अक्षर आकार:

श्रीशिवस्तोत्रं हिमालयकृत ब्रह्मवैवर्ते

Shivastotram Himalayakrita from brahmavaivarta

श्रीशिवस्तोत्रं हिमालयकृत ब्रह्मवैवर्ते

श्रीगणेशाय नमः । हिमालय उवाच । त्वं ब्रह्मा सृष्टिकर्ता च त्वं विष्णुः परिपालकः । त्वं शिवः शिवदोऽनन्तः सर्वसंहारकः ॥ १॥ त्वमीश्वरो गुणातीतो ज्योतीरूपः सनातनः । प्रकृतः प्रकृतीशश्च प्राकृतः प्रकृतेः परः ॥ २॥ नानारूपविधाता त्वं भक्तानां ध्यानहेतवे । येषु रूपेषु यत्प्रीतिस्तत्तद्रूपं बिभर्षि च ॥ ३॥ सूर्यस्त्वं सृष्टिजनक आधारः सर्वतेजसाम् । सोमस्त्वं सस्यपाता च सततं शीतरश्मिना ॥ ४॥ वायुस्त्वं वरुणस्त्वं च विद्वांश्च विदुषां गुरुः । मृत्युञ्जयो मृत्युमृत्युः कालकालो यमान्तकः ॥ ५॥ वेदस्त्वं वेदकर्ता च वेदवेदाङ्गपारगः । विदुषां जनकस्त्वं च विद्वांश्च विदुषां गुरुः ॥ ६॥ मन्त्रस्त्वं हि जपस्त्वं हि तपस्त्वं तत्फलप्रदः । वाक् त्वं रागाधिदेवी त्वं तत्कर्ता तद्गुरुः स्वयम् ॥ ७॥ अहो सरस्वतीबीजं कस्त्वा स्तोतुमिहेश्वरः । इत्येवमुक्त्वा शैलेन्द्रस्तस्थौ धृत्वा पदाम्बुजम् ॥ ८॥ तत्रोवास तमाबोध्य चावरुह्य वृषाच्छिवः । स्तोत्रमेतन्महापुण्यं त्रिसन्ध्यं यः पठेन्नरः ॥ ९॥ मुच्यते सर्वपापेभ्यो भयेभ्यश्च भवार्णवे । अपुत्रो लभते पुत्रं मासमेकं पठेद्यदि ॥ १०॥ भार्याहीनो लभेद्भार्यां सुशीलां सुमनोहराम् । चिरकालगतं वस्तु लभते सहसा ध्रुवम् ॥ ११॥ राज्यभ्रष्टो लभेद्राज्यं शङ्करस्य प्रसादतः । कारागारे श्मशाने च शत्रुग्रस्तेऽतिसङ्कटे ॥ १२॥ गभीरेऽतिजलाकीर्णे भग्नपोते विषादने । रणमध्ये महाभीते हिंस्रजन्तुसमन्विते ॥ १३॥ सर्वतो मुच्यते स्तुत्वा शङ्करस्य प्रसादतः ॥ १४॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे हिमालयकृतं शिवस्तोत्रम् ॥