अक्षर आकार:

श्रीशिवसुवर्णमालास्तवः

shrIshivasuvarNamAlAstavaH

श्रीशिवसुवर्णमालास्तवः

श्रीगणेशाय नमः ॥ अनेककोटिब्रह्माण्डजननीनायकप्रभो । अनेकप्रमुखस्कन्दपरिसेवित पाहि माम् ॥ १॥ आकारापारनिर्व्याजकरुणायाः सतीपते । आशाभिपूरकानम्रविततेः पाहि शङ्कर ॥ २॥ इभाश्वमुखसम्पत्तिदानदक्षकृपालव । इष्टप्रालेयशैलेन्द्रपुत्र्याः पाहि गिरीश माम् ॥ ३॥ ईहाशून्यजनावाप्य नतानन्दाब्धिचन्द्रमः । ईशान सर्वविद्यानामिन्दुचूड सदाऽव माम् ॥ ४॥ उरगाधिपसंराजत्पदपङ्केरुहद्वय । उडुराजकृतोत्तंस गिरिजासख मामव ॥ ५॥ ऊरीकृतविनम्रेष्टपूगसम्पूरणव्रत । अखिलामरकोटीरनिघृष्टपद पाहि माम् ॥ ६॥ ऋद्धिदाम्भोजवासायाः काममाशु नमत्ततेः । शैलेन्द्रतनयाऽऽश्लिष्ट शर्व मां पाहि सर्वदा ॥ ७॥ ऋस्वराख्येयरूपाय भूतिदायादराद्दुतम् । षण्मुखेभास्यपूज्याय नमश्चन्द्रार्धमौलये ॥ ८॥ लृकाराख्याय लक्ष्मीशद्रुहिणाद्यर्चिताङ्घ्रये । अपारकरुणाजन्मभूमये शम्भवे नमः ॥ ९॥ लॄस्वरूप ललाटाक्ष लाकिन्यादिनिषेवित । लावण्याकर कारुण्यवारिधे पाहिमां प्रभो ॥ १०॥ एणाङ्कचूड काणादशास्त्रप्रज्ञाप्रदायक । शोणाधर नमस्यामि त्वत्पादाम्बुरुहद्वयम् ॥ ११॥ ऐहिकामुष्मिके पुंसां सुलभे यत्पदार्चनात् । चन्द्रार्धविलसन्मौलिं नमामि तमुमापतिम् ॥ १२॥ ओमित्याख्यां यस्य वेदा वेदान्ताश्च जगुर्मुहुः । ओङ्कारजपतुष्टं तं नौमि चन्द्रार्धशेखरम् ॥ १३॥ औदासीन्यं समस्तेषु विषयेषु प्रकुर्वताम् । सुलभं जगदीशानं पार्वतीपतिमाश्रये ॥ १४॥ अङ्गशोभापराभूतकोटिराकानिशाकरम् । अन्तकान्तककामादिगर्वहारिणमाश्रये ॥ १५॥ अश्च उश्च मकारश्च यन्नामावयवाक्षराः । अशेषशुभदातारं तं नौमि शशिशेखरम् ॥ १६॥ कविता वृणुते रतीशतुल्यं पतिमास्थासहितेव मानिनी । तरसा पुरुषं यदङ्घ्रिनम्रं तमहं नौमि शशाङ्कबालचूडम् ॥ १७॥ खण्डेन चान्द्रेण किरीटगेन विराजमानं वृषभाधिरूढ । खवायुतेजोऽम्बुधरादिरूपं नमामि शैलेन्द्रसुतासमेतम् ॥ १८॥ गद्यानि पद्यानि च शीघ्रमेव मूकस्य वक्त्रादपि निःसरन्ति । यदीयकारुण्यलवात्तमीशं नमामि चन्द्रार्धकभासिमौलिम् ॥ १९॥ घटोद्भवाद्या मुनयो यदङ्घ्रिसमर्चनातो महतीं प्रपन्नाः । सिद्धिं तमानम्रजनेष्टदाननिबद्धदीक्षं प्रणमामि शम्भुम् ॥ २०॥ नकारवाच्याय नमज्जनौघविद्याप्रदानप्रवणाय शीघ्रम् । वटागमूलैकनिकेतनाय श्रीदक्षिणास्याय नमः शिवाय ॥ २१॥ चयेन भासां वपुषश्चकोरबन्धुं जयन्तं जितपुष्पचापम् । प्रालेयशैलेन्द्रसुतामनोऽब्जभानुं भजे कञ्चन देववर्यम् ॥ २२॥ छत्रं च वालव्यजने मनोज्ञे समुद्रकाञ्चीं पृथिवीं च लोकाः । जवाद्भजन्तेऽप्यतिकिम्पचाना यदङ्घिनम्रास्तमुमेशमीडे ॥ २३॥ जन्मस्वनेकेषु विधाय धर्मान्स्ववर्णयोग्यान्मनुजोऽतिभक्त्या । जिज्ञासते यत्पदमादरेण तं नौमि सच्चित्सुखरूपमीशम् ॥ २४॥ झरीं दधानं दिविषत्तटिन्या झटित्ययोग्यानपि भक्तिपूर्णान् । पुनानमर्धेन्दुलसत्किरीटं युवानमीशं कलयामि चित्ते ॥ २५॥ नकाररूपाय रवीन्दुवह्निनेत्राय नानाविधरूपधर्त्रे । लोकावनायातिमनोहराय शैलेन्द्रकन्यापतये नमोऽस्तु ॥ २६॥ टवर्णवाच्याय तडित्प्रभाय यमादियोगाङ्गविदर्चिताय । शमादिसम्पत्सहिताप्यपादपद्माय गौरीपतये नमोऽस्तु ॥ २७॥ ठपुक्त्रिवर्णप्रतिपादिताय हराय निःशेषविषाघहर्त्रे । श्रीनीलकण्ठाय यमिप्रवीरध्येयाय कुर्मः प्रणतिं प्रमोदात् ॥ २८॥ डामरप्रमुखदुःखसमूहध्वंसदक्षचरणस्मरणस्य । शैलजाहृदयपङ्कजभानोः शङ्करस्य चरणौ प्रणतोऽस्मि ॥ २९॥ ढक्काख्यवाद्यश्रवणोत्युकाय प्रौढाय कन्दर्पशरप्रभेदे । शिवाय चन्द्रार्धलसज्जटाय कुर्मः प्रमोदात्प्रणतेः सहस्रम् ॥ ३०॥ णान्तदादिहरिदुत्सुखमूर्ते नाकनाथपरिसेवितपाद । वासलोल वटवृक्षतले मां वाराणस्यामिव पाहि दयालो ॥ ३१॥ तप्ताः संसृतिवह्निना भुवि नराः सम्प्राप्य सद्देशिकं तस्यास्याच्छ्रुतिशीर्षवाक्यनिचयं श्रुत्वार्थयुक्तं मुहुः । युक्त्या श्रुत्यविरुद्धया तदनुसञ्चिन्त्यार्थमाद्योदितं ध्यात्वाऽजस्रमवाप्नुवन्ति यमहं तं नौमि गौरीपतिम् ॥ ३२॥ थायैयेति समस्तदेववनिता नृत्यं यदग्रेऽन्वहं कुर्वन्त्यम्बुजसम्भवप्रभृतयः स्तुन्वन्ति वेदैश्च यम् । इन्द्राणीशरमाधवादिमसुरा यस्यार्चनां कुर्वते कल्पागप्रभवैः सुमैस्तमनिशं नौम्यादिजावल्लभम् ॥ ३३॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः श्रीशिवसुवर्णमालास्तवः सम्पूर्णः ।