अक्षर आकार:

श्रीबटुकभैरवापराधक्षमापनस्तोत्रम्

Shri Batukabhairava Aparadha Kshamapana Stotram

श्रीबटुकभैरवापराधक्षमापनस्तोत्रम्

ॐ गुरोः सेवां त्यक्त्वा गुरुवचनशक्तोपि न भवे भवत्पूजाध्यानाज्जपहवनयागाद्विरहितः । त्वदर्च्चानिर्माणे क्वचिदपि न यत्नं व कृतवा- ञ्जगज्जालग्रसतो झटिति कुरु हार्द्दं मयि विभो ॥ १॥ प्रभो दुर्गासूनो तव शरणतां सोऽधिगतवान्- कृपालो दुःखार्तः कमपि भवदन्यं प्रकथये । सुहृत्सम्पत्तेऽहं सरलविरलः साधकजन- स्त्वदन्यः कस्त्राता भवदहनदाहं शमयति ॥ २॥ वदान्यो मान्यस्त्वं विविधजनपालो भवसि वै दयालुर्दीनार्तान् भवजलधिपारं गमयसि । अतस्त्वत्तो याचे नतिनियमतोऽकिञ्चनधनः सदा भूयाद्भावः पदनलिनयोस्ते तिमिरहा ॥ ३॥ अजापूर्वो विप्रो मिलपदपरो योऽतिपतितो महामूर्खो दुष्टो वृजननिरतः पामरनृपः । असत्पानासक्तो यवनयुवतीव्रातरमणः प्रभावात्त्वन्नाम्नः परमपदवीं सोऽप्यधिगतः ॥ ४॥ दयां दीर्घां दीने बटुक कुरु विश्वम्भर मयि न चान्यस्सन्त्राता परमशिव मां पालय विभो । महाश्चर्यं प्राप्तस्तव सरलदृष्ट्या विरहितः कृपापूर्णैर्नेत्रैः कजदलनिमैर्माखचयतात् ॥ ५॥ सहस्ये किं हंसो नहि तपति दीनं जनचयङ्- घनान्ते किं चन्द्रोऽसमकरनिपातो भुवितले । कृपादृष्टेस्तेहं भयहर विभो किं विरहितो जले वा हर्म्ये वा घनरसमुयातो न विषमः ॥ ६॥ घनरसनिपातो त्रिमूर्तिस्त्वं गीतो हरिहरविधातात्मकगुणो निराकारः शुद्धः परतरपरः सोऽप्यविषयः । दयारूपं शान्तं मुनिगणनुतं भक्तदयितं कदा पश्यामि त्वां कुटिलकचशोभित्रिनयनम् ॥ ७॥ तपोयोगं सांख्यं यमनियमचेतः प्रयजनं न कौलार्च्चाचक्रं हरिहरविधीनां प्रियतमम् । प्रियतरम् न जाने ते भक्तिं परममुनिमार्गं मधुविधिं तथाप्येषा वाणी परिरटति नित्यं तव यशः ॥ ८॥ न मे कांक्षा धर्मे न वसुनिचये राज्यनिवहे न मे स्त्रीणां भोगे सखिसुतकुटुम्बेषु न च मे । यदा यद्यद्भाव्यं भवतु भगवन् पूर्वसुकृतान् ममैतत्तु प्रार्थ्यं तव विमलभक्तिः प्रभवतात् ॥ ९॥ कियाँस्तेस्मद्भारः पतितपतिताँस्तारयसि भो ! मदन्यः कः पापी यजनविमुखः पाठरहितः । दृढो मे विश्वासस्तव नियतिरुद्धारविषया सदा स्याद् विश्रम्भः क्वचिदपि मृषा मा च भवतात् ॥ १०॥ भवद्भावाद्भिन्नो व्यसननिरतः को मदपरो मदान्धः पापात्मा बटुक ! शिव ! ते नामरहितः । उदारात्मन्बन्धो नहि तवकतुल्यः कलुषहा पुनस्सञ्चिन्त्यैवं कुरु हृदि यथाचेच्छसि तथा ॥ ११॥ जपान्ते स्नानान्ते ह्युषसि च निशीथे पठति यो var जपति महासौख्यं देवो वितरति नु तस्मै प्रमुदितः । अहोरात्रं पार्श्वे परिवसति भक्तानुगमनो वयोन्ते संहृष्टः परिनयति भक्तान् स्वभुवनम् ॥ १२॥ इति श्रीसिद्धयोगीश्वरश्रीघनैयालालशिषेणात्मारामेण विरचितं बटुकभैरवप्रार्थनापराधक्षमापन स्तोत्र ॥