अक्षर आकार:

श्रीशिवस्तोत्रं असितकृत

Shivastotram Asitakrita

श्रीशिवस्तोत्रं असितकृत

श्रीगणेशाय नमः ॥ असित उवाच । जगद्गुरो नमस्तुभ्यं शिवाय शिवदाय च । योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ॥ १॥ मृत्योर्मृत्युस्वरूपेण मृत्युसंसारखण्डन मृत्योरीश मृत्युबीज मृत्युञ्जय नमोस्तु ते ॥ २॥ कालरूपं कलयतां कालकालेश कारण । कालादतीत कालस्थ कालकाल नमोस्तु ते ॥ ३॥ गुणातीत गुणाधार गुणबीज गुणात्मक । गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥ ४॥ ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्परः । ब्रह्मबीजस्वरूपेण ब्रह्मबीज नमोस्तु ते ॥ ५॥ इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः । दीनवत्साश्रुनेत्रश्च पुलकाञ्चितविग्रहः ॥ ६॥ असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् । वर्षमेकं हविष्याशी शङ्करस्य महात्मनः ॥ ७॥ स लभेद्वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम् । भवेद्धनाढ्यो दुःखी च मूको भवति पण्डितः ॥ ८॥ अभार्यो लभते भार्यां सुशीलां च पतिव्रताम् । इह लोके सुखं भुक्त्वा यात्यन्ते शिवसन्निधिम् ॥ ९॥ इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे । प्रचेतसा स्वपुत्रायासिताय दत्तमुत्तमम् ॥ १०॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे असितकृतशिवस्तोत्रं सम्पूर्णम् ॥