अक्षर आकार:

श्रीशिवस्तुतिकदम्बम्

shrIshivastutikadambam

श्रीशिवस्तुतिकदम्बम्

श्रीगणेशाय नमः ॥ आह्लादजनकस्याद्य सान्निध्यात्तव शङ्कर । चन्द्रश्चन्द्रत्वमापेदे जाने चन्द्रलसज्जट ॥ १॥ कालकूटं नीगृह्यादावरक्षः सकलं जगत् । को वाऽत्र विस्मयः शम्भो कालस्यैकस्य निग्रहे ॥ २॥ अभवस्त्वं सूचयितुं लोकानामर्धनारीशः । अर्धो वेत्याम्नायः स्वार्थपरो नार्थवाद इति ॥ ३॥ जडताविदलनदीक्षित जडतापहृतिं करोषि नो चेन्मे । दीक्षाभङ्गो न भवेद्दाक्षायण्याश्रिताङ्ग किमु तेन ॥ ४॥ पशुपतिमव मां शम्भो पशुपतिरसि गिरिश यस्मात्त्वम् । श्रुतिरप्येवं ब्रूते कर्तव्या ह्यात्मरक्षेति ॥ ५॥ शीर्षोपरि चन्द्रस्ते लोके शास्रे च विख्यातः । कण्ठोपर्यकलङ्कः पूर्णः कोऽयं निशाकरो ब्रूहि ॥ ६॥ कवित्ववारशिशरन्निशेशं जडत्वनागेन्द्रविभेदसिंहम् । मृगत्वगाबद्धकटिप्रदेशं महत्त्वदं नौमि नताय शम्भुम् ॥ ७॥ यदङ्घ्रिपाथोरुहसेवनेन प्रयाति सर्वोत्तमतां जडोऽपि । तमम्बिकामानसपद्महंसमुपाश्रये सत्वरचित्तशुद्धये ॥ ८॥ बहूनां जनानां मनोऽभीष्टजातं सुसूक्ष्मं वितीर्याशु गर्वायसे त्वम् । महेशान यद्यस्ति शक्तिस्तवाहो महन्मन्मनोऽभीष्टमाशु प्रयच्छ ॥ ९॥ अपां पुष्पार्धस्य प्रतिदिनमहो धारणवशात् प्रभो किं निर्वेदाद्धरणिगतपुष्पालिमधुना । रसाद्धत्से शीर्षे शशधरकिरीटागतनया- सहाय प्रब्रूहि प्रणतजनकारुण्यभरित ॥ १०॥ बहोः कालात्किं वा शिरसि कृतवासं तव विधुं वियोगं किं पत्युर्भृशमसहमाना स्वयमहो । समालिङ्गन्त्येताः पतिमतिरसात्पुष्पमिषतः प्रभो तारास्तस्मादसि सुमकिरीटस्त्वमधुना ॥ ११॥ भक्तानां हृद्रथानां निजनिजपदवीप्राप्तये पार्वतीशः कारुण्यापारवारान्निधिरगपतिजासंयुतः सम्भ्रमेण । आरुह्यैकं हि बाह्यं रथमिह निखिलांश्चालयन् किं पुरोक्तान् गर्वं पक्षीशवाय्वोर्हरति करुणया शीघ्रनम्रेष्टदायी ॥ १२॥ मत्पापानां बहूनां परिमितिरधुनाऽधीश नास्त्येव नूनं त्वद्वत्पापोपशान्तिप्रदमिह भुवने नास्ति दैवं च सद्यः । तस्मान्मत्पापराशिं दह दह तरसा देहि शुद्धां च बुद्धिं स्रोतः श्रेष्ठावतंस प्रणतभयहर प्राणनाथागजायाः ॥ १३॥ कामं सन्तु सुराः स्वपादनमनस्तोत्रार्चनाभिश्चिरं देहं कर्शयते जनाय फलदास्तान्नाश्रये जात्वपि । यो जात्वप्यवशात्स्वनाम वदते लोकाय शीघ्रेष्टदः सोऽव्याद्धेतुविहीनपूर्णकरुणः कान्तायितार्धः शिवः ॥ १४॥ नित्यानित्यविवेकभोगविरती शान्त्यादिषट्कं तथा मोक्षेच्छामनपायिनीं वितर भो शम्भो कृपावारिधे । वेदान्तश्रवणं तदर्थमननं ध्यानं चिरं ब्रह्मणः सच्चिद्रूपतनोरखण्डपरमानन्दात्मनः शङ्कर ॥ १५॥ मन्नीकाशतनुं प्रगृह्य करुणावारान्निधे सत्वरं श‍ृङ्गाद्रौ वस मोदतः करुणया व्याख्यानसिंहासने । कुर्वँल्लोकततिं स्वधर्मनिरतां सौख्यैरशेषैर्वृता- मद्वैतात्मविबोधपूर्णहृदयां चातन्वपर्णापते ॥ १६॥ यत्पदाम्बुजसमर्चनसक्तः सक्तिमाशु विषयेषु विहाय । सच्चिदात्मनि विलीनमनस्काः सम्भवन्ति तमहं शिवमीडे ॥ १७॥ रजनीवल्लभचूडो रजनीचरसेव्यपदपद्मः । राकाशशाङ्कधवलो राजति रमणीगृहीतवामाङ्गः ॥ १८॥ करवाणीतनुभिस्ते करवाणीशाङ्घ्रिसन्नतिं मोदात् । करवाणीतनुशुद्ध्यै करवाणीश्रीवहुत्वाय ॥ १९॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीशिवस्तवकदम्बं सम्पूर्णम् ।