अक्षर आकार:

श्रीशिवस्तोत्रम् - स्वामी विवेकानन्दविरचितम्

shiva stotra by Swami Vivekananda

श्रीशिवस्तोत्रम् - स्वामी विवेकानन्दविरचितम्

ॐ नमः शिवाय । निखिलभुवनजन्मस्थमभङ्गप्ररोहाः अकलितमहिमानः कल्पिता यत्र तस्मिन् । सुविमलगगनाभे ईशसंस्थेऽप्यनीशे मम भवतु भवेऽस्मिन् भासुरो भावबन्धः ॥ निहतनिखिलमोहेऽधीशता यत्र रूढा प्रकटितपरप्रेम्ना यो महादेव संज्ञः । अशिथिलपरिरम्भः प्रेमरूपस्य यस्य प्रणयति हृदि विश्वं व्याजमात्रं विभुत्वम् ॥ वहति विपुलवातः पूर्व संस्काररूपः प्रमथति बलवृंदं घूर्णितेवोर्मिमाला । प्रचलति खलु युग्मं युष्मदस्मत्प्रतीतम् अतिविकलितरूपं नौमि चित्तं शिवस्थम् ॥ जनकजनितभावो वृत्तयः संस्कृताश्च अगणनबहुरूपा यत्र एको यथार्थः । शमितविकृतवाते यत्र नांतर्बहिश्च तमहह हरमौडे चित्तवृत्तेर्निरोधम् ॥ गलिततिमिरमालः शुभ्रतेजःप्रकाशः धवलकमलशोभः ज्ञानपुञ्जाट्टहासः । यमिजनहृदिगम्यः निष्कलं ध्यायमानः प्रणतमवतु मं सः मानसो राजहंसः ॥ दुरितदलनदक्षं दक्षजादत्तदोषम् कलितकलिकलङ्कं कम्रकल्हारकांतम् । परहितकरणाय प्राणविच्छेदसूत्कम् नतनयननियुक्तं नीलकंठं नमामः ॥ -- स्वामी विवेकानन्द