अक्षर आकार:

श्रीशिवविभक्तिस्तोत्रम्

Shri Shivavibhakti Stotram

श्रीशिवविभक्तिस्तोत्रम्

(स्रग्विणी) अव्ययः स्वस्तिदः शङ्करः पातु मां ईश्वरस्त्र्यम्बकः सिद्धिदः पातु माम् । ऊर्ध्वरेताः शिवो धूर्जटिः पातु मां भास्वरो भैरवो मुक्तिदः पातु माम् ॥ १॥ अष्टमूर्ति शिवं विश्वनाथं हरं भूतनाथं भवं वैद्यनाथं मृडम् । दक्ष-जामातरं यज्ञविध्वंसकं भालनेत्रं सदा सादरं नौम्यहम् ॥ २॥ योगिना निर्मितं विश्वमेतत् पुरा शम्भुना रक्षितं विश्वमेतत् सदा । शूलिना नाशिता आपदः प्राणिनां सौख्यदं तं शिवं प्राञ्जलिः स्तौम्यहम् ॥ ३॥ शम्भवे स्थाणवे भिक्षवे योगिने शूलिने धन्विने दैत्यहन्त्रे नमः । विश्वकर्त्रे नमो विश्वधर्त्रे नमो विश्वसंहारिणे भक्तपात्रे नमः ॥ ४॥ वह्रिनेत्रात्तथा सर्वभूतात्मनो नीलकण्ठात्तथा शैलजावल्लभात् । वामदेवात्तथा दक्षयज्ञान्तकाद् व्योमकेशात्परं दैवतं नापरम् ॥ ५॥ यज्ञसंहारिणः शूलिनः श‍ृङ्गिणो जाह्नवीधारिणो धन्विनो धूर्जटेः । अष्टमूर्तेस्तथा भानुकोटिद्युतेः पादपद्मं सदा ध्यायते योगिभिः ॥ ६॥ ईश्वरे शङ्करे पार्वतीवल्लभे त्र्यम्बके धूर्जटौ सर्वभूताधिपे । चन्द्रचूडे तथा व्याघ्रचर्मावृते विश्वनाथे मनः सर्वदा लीयताम् ॥ ७॥ शूलपाणे विभो विश्वनाथ प्रभो भस्ममन्दाकिनीभूषिताङ्ग प्रभो । अष्टमूर्ते विभो मुण्डमाल प्रभो चन्द्रमौले विभो धुर्जटे पाहि माम् ॥ ८॥ विभक्तिरूपस्य सदाशिवस्य स्तोत्रं सुरम्यं मनुजः पठित्वा । अनन्यचित्तेन प्रतिप्रभातं कल्याणमाप्नोतु शिवप्रसादात् ॥ ९॥ इति श्री आपटीकरविरचितं श्रीशिवविभक्तिस्तोत्रं सम्पूर्णम् ।