अक्षर आकार:

श्रीशिवस्तुती लङ्केश्वरकृत

Shivastuti by Lankeshvara Ravana

श्रीशिवस्तुती लङ्केश्वरकृत

श्रीगणेशाय नमः । गले कलितकालिमः प्रकटितेन्दुभालस्थले विनाटितजटोत्करं रुचिरपाणिपाथोरुहे । उदञ्चितकपालकं जघनसीम्नि सन्दर्शितद्विपाजिनमनुक्षणं किमपि धाम वन्दामहे ॥ १॥ वृषोपरि परिस्फुरद्धवलधामधामश्रियां कुबेरगिरिगौरिमप्रभवगर्वनिर्वासि तत् । क्वचित्पुनरुमाकुचोपचितकुङ्कुमै रञ्जितं गजाजिनविराजितं वृजिनभङ्गबीजं भजे ॥ २॥ उदित्वरविलोचनत्रयविसृत्वरज्योतिषा कलाकरकलाकरव्यतिकरेण चाहर्निशम् । विकासितजटाटवीविहरणोत्सवप्रोल्लसत्तरामरतरङ्गिणीतरलचूडमीडे मृडम् ॥ ३॥ विहाय कमलालयाविलसितानि विद्युन्नटीविडम्बनपटूनि मे विहरणं विधत्तां मनः । कपर्दिनि कुमुद्वतीरमणखण्डचूडामणौ कटीतटपटीभवत्करटिचर्मणि ब्रह्मणि ॥ ४॥ भवद्भवनदेहलीविकटतुण्डदण्डाहतित्रुटन्मुकुटकोटिभिर्मघवदादिभिर्भूयते । व्रजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं किमित्यमरसम्पदः प्रमथनाथ नाथामहे ॥ ५॥ त्वदर्चनपरायणप्रमथकन्यकालुण्ठितप्रसूनसफलद्रुमं कमपि शैलमाशास्महे । अलं तटवितर्दिकाशयितसिद्धिसीमन्तिनीप्रकीर्णसुमनोमनोरमणमेरुणामेरुणा ॥ ६॥ न जातु हर यातु मे विषयदुर्विलासं मनोमनोभवकथास्तु मे न च मनोरथातिथ्यभूः । स्फुरत्सुरतरङ्गिणीतटकुटीरकोटौ वसन्नये शिव दिवानिशं तव भवानि पूजापरः ॥ ७॥ विभूषणसुरापगाशुचितरालवालावलीवलद्वहलसीकरप्रकरसेकसंवर्धिता । महेश्वरसुरद्रुमस्फुरितसज्जटामञ्जरी नमज्जनफलप्रदा मम नु हन्त भूयादियम् ॥ ८॥ बहिर्विषयसङ्गतिप्रतिनिवर्तिताक्षावलेः समाधिकलितात्मनः पशुपतेरशेषात्मनः । शिरःसुरसरित्तटीकुटिलकल्पकल्पद्रुमं निशाकरकलामहं बटुविमृश्यमानां भजे ॥ ९॥ त्वदीयसुरवाहिनीविमलवारिधारावलज्जटागहनगाहिनी मतिरियं मम क्रामतु । उपोत्तमसरित्तटीविटपिताटवी प्रोल्लसत्तपस्विपरिषत्तुलाममलमल्लिकाभ प्रभो ॥ १०॥ इति श्रीलङ्केश्वरविरचिता शिवस्तुतिः समाप्ता ॥