अक्षर आकार:

शोणाचलशिवनामावलिः

shoNAchalashivanAmAvaliH

शोणाचलशिवनामावलिः

ॐ शोणाद्रीशाय नमः । ॐ अरुणाद्रीशाय नमः । ॐ देवाधीशाय नमः । ॐ जनप्रियाय नमः । ॐ प्रपन्नरक्षकाय नमः । ॐ धीराय नमः । ॐ शिवाय नमः । ॐ सेवकवर्धकाय नमः । ॐ अक्षिपेयामृताय नमः । ॐ ईशानाय नमः । ॐ स्त्रीपुंभावप्रदायकाय नमः । ॐ भक्तविज्ञप्तिसन्धात्रे नमः । ॐ दीनबन्दिविमोचकाय नमः । ॐ मुखराङ्घ्रिपतये नमः । ॐ श्रीमते नमः । ॐ मृडाय नमः । ॐ मृगमदेश्वराय नमः । ॐ भक्तप्रेक्षणकृतिने नमः । ॐ साक्षिणे नमः । ॐ भक्तदोषनिवर्तकाय नमः । ॐ ज्ञानसम्बन्धनाथाय नमः । ॐ श्रीहालहलसुन्दराय नमः । ॐ आहवैश्वर्यदात्रे नमः । ॐ स्मर्तृसर्वाघनाशनाय नमः । ॐ व्यत्यस्तनृत्याय नमः । ॐ ध्वजधारकाय नमः । ॐ सकान्तिने नमः । ॐ नटनेश्वराय नमः । ॐ सामप्रियाय नमः । ॐ कलिध्वंसिने नमः । ॐ वेदमूर्तये नमः । ॐ निरञ्जनाय नमः । ॐ जगन्नाथाय नमः । ॐ महादेवाय नमः । ॐ त्रिनेत्राय नमः । ॐ त्रिपुरान्तकाय नमः । ॐ भक्तापराधसोढ्रे नमः । ॐ योगीशाय नमः । ॐ भोगनायकाय नमः । ॐ बालमूर्तये नमः । ॐ क्षमारूपिणे नमः । ॐ धर्मरक्षकाय नमः । ॐ वृषध्वजाय नमः । ॐ हराय नमः । ॐ गिरीश्वराय नमः । ॐ भर्गाय नमः । ॐ चन्द्ररेखावतंसकाय नमः । ॐ स्मरान्तकाय नमः । ॐ अन्धकरिपवे नमः । ॐ सिद्धराजाय नमः । ॐ दिगम्बराय नमः । ॐ आगमप्रियाय नमः । ॐ ईशानाय नमः । ॐ भस्मरुद्राक्षलाञ्छनाय नमः । ॐ श्रीपतये नमः । ॐ शङ्कराय नमः । ॐ स्रष्ट्रे नमः । ॐ सर्वविद्येश्वराय नमः । ॐ अनघाय नमः । ॐ गङ्गाधराय नमः । ॐ क्रतुध्वंसिने नमः । ॐ विमलाय नमः । ॐ नागभूषणाय नमः । ॐ अरुणाय नमः । ॐ बहुरूपाय नमः । ॐ विरूपाक्षाय नमः । ॐ अक्षराकृतये नमः । ॐ अनादिरन्तरहिताय नमः । ॐ शिवकामाय नमः । ॐ स्वयम्प्रभवे नमः । ॐ सच्चिदानन्दरूपाय नमः । ॐ सर्वात्मने नमः । ॐ जीवधारकाय नमः । ॐ स्त्रीसङ्गवामसुभगाय नमः । ॐ विधये नमः । ॐ विहितसुन्दराय नमः । ॐ ज्ञानप्रदाय नमः । ॐ मुक्तिदाय नमः । ॐ भक्तवाञ्छितदायकाय नमः । ॐ आश्चर्यवैभवाय नमः । ॐ कामिने नमः । ॐ निरवद्याय नमः । ॐ निधिप्रदाय नमः । ॐ शूलिने नमः । ॐ पशुपतये नमः । ॐ शम्भवे नमः । ॐ स्वयम्भुवे नमः । ॐ गिरिशाय नमः ॥ ८८ ॥ इति श्रीस्कान्दे महापुराणे प्रथमे माहेश्वरखण्डे तृतीयमरुणाचलमाहात्म्यं तत्र पूर्वार्धः प्रारभ्यते नवमोऽध्यायान्तर्गता शोणाचलशिवस्यनामाआवली समाप्ता । The stotra had 88 names.