अक्षर आकार:

श्रीशिवस्तुती नारायणपण्डितकृत

Shivastuti Narayanapanditakrita

श्रीशिवस्तुती नारायणपण्डितकृत

श्रीगणेशाय नमः । स्फुटं स्फटिकसप्रभं स्फटितहारकश्रीजटं शशाङ्कदलशेखरं कपिलफुल्लनेत्रत्रयम् । तरक्षुवरकृत्तिमद्भुजगभूषणं भूतिमत्- कदा नु शितिकण्ठ ते वपुरवेक्षते वीक्षणम् ॥ १॥ त्रिलोचन विलोचने लसति ते ललामायिते स्मरो नियमघस्मरो नियमिनामभूद्भस्मसात् । स्वभक्तिलतया वशीकृतवतीसतीयं सती स्वभक्तवशतो भवानपि वशी प्रसीद प्रभो ॥ २॥ महेश महितोऽसि तत्पुरुष पूरुषाग्र्यो भवान्- अघोररिपुघोर तेऽनवम वामदेवाञ्जलिः । नमः सपदि जात ते त्वमिति पञ्चरूपोचित- प्रपञ्चचयपञ्चवृन्मम मनस्तमस्ताडय ॥ ३॥ रसाघनरसानलानिलवियद्विवस्वद्विधु- प्रयष्टृषु निविष्टमित्यज भजामि मूर्त्यष्टकम् । प्रशान्तमुत भीषणं भुवनमोहनं चेत्यहो वपूंषि गुणपूषितेऽहमहमात्मनोऽहंभिदे ॥ ४॥ विमुक्तिपरमाध्वनां तव पडध्वनामास्पदं पदं निगमवेदिनो जगति वामदेवादयः । कथञ्चिदुपशिक्षिता भगवतैव संविद्रते वयं तु विरलान्तराः कथमुमेश तन्मन्महे ॥ ५॥ कठोरितकुठारया ललितशूलया वाहया रणड्डमरुणा स्फुरद्धरिणया सखट्वाङ्गया । चलाभिरचलाभिरप्यगणिताभिरुन्नृत्यतश्- चतुर्दश जगन्ति ते जयजयेत्ययुर्विस्मयम् ॥ ६॥ पुरा त्रिपुररन्धनं विविधदैत्यविध्वंसनं पराक्रमपरम्परा अपि परा न ते विस्मयः । अमर्षिबलहर्षितक्षुभितवृत्तनेत्रोज्ज्वलज्- ज्वलज्ज्वलनहेलया शलभितं हि लोकत्रयम् ॥ ७॥ सहस्रनयनो गुहः सहसहस्ररश्मिर्विधुर्- बृहस्पतिरुताप्पतिः ससुरसिद्धविद्याधराः । भवत्पदपरायणाः श्रियमिमां ययुः प्रार्थितां भवान् सुरतरुर्भृशं शिव शिवां शिवावल्लभ ॥ ८॥ तव प्रियतमादतिप्रियतमं सदैवान्तरं पयस्युपहितं भृतं स्वयमिव श्रियो वल्लभम् । विबुध्य लघुबुद्धयः स्वपरपक्षलक्ष्यायितं पठन्ति हि लुठन्ति ते शठहृदः शुचा शुण्ठिताः ॥ ९॥ निवासनिलयाचिता तव शिरस्ततिर्मालिका कपालमपि ते करे त्वमशिवोस्यनन्तर्धियाम् । तथापि भवतः पदं शिवशिवेत्यदो जल्पतां अकिञ्चन न किञ्चन वृजिनमस्ति भस्मीभवेत् ॥ १०॥ त्वमेव किल कामधुक् सकलकाममापूरयन् सदा त्रिनयनो भवान्वहति चार्चिनेत्रोद्भवम् । विषं विषधरान्दधत्पिबसि तेन चानन्दवान् विरुद्धचरितोचिता जगदधीश ते भिक्षुता ॥ ११॥ नमः शिवशिवाशिवाशिवशिवार्थं कृन्ताशिवं नमो हरहराहराहरहरान्तरीं मे दृशम् । नमो भवभवाभवप्रभवभूतये मे भवान् नमो मृड नमो नमो नम उमेश तुभ्यं नमः ॥ १२॥ सतां श्रवणपद्धतिं सरतु सन्नतोक्तेत्यसौ शिवस्य करुणाङ्कुरात्प्रतिकृतात्सदा सोचिता । इति प्रथितमानसो व्यधित नाम नारायणः शिवस्तुतिमिमां शिवं लिकुचिसूरिसूनुः सुधीः ॥ १३॥ इति श्रीमल्लिकुचिसूरिसूनुनारायणपण्डिताचार्यविरचिता शिवस्तुतिः सम्पूर्णा ॥