अक्षर आकार:

शुक्रकृता शिवस्तुतिः

shivastutiH by shukra

शुक्रकृता शिवस्तुतिः

शुक्र उवाच । नमोऽस्तुशितिकण्ठाय कनिष्ठाय सुवर्चसे । लेलिहानाय काव्याय वत्सरायान्धसः पते ॥ १॥ कपर्दिने करालाय हर्यक्ष्णे वरदाय च । संस्तुताय सुतीर्थाय देवदेवाय रंहसे ॥ २॥ उष्णीषिणे सुवक्त्राय बहुरूपाय वेधसे । वसुरेताय रुद्राय तपसे चित्रवाससे ॥ ३॥ ह्रस्वाय व्युप्तकेशाय सेनान्ये रोहिताय च । कवये राजवृक्षाय तक्षकक्रीडनाय च ॥ ४॥ सहस्रशिरसे चैव सहस्राक्षाय मीढुषे । वराय भव्यरूपाय श्वेताय पुरुषाय च ॥ ५॥ गिरशाय नमोऽर्काय बलिने आज्यपाय च । सुतृप्ताय सुवस्त्राय धन्विने भार्गवाय च ॥ ६॥ निषङ्गिणे च ताराय स्वक्षाय क्षपणाय च । ताम्राय चैव भीमाय उग्राय च शिवाय च ॥ ७॥ महादेवाय शर्वाय विश्वरूपशिवाय च । हिरण्याय वरिष्ठाय ज्येष्ठाय मध्यमाय च ॥ ८॥ वास्तोष्पते पिनाकाय मुक्तये केवलाय च । मृगव्याधाय दक्षाय स्थाणवे भाषणाय च ॥ ९॥ बहुनेत्राय धुर्य्याय त्रिनेत्रायेश्वराय च । कपालिने च वीराय मृत्यवे त्र्यम्बकाय च ॥ १०॥ बभ्रवे च पिशङ्गाय पिङ्गलायारुणाय च । पिनाकिने चेषुमते चित्राय रोहिताय च ॥ ११॥ दुन्दुभ्यायैकपादाय अजाय बुद्धिदाय च । आरण्याय गृहस्थाय यतये ब्रह्मचारिणे ॥ १२॥ साङ्ख्याय चैव योगाय व्यापिने दीक्षिताय च । अनाहताय शर्वाय भव्येशाय यमाय च ॥ १३॥ रोधसे चेकितानाय ब्रह्मिष्ठाय महर्षये । चतुष्पदाय मेध्याय रक्षिणे शीघ्रगाय च ॥ १४॥ शिखण्डिने करालाय दंष्ट्रिणे विश्ववेधसे । भास्वराय प्रतीताय सुदीप्ताय सुमेधसे ॥ १५॥ क्रूरायाविकृतायैव भीषणाय शिवाय च । सौम्याय चैव मुख्याय धार्मिकाय शुभायच ॥ १६॥ अवध्यायामृतायैव नित्याय शाश्वताय च । व्यापृताय विशिष्टाय भरताय च साक्षिणे ॥ १७॥ क्षेमाय सहमानाय सत्याय चामृताय च । कर्त्रे परशवे चैव शूलिने दिव्यचक्षुषे ॥ १८॥ सोमपायाऽऽज्यपायैव धूमपायोष्मपाय च । शुचये परिधानाय सद्योजाताय मृत्यवे ॥ १९॥ पिशिताशाय सर्वाय मेघाय विद्युताय च । व्यावृत्ताय वरिष्ठाय भरिताय तरक्षवे ॥ २०॥ त्रिपुरघ्नाय तीर्थायावक्राय रोमशाय च । तिग्मायुधाय व्याख्याय सुसिद्धाय पुलस्तये ॥ २१॥ रोचमानाय चण्डाय स्फीताय ऋषभायच । व्रतिने युङ्जमानाय शुचये चोर्ध्वरेतसे ॥ २२॥ असुरघ्नाय स्वाघ्नाय मृत्युघ्ने यज्ञियाय च । कृशानवे प्रचेताय वह्नये निर्मलाय च ॥ २३॥ रक्षोघ्नाय पशुघ्नायाविघ्नाय श्वसिताय च । विभ्रान्ताय महान्ताय अर्णवे दुर्गमाय च ॥ २४॥ कृष्णाय च जयन्ताय लोकानामीश्वराय च । अनाश्रिताय वेध्याय समत्वाधिष्ठितायच ॥ २५॥ हिरण्यबाहवे चैव व्याप्ताय च महाय च । सुकर्मणे प्रसह्याय चेशानाय सुचक्षुषे ॥ २६॥ क्षिप्रेषवे सदश्वाय शिवाय मोक्षदाय च । कपिलाय पिशङ्गाय महादेवाय धीमते ॥ २७॥ महाकायाय दीप्ताय रोदनाय सहाय च । दृढधन्विने कवचिने रथिने च वरूथिने ॥ २८॥ भृगुनाथाय शुक्राय गह्वरेष्ठाय वेधसे । अमोघाय प्रशान्ताय सुमेधाय वृषाय च ॥ २९॥ नमोऽस्तु तुभ्यं भगवन् विश्वाय कृत्तिवाससे । पशूनां पतये तुभ्यं भूतानां पतये नमः ॥ ३०॥ प्रणवे ऋग्यजुःसाम्ने स्वाहाय च स्वधाय च । वषट्कारात्मने चैव तुभ्यं मन्त्रात्मने नमः ॥ ३१॥ त्वष्ट्रे धात्रे तथा कर्त्रे चक्षुः श्रोत्रमयाय च । भूतभव्यभवेशाय तुभ्यं कर्मात्मने नमः ॥ ३२॥ वसवे चैव साध्याय रुद्रादित्यसुराय च । विषाय मारुतायैव तुभ्यं देवात्मने नमः ॥ ३३॥ अग्नीष्टोमविधिज्ञाय पशुमन्त्रौषधाय च । स्वयम्भुवे ह्यजायैव अपूर्वप्रथमाय च । प्रजानां पतये चैव तुभ्यं ब्रह्मात्मने नमः ॥ ३४॥ आत्मेशायात्मवश्याय सर्वेशातिशयाय च । सर्वभूताङ्गभूताय तुभ्यं भूतात्मने नमः ॥ ३५॥ निर्गुणाय गुणज्ञाय व्याकृतायामृताय च । निरुपाख्याय मित्राय तुभ्यं साङ्ख्यात्मने नमः ॥ ३६॥ पृथिव्यै चान्तरिक्षाय दिव्याय च महाय च । जनस्तपाय सत्याय तुभ्यं लोकात्मने नमः ॥ ३७॥ अव्यक्ताय च महते भूतादेरिन्द्रियाय च । आत्मज्ञाय विशेषाय तुभ्यं सर्वात्मने नमः ॥ ३८॥ नित्याय चात्मलिङ्गाय सूक्ष्मायैवेतराय च । बुद्ध्याय विभवे चैव तुभ्यं मोक्षात्मने नमः ॥ ३९॥ नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु । सत्यान्तेषु महाद्येषु चतुर्षु च नमोऽस्तु ते ॥ ४०॥ नमः स्तोत्रे मया ह्यस्मिन् यदि न व्याहृतं भवेत् । मद्भक्त इति ब्रह्मण्य तत्सर्वं क्षन्तुमर्हसि ॥ ४१॥ इति मत्स्यपुराणान्तर्गता शुक्रकृता शिवस्तुतिः समाप्ता । matsyapurANAntargataM adhyAya 47 sholkAH 128-168