अक्षर आकार:

श्रीशिव स्तुतिः

Shri Shiva Stutih

श्रीशिव स्तुतिः

श्रीपरशुराम उवाच - ईश त्वां स्तोतुमिच्छामि सर्वथा स्तोतुमक्षमः । अक्षराक्षयबीजं च किं वा स्तौमि निरीहकम् ॥ १॥ न योजनां कर्तुमीशो देवेशं स्तौमि मूढधीः । वेदा न शक्ता यं स्तोतुं कस्त्वां स्तोतुमिहेश्वरः ॥ २॥ वाग्बुद्धिमनसां दूरं सारात्सारं परात्परम् । ज्ञानमात्रेण साध्यं च सिद्धं सिद्धैर्निषेवितम् ॥ ३॥ यमाकाशमिवाऽद्यन्तमध्यहीनं तथाऽव्ययम् । विश्वतन्त्रमतन्त्रं च स्वतन्त्रं तन्त्रबीजकम् ॥ ४॥ ध्यानाऽसाध्यं दुराराध्यमतिसाध्यं कृपानिधिम् । त्राहि मां करुणासिन्धो दीनबन्धोऽतिदीनकम् ॥ ५॥ अद्य मे सफलं जन्म जीवितं च सुजीवितम् । स्वप्नेऽप्यदृष्टं भक्तैश्चाऽधुना पश्यामि चक्षुषा ॥ ६॥ शक्रादयः सुरगणाः कलया यस्य सम्भवाः । चराचराः कलांशेन तं नमामि महेश्वरम् ॥ ७॥ स्त्रीरूपं क्लीवरूपं च पौरुषं च बिभर्ति यः । सर्वाधारं सर्वरूपं तं नमामि महेश्वरम् ॥ ८॥ यं भास्करस्वरूपं च शाशिरूपं हुताशनम् । जलरूपं वायुरूपं तं नमामि महेश्वरम् ॥ ९॥ अनन्तविश्वसृष्टीनां संहर्तारं भयङ्करम् । क्षणेन लीलामात्रेण तं नमामि महेश्वरम् ॥ १०॥ ॥ फलश्रुतिः ॥ इत्येवमुक्त्वा स भृगुः पपात चरणाम्बुजे । आशिषं च ददौ तस्मै समुत्पन्नो बभूव सः ॥ ११॥ जामदग्न्य कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः । सर्वपापविनिर्मुक्तः शिवलोकं स गच्छति ॥ १२॥ ॥ इति श्री ब्राह्मे वैवर्ते महापुराणे गणपति खण्डे श्रीपरशुरामकृत श्रीशिवस्तुतिः समाप्ता ॥