दविग्रहाय । मदनारये । कालकालाय । दक्षाध्वरहराय । अव्ययाय । सद्योजाताय । वामदेवाय । गिरिशाय नमः । ४० नीललोहिताय नमः । अघोरमूर्तये । ईशानाय । उग्राय । तत्पुरुषाय । हराय । दिगम्बराय । रामपूज्याय । व्योमकेशाय । नटेश्वराय । जलन्धरारये । अव्यक्ताय । त्रिपुरारये । गणेश्वराय । पिनाकिने । मेरुकोदण्डाय । कपर्दिने । गजचर्मवते । कुमारजनकाय । भर्गाय नमः । ६० भूरथाय नमः । भक्तवत्सलाय । कल्याणसुन्दराय । शर्वाय । भवाय । भीमाय । भयापहाय । विष्णुचक्रप्रदात्रे । दारुकारण्य संश्रिताय । अन्धकारये । विरूपाक्षाय । कङ्कालाय । विष्णुवल्लभाय । ऊध्वरेतसे । गजारातये । वेदाश्वाय । ब्रह्मसारथये । शूराय । पशुपतये । स्थाणवे नमः । ८० सूर्यचन्द्राग्निलोचनाय नमः । कैलासवासिने । भीमेशाय । दक्षिणामूर्तये । ईश्वराय । विघ्नेशवरदाय । श्रीमते । शाश्वताय । तारकेश्वराय । गणेशताताय । शान्तात्मने । निर्मलाय । निरुपद्रवाय । निरामयाय । निरालम्बाय । निर्ममाय । नित्यवैभवाय । निर्गुणाय । निष्कलाय । नित्याय नमः । १०० निर्वैराय नमः । नीतिपारगाय । निरञ्जनाय । नित्यशुद्धाय । निस्सङ्गाय । निर्मलात्मकाय । विश्वेश्वराय । वीरभद्राय । भैरवाय । भाग्यदायकाय । भूतेश्वराय । महाकालाय । चण्डिकेशवरप्रदाय । अनन्तगुणगम्भीराय । मार्कण्डेयवरप्रदाय । संहारकृते । महायोगिने । वज्रदेहाय । दुर्जयाय । निराकाराय नमः । १२० नित्यतुष्टाय नमः । निष्कामाय । नागकुण्डलाय । निष्पापाय । नागवलयाय । कार्यत्रयविधायकाय । ऊर्ध्वकेशाय । चारुहासाय । विष्णुब्रह्मेन्द्रवन्दिताय । नागेन्द्रहाराय । फालाक्षाय । वरदाय । विश्वरूपधृते । विश्वरक्षाय । परब्रह्मणे । शिपिविष्टाय । चिरन्तनाय । पूज्याय । ब्रह्मशिरश्छेत्रे । मन्दराद्रिस्थिताय नमः । १४० प्रभवे नमः । निगमागमसंवेद्याय । त्रिगुणात्मने । त्रयीतनवे । अर्धनारये । हरिहराय । महालिङ्गोद्भवाय । महते । वासुकीज्याय । शिवतराय । शरभाय । अनन्तरूपधृते । कृत्तिवाससे । बाणपूज्याय । मृगधारिणे । सनातनाय । अनाहताब्जपीठस्थाय । श्रेष्ठाय । कलिविनाशनाय । नववीरपित्रे नमः । १६० शुद्धाय नमः । भगवते । बन्धमोचकाय । सतीकान्ताय । जगत्पूज्याय । हरिकेशाय । शुभप्रदाय । कालाग्निरुद्राय । विश्वात्मने । नन्दीशाय । भगनेत्रहृते । त्र्यम्बकाय । खण्डपरशवे । शङ्कराय । भूतवाहनाय । सामप्रियाय । स्वरमयाय । कठोराय । पापनाशनाय । हिरण्यरेतसे नमः । १८० दुर्धर्षाय नमः । जगद्वयापिने । सदाशिवाय । नीलकण्ठाय । विषहराय । सहस्राक्षाय । सहस्रपदे । सहस्रशीर्षाय । पुरुषाय । तारकाय । परमेश्वराय । ओङ्काररूपाय । सर्वज्ञाय । धूर्जटये । पूषदन्तभिदे । चैतन्यरूपाय । धर्मात्मने । जगदाधारमूर्तिमते । कुबेरमित्राय । चिद्रूपाय नमः । २०० चिन्मयाय नमः । जगदीश्वराय । सत्यव्रताय । सत्यशीलाय । सत्यात्मने । विश्वतोमुखाय । पृथ्वीरूपाय । तोयरूपाय । तेजोरूपाय । अनिलात्मकाय । नभोरूपाय । सूर्यरूपाय । चन्द्ररूपाय । महाबलाय । ब्रह्मण्याय । यजमानात्मने । रुण्डमालाविभूषिताय । अणोरणुतराय । सूक्ष्माय । स्थूलाय नमः । २२० स्थूलतराय नमः । शुचये । किरातरूपाय । भिक्षाटाय । कुण्डोदरवरप्रदाय । हालास्यनाथाय । गिरीशाय । महात्मने । माधवप्रियाय । यज्ञप्रियाय । यज्ञरूपाय । परस्मैज्योतिषे । परात्पराय । भवरोगहराय । धीराय । तेजस्विने । मोहिनीप्रियाय । कृशानुरेतसे । धर्मज्ञाय । मुनिवन्द्याय नमः । २४० स्तुतिप्रियाय नमः । कामेश्वराय । विराड्रूपाय । कामरूपाय । कलानिधये । सभापतये । नादरूपाय । दहराकाशगाय । परस्मै । भृङ्गिनाट्यप्रियाय । देवाय । भस्मासुरवरप्रदाय । अहिर्बुध्न्याय । भटाक्षीराय । सोमास्कन्दाय । जयिने । विभवे । चण्डकोपिने । जगद्रक्षाय । निषङ्गिणे नमः ॥ २६० क्षेत्रपालकाय नमः । खट्वाङ्गिने । शास्तृजनकाय । साम्बमूर्तये । दृगायुधाय । चराचरात्मकाय । कालनियन्त्रे । अजाय । वृषाकपये । अनादिनिधनाय । दान्ताय । विधात्रे । लिङ्गरूपभृते । द्योटिकाय । प्रणवान्तःस्थाय । पार्थपाशुपतास्त्रदाय । अपस्मारशिरोनृत्यते । विष्णुनेत्राब्जपूजिताय । कवचिने । पुष्पवच्चक्षुषे नमः । २८० विष्णुबाणाय नमः । अजैकपदे । रेरिहाणाय । टङ्कधराय । पञ्चविंशतिरूपवते । शतरुद्रस्वरूपाढ्याय । श्मशानस्थाय । अस्थिभूषणाय । नादबिन्दुकलातीताय । नामतारकमन्त्रदाय । एकादशात्मने । लोकेशाय । भूतभव्यभवत्प्रभवे । पञ्चब्रह्मस्वरूपाय । घण्टाकर्णप्रपूजिताय । राजराजेन्द्रवरदाय । वेदात्मने । बिल्वकेश्वराय । कृष्णपुत्रप्रदात्रे । करुणारससागराय नमः । ३०० नमो नीलकण्ठाय नमः । इति ब्रह्माण्डपुराणान्तर्गता श्रीकण्ठत्रिशतीनामावलिः समाप्ता ।