अक्षर आकार:

शिवताण्डवस्तुतिः

shivatANDavastutiH

शिवताण्डवस्तुतिः

श्रीगणेशाय नमः ॥ देवा दिक्पतयः प्रयात परतः खं मुञ्चताम्भोमुचः पातालं व्रज मेदिनि प्रविशत क्षोणीतलं भूधराः । ब्रह्मनुन्नय दूरमात्मभुवनं नाथस्य नो नृत्यतः शम्भोः सङ्कटमेतदित्यवतु वः प्रोत्सारणा नन्दिनः ॥ १॥ दोर्दण्डद्वयलीलयाऽचलगिरिभ्राम्यत्तदुच्चैरव- ध्वानोद्भीतजगद्भ्रमत्पदभरालोलत्फणाग्र्योरगम् । भृङ्गापिङ्गजटाटवीपरिसरोद्गङ्गोर्मिमालाचलच्चन्द्रं चारु महेश्वरस्य भवतां निःश्रेयसे मङ्गलम् ॥ २॥ सन्ध्याताण्डवडम्बरव्यसनिनो भर्गस्य चण्डभ्रमि- व्यानृत्यद्भुजदण्डमण्डलभुवो झञ्झानिलाः पान्तु वः । येषामुच्छलतां जवेन झगिति व्यूहेषु भूमीभृता- मुड्डीनेषु बिडौजसा पुनरसौ दम्भोलिरालोकितः ॥ ३॥ शर्वाणीपाणितालैश्चलवलयझणत्कारिभिः श्लाध्यमानं स्थाने सम्भाव्यमानं पुलकितवपुषा शम्भुना प्रेक्षकेण । खेलत्पिच्छालिकेकाकलकलकलितं कौञ्चभिद्बर्हियूना हेरम्बाकाण्डबृंहातरलितमनसस्ताण्डवं त्वा धिनोतु ॥ ४॥ देवस्त्रैगुण्यभेदात्सृजति वितनुते संहरत्येष लोकानस्यैव व्यापिनीभिस्तनुभिरपि जगद्व्याप्तमष्टाभिरेव । वन्द्यो नास्येति पश्यन्निव चरणगतः पातु पुष्पाञ्जलिर्वः शम्भोर्नृत्यावतारे वलयमणिफणाफूत्कृतैर्विप्रकीर्णः ॥ ५॥ इति शिवताण्डवस्तुतिः समाप्ता ।