अक्षर आकार:

उत्पलदेवविरचिता शिवस्तोत्रावलिः

utpaladevavirachitA shivastotrAvaliH

उत्पलदेवविरचिता शिवस्तोत्रावलिः

अनुक्रमणिका १. भक्तिविलासाख्यं प्रथमं स्तोत्रम् । २. सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् । ३. प्रणयप्रसादाख्यं तृतीयं स्तोत्रम् । ४. सुरसोद्बलाख्यां चतुर्थं स्तोत्रम् । ५. स्वबलनिदेशनाख्यं पञ्चमं स्तोत्रम् । ६. अध्वविस्फुरणाख्यं सस्थं स्तोत्रम् । ७. विधुरविजयनामधेयं सप्तमं स्तोत्रम् । ८. अलौकिकोद्बलनाख्यमष्टमं स्तोत्रम् । ९. स्वातन्त्र्यविजयाख्यं नवमं स्तोत्रम् । १०. अविच्छेदभङ्गाख्यं दशमं स्तोत्रम् । ११. औत्सुक्यविश्वसितनामैकादशं स्तोत्रम् । १२. रहस्यनिर्देशनाम द्वादशं स्तोत्रम् । १३. सङ्ग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् । १४. जयस्तोत्रनाम चतुर्दशं स्तोत्रम् । १५. भक्तिस्तोत्रनाम पञ्चदशं स्तोत्रम् । १६. पाशानुद्भेदनाम षोडशं स्तोत्रम् । १७. दिव्यक्रीडाबहुमाननाम सप्तदसं स्तोत्रम् । १८. आविष्कारनाम अष्टादशं स्तोत्रम् । १९. उद्योतनाभिधानमेकोनविंशं स्तोत्रम् । २०. चर्वनाभिधानं विंशं स्तोत्रम् । अथ शिवस्तोत्रावलिः ॥ ॐ तत्सत् । श्री विघ्नहर्त्रे नमः । श्रीगुरवे शिवाय नमः । भक्तिविलासाख्यं प्रथमं स्तोत्रम् । न ध्यायतो न जपतः स्याद्यस्याविधिपूर्वकम् एवमेव शिवभासस्तं नुमो भक्तिशालिनम् ॥ १.१॥ आत्मा मम भवद्भक्तिसुधापानयुवापि सन् लोकयात्रारजोरागात्पलितैरिव धूसरः ॥ १.२॥ लब्धतत्सम्पदां भक्तिमतां त्वत्पुरवासिनाम् सञ्चारो लोकमार्गेऽपि स्यात्तयैव विजृम्भया ॥ १.३॥ साक्षाद्भवन्मये नाथ सर्वस्मिन् भुवनान्तरे किं न भक्तिमतां क्षेत्रं मन्त्रः क्वैषां न सिद्ध्यति ॥ १.४॥ जयन्ति भक्तिपीयूषरसासववरोन्मदाः अद्वितीया अपि सदा त्वद्वितीया अपि प्रभो ॥ १.५॥ अनन्तानन्दसिन्धोस्ते नाथ तत्त्वं विदन्ति ते तादृश एव ये सान्द्रभक्त्यानन्दरसाप्लुताः ॥ १.६॥ त्वमेवात्मेश सर्वस्य सर्वश्चात्मनि रागवान् इति स्वभावसिद्धांस्त्वद्भक्तिं जानञ्जयेज्जनः ॥ १.७॥ नाथ वेद्यक्षये केन न दृश्योऽस्येककः स्थितः वेद्यवेदकसङ्क्षोभेऽप्यसि भक्तैः सुदर्शनः ॥ १.८॥ अनन्तानन्दसरसी देवी प्रियतमा यथा अवियुक्तास्ति ते तद्वदेका त्वद्भक्तिरस्तु मे ॥ १.९॥ सर्व एव भवल्लाभहेतुर्भक्तिमतां विभो संविन्मार्गोऽयमाह्लाददुःखमोहैस्त्रिधा स्थितः ॥ १.१०॥ भवद्भक्त्यमृतास्वादाद्बोधस्य स्यात्परापि या दशा सा मां प्रति स्वामिन्नासवस्येव शुक्तता ॥ १.११॥ भवद्भक्तिमहाविद्या येषामभ्यासमागता विद्याविद्योभयस्यापि ता एते तत्त्ववेदिनः ॥ १.१२॥ आमुलाद्वाग्लता सेयं क्रमविस्फारशालिनी त्वद्भक्तिसुधया सिक्ता तद्रसाढ्यफलास्तु मे ॥ १.१३॥ शिवो भूत्वा यजेतेति भक्तो भूत्वेति कथ्यते त्वमेव हि वपुः सारं भक्तैरद्वयशोधितम् ॥ १.१४॥ भक्तानां भवदद्वैतसिद्ध्यै का नोपपत्तयः तदसिद्ध्यै निकृष्टानां कानि नावरणानि वा ॥ १.१५॥ कदाचित्क्वापि लभ्योऽसि योगेनेतीश वञ्चना अन्यथा सर्वकक्ष्यासु भासि भक्तिमतां कथम् ॥ १.१६॥ प्रत्याहाराद्यसंस्पृष्टो विशेषोऽस्ति महानयम् योगिभ्यो भक्तिभाजां यद्व्युत्थानेऽपि समाहिताः ॥ १.१७॥ न योगो न तपो नार्चाक्रमः कोऽपि प्रनीयते अमाये शिवमार्गेऽस्मिन् भक्तिरेका प्रशस्यते ॥ १.१८॥ सर्वतो विलसद्भक्तितेजोध्वस्तावृतेर्मम प्रत्यक्षसर्वभावस्य चिन्तानामपि नश्यतु ॥ १.१९॥ शिव इत्येकशब्दस्य जिह्वाग्रे तिष्ठतः सदा समस्तविषयास्वादो भक्तेष्वेवास्ति कोऽप्यहो ॥ १.२०॥ शान्तकल्लोलशीताच्छस्वादुभक्तिसुधाम्बुधौ अलौकिकरसास्वादे सुस्थैः कोऽनाम गण्यते ॥ १.२१॥ सादृशैः किं न चर्व्येत भवद्भक्तिमहौषधिः तादृशी भगवन् यस्या मोक्षाख्योऽनन्तरो रसः ॥ १.२२॥ ता एव परमर्थ्यन्ते सम्पदः सद्भिरीश याः त्वद्भक्तिरससम्भोगविस्रम्भपरिपोषिकाः ॥ १.२३॥ भवद्भक्तिसुधासारस्तैः किमप्युपलक्षितः ये न रागादि पङ्केऽस्मिंऌ लिप्यन्ते पतिता अपि ॥ १.२४॥ अणिमादिषु मोक्षान्तेष्वङ्गेष्वेव फलाभिधा भवद्भक्तेर्विपक्वाया लताया इव केषु चित् ॥ १.२५॥ चित्रं निसर्गतो नाथ दुःखबीजमिदं मनः त्वद्भक्तिरससंसिक्तं निःश्रेयसमहाफलम् ॥ १.२६॥ सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् । अग्नीषोमरविब्रह्मविष्णुस्थावरजङ्गम स्वरूप बहुरूपाय नमः संविन्मयाय ते ॥ २.१॥ विश्वेन्धनमहाक्षारानुलेपशुचिवर्चसे महानलाय भवते विश्वैकहविषे नमः ॥ २.२॥ परमामृतसान्द्राय शीतलाय शिवाग्नये कस्मै चिद्विश्वसम्प्लोषविषमाय नमोऽस्तु ते ॥ २.३॥ महादेवाय रुद्राय शङ्कराय शिवाय ते महेश्वरायापि नमः कस्मै चिन्मन्त्रमूर्तये ॥ २.४॥ नमो निकृत्तनिःशोषत्रैलोक्यविगलद्वसा- वसेकविषमायापि मङ्गलाय शिवाग्नये ॥ २.५॥ समस्तलक्षनायोग एव यस्योपलक्षणम् तस्मै नमोऽस्तु देवाय कस्मै चिदपि शम्भवे ॥ २.६॥ वेदागमविरुद्धाय वेदागमविधायिने वेदागमसतत्त्वाय गुह्याय स्वामिने नमः ॥ २.७॥ संसारैकनिमित्ताय संसारैकविरोधिने नमः संसाररूपाय निःसंसाराय शम्भवे ॥ २.८॥ मूलाय मध्यायाग्राय मूलमध्याग्रमूर्तये क्षीनाग्रमध्यमूलाय नमः पूर्णाय शम्भवे ॥ २.९॥ नमः सुकृतसम्भरविपाकः सकृदप्यसौ यस्य नामग्रहस्तस्मै दुर्लभाय शिवाय ते ॥ २.१०॥ नमश्चराचराकारपरेतनिचयैः सदा क्रीडते तुभ्यमेकस्मै चिन्मयाय कपालिने ॥ २.११॥ मायाविने विशुद्धाय गुह्याय प्रकटात्मने सूक्ष्माय विश्वरूपाय नमश्चित्राय शम्भवे ॥ २.१२॥ ब्रह्मेन्द्रविष्णुनिर्व्यूढजगत्संहारकेलये आश्चर्यकरणीयाय नमस्ते सर्वशक्तये ॥ २.१३॥ तटेष्वेव परिभ्रान्तैः लब्धास्तास्ता विभूतयः यस्य तस्मै नमस्तुभ्यमगाधहरसिन्धवे ॥ २.१४॥ मायामयजगत्सान्द्रपङ्कमध्याधिवासिने अलेपाय नमः शम्भुशतपत्राय शोभिने ॥ २.१५॥ मङ्गलाय पवित्राय निधये भूषणात्मने प्रियाय परमार्थाय सर्वोत्कृष्टाय ते नमः ॥ २.१६॥ नमः सततबद्धाय नित्यनिर्मुक्तिभागिने बन्धमोक्षविहीनाय कस्मै चि दपि शम्भवे ॥ २.१७॥ उपहासैकसारेऽस्मिन्नेतावति जगत्त्रये तुभ्यमेवाद्वितीयाय नमो नित्यसुखासिने ॥ २.१८॥ दक्षिणाचारसाराय वामाचाराभिलाषिणे सर्वाचाराय शर्वाय निराचाराय ते नमः ॥ २.१९॥ यथा तथापि यः पूज्यो यत्र तत्रापि योऽर्चितः योऽपि वा सोऽपि वा योऽसौ देवस्तस्मै नमोऽस्तु ते ॥ २.२०॥ मुमुक्षुजनसेव्याय सर्वसन्तापहारिणे नमो विततलावण्यवराय वरदाय ते ॥ २.२१॥ सदा निरन्तरानन्दरसनिर्भरिताखिल- त्रिलोकाय नमस्तुभ्यं स्वामिने नित्यपर्वणे ॥ २.२२॥ सुखप्रधानसंवेद्यसम्भोगैर्भजते च यत् त्वामेव तस्मै घोराय शक्तिवृन्दाय ते नमः ॥ २.२३॥ मुनीनामप्यविज्ञेयं भक्तिसम्बन्धचेष्टिताः आलिङ्गन्त्यपि यं तस्मै कस्मै चिद्भवते नमः ॥ २.२४॥ परमामृतकोशाय परमामृतराशये सर्वपारम्यपारम्यप्राप्याय भवते नमः ॥ २.२५॥ महामन्त्रमयं नौमि रूपं ते स्वच्छशीतलम् अपूर्वमोदसुभगं परामृतरसोल्वणम् ॥ २.२६॥ स्वातन्त्र्यामृतपूर्णत्वदैक्यख्यातिमहापटे चित्रं नास्त्येव यत्रेश तन्नौमि तव शासनम् ॥ २.२७॥ सर्वाशङ्कासनिं सर्वालक्ष्मीकालानलं तथा सर्वामङ्गल्यकल्पान्तं मार्गं माहेश्वरं नुमः ॥ २.२८॥ जय देव नमो नमोऽस्तु ते सकलं विश्वमिदं तवाश्रितम् जगतां परमेश्वरो भवान् परमेकः शरणागतोऽस्मि ते ॥ २.२९॥ प्रणयप्रसादाख्यं तृतीयं स्तोत्रम् । सदसत्त्वेन भावानां युक्ता या द्वितयी गतिः तामुल्लङ्घ्य तृतीयस्मै नमश्चित्राय शम्भवे ॥ ३.१॥ आसुरर्षिजनादस्मिन्नस्वतन्त्रे जगत्त्रये स्वतन्त्रास्ते स्वतन्त्रस्य ये तवैवानुजीविनः ॥ ३.२॥ अशेषविश्वखचितभवद्वपुरनुस्मृतिः येषां भवरुजामेकं भेषजं ते सुखासिनः ॥ ३.३॥ सितातपत्रं यस्येन्दुः स्वप्रभापरिपूरितः चामरं स्वर्धुनीस्रोतः स एकः परमेश्वरः ॥ ३.४॥ प्रकाशां शीतलामेकां शुद्धां शशिकलामिव दृशं वितर मे नाथ कामप्यमृतवाहिनीम् ॥ ३.५॥ त्वच्चिदानन्दजलधेश्च्युताः संवित्तिविप्रुषः इमाः कथं मे भगवन्नामृतास्वादसुन्दराः ॥ ३.६॥ त्वयि रागरसे नाथ न मग्नं हृदयं प्रभो येषामहृदया एव तेऽवज्ञस्पदमीदृशाः ॥ ३.७॥ प्रभुणा भवता यस्य जातं हृदयमेलनम् प्राभवीणां विभूतीनां परमेकः स भाजनम् ॥ ३.८॥ हर्षाणामथ शोकानां सर्वेषां प्लावकः समम् भवद्ध्यानामृतापूरो निम्नाणिम्नभुवामिव ॥ ३.९॥ केव न स्याद्दृशा तेषां सुखसम्भारनिर्भरा येषामात्माधिकेनेश न क्वापि विरहस्त्वया ॥ ३.१०॥ गर्जामि बत नृत्यामि पूर्णा मम मनोरथाः स्वामी ममैष घटितो यत्त्वमत्यन्तरोचनः ॥ ३.११॥ नान्यद्वेद्यं क्रिया यत्र नान्यो योगो विदा च यत् ज्ञानं स्यात्किं तु विश्वैकपूर्णा चित्त्वं विजृम्भते ॥ ३.१२॥ दुर्जयानामनन्तानां दुःखानां सहसैव ते हस्तात्पलायिता येषां वाचि शश्वच्छिवध्वनिः ॥ ३.१३॥ उत्तमः पुरुषोऽन्योऽस्ति युष्मच्छेषविशेषितः त्वं महापुरुषस्त्वेको निःशेषपुरुषाश्रयः ॥ ३.१४॥ जयन्ति ते जगद्वन्द्या दासास्ते जगतां विभो संसारार्णव एवैष येषां क्रीडामहासरः ॥ ३.१५॥ आसतां तावदन्यानि दैन्यानीह भवज्जुषाम् त्वमेव प्रकटीभूया इत्यनेनैव लज्ज्यते ॥ ३.१६॥ मत्परं नास्ति तत्रापि जापकोऽस्मि तदैक्यतः तत्त्वेन जप इत्यक्षमालया दिशसि क्वचित् ॥ ३.१७॥ सतोऽवश्यं परमसत्सच्च तस्मात्परं प्रभो त्वं चासतः सतश्चान्यस्तेनासि सदसन्मयः ॥ ३.१८॥ सहस्रसूर्यकिरणाधिकशुद्धप्रकाशवान् अपि त्वं सर्वभुवनव्यापकोऽपि न दृश्यसे ॥ ३.१९॥ जडे जगति चिद्रूपः किल वेद्येऽपि वेदकः विभुर्मिते च येनासि तेन सर्वोत्तमो भवान् ॥ ३.२०॥ अलमाक्रन्दितैरन्यैरियदेव पुरः प्रभोः तीव्रं विरौमि यन्नाथ मुह्याम्येवं विदन्नपि ॥ ३.२१॥ सुरसोद्बलाख्यां चतुर्थं स्तोत्रम् । चपलमसि यदपि मानस तत्रापि श्लाघ्यसे यतो भजसे शरणानामपि शरणं त्रिभुवनगुरुमम्बिकाकान्तम् ॥ ४.१॥ उल्लङ्घ्य विविधदैवतसोपानक्रममुपेय शिवचरणान् आश्रित्याप्यधरतरां भूमिं नाद्यापि चित्रमुज्झामि ॥ ४.२॥ प्रकटय निजमध्वानं स्थगयतरामखिललोकचरितानि यावद्भवामि भगवंस्तव सपदि सदोदितो दासः ॥ ४.३॥ शिव शिव शम्भो शङ्कर शरणागतवत्सलाशु कुरु करुणाम् तव चरणकमलयुगलस्मरणपरस्य हि सम्पदोऽदूरे ॥ ४.४॥ तावकाङ्घ्रिकमलासनलीना ये यथारुचि जगद्रचयन्ति ते विरिञ्चिमधिकारमलेनालिप्तमस्ववशमीश हसन्ति ॥ ४.५॥ त्वत्प्रकाशवपुषो न विभिन्नं किं चन प्रभवति प्रतिभातुम् तत्सदैव भगवन् परिलब्धोऽसीश्वर प्रकृतितोऽपि विदूरः ॥ ४.६॥ पादपङ्कजरसं तव के चिद्भेदपर्युषितवृत्तिमुपेताः के चनापि रसयन्ति तु सध्यो भातमक्षतवपुर्द्वयशून्यम् ॥ ४.७॥ नाथ विद्युदिव भाति विभाते या कदा चन ममामृतदिग्धा सा यदि स्थिरतरैव भवेत्तत्पूजितोऽसि विधिवत्किमुतान्यत् ॥ ४.८॥ सर्वमस्यपरमस्ति न किं चिद्वस्त्ववस्तु यदि वेति महत्या प्रज्ञाय व्यवसितोऽत्र यथैव त्वं तथैव भव सुप्रकटो मे ॥ ४.९॥ स्वेच्छयैव भगवन्निजमार्गे कारितः पदमहं प्रभुनैव तत्कथं जनवदेव चरामि त्वत्पदोचितमवैमि न किं चित् ॥ ४.१०॥ कोऽपि देव हृदि तेषु तावको जृम्भते सुभगभाव उत्तमः त्वत्कथाम्बुदनिनादचातका येन तेऽपि सुभगीकृताश्चिरम् ॥ ४.११॥ त्वज्जुषां त्वयि कयापि लीलया राग एष परिपोषमागतः यद्वियोगभुवि सङ्कथा तथा संस्मृतिः फलति सङ्गमोत्सवम् ॥ ४.१२॥ यो विचित्ररससेकवर्धितः शङ्करेति शतशोऽप्युदीरितः शब्द आविशति तिर्यगाशयेष्वप्ययं नवनवप्रयोजनः ॥ ४.१३॥ ते जयन्ति मुखमण्डले भ्रमनस्ति येषु नियतं शिवध्वनिः यः शाशीव प्रसृतोऽमृताशयात्स्वादु संस्रवति चामृतं परम् ॥ ४.१४॥ परिसमाप्तमिवोग्रमिदं जगद्विगलितोऽविरलो मनसो मलः तदपि नास्ति भवत्पुरार्गलकवाटविघट्टनमण्व पि ॥ ४.१५॥ सततफुल्लभवन्मुखपङ्कजोदरविलोकनलालसचेतसः किमपि तत्कुरु नाथ मनागिव स्फुरसि येन ममाभिमुखस्थितिः ॥ ४.१६॥ त्वदविभेदमतेरपरं नु किं सुखमिहास्ति विभूतिरथापरा तदिह तावकदासजनस्य किं कुपथमेति मनः परिहृत्य ताम् ॥ ४.१७॥ क्षणमपीह न तावकदासतां प्रति भवेयमहं किल भाजनम् भवदभेदरसासवमादरादविरतं रसयेयमहं न चेत् ॥ ४.१८॥ न किल पश्यति सत्यमयं जनस्तव वपुर्द्वयदृष्टिमलीमसः तदपि सर्वविदाश्रितवत्सलः किमिदमारटितं न श‍ृणोषि मे ॥ ४.१९॥ स्मरसि नाथ कदाचिदपीहितं विषयसौख्यमथापि मयार्थितम् सततमेव भवद्वपुरीक्षणामृतमभीष्टमलं मम देहि तत् ॥ ४.२०॥ किल यदैव शिवाध्वनि तावके कृतपदोऽस्मि महेश तवेच्छया शुभशतान्युदितानि तदैव मे किमपरं मृगये भवतः प्रभो ॥ ४.२१॥ यत्र सोऽस्तमयमेति विवस्वांश्चन्द्रमः प्रभृतिभिः सह सर्वैः कापि सा विजयते शिवरात्रिः स्वप्रभाप्रसरभास्वररूपा ॥ ४.२२॥ अप्युपार्जितमहं त्रिषु लोकेष्वधिपत्यममरेश्वर मन्ये नीरसं तदखिलं भवदङ्घ्रिस्पर्शनामृतरसेन विहीनम् ॥ ४.२३॥ बत नाथ दृढोऽयमात्मबन्धो भवदख्यातिमयस्त्वयैव कॢप्तः यदयं प्रथमानमेव मे त्वामवधीर्य श्लथते न लेशतोऽपि ॥ ४.२४॥ महताममरेश पूज्यमानोऽप्यनिशं तिष्ठसि पूजकैकरूपः बहिरन्तरपीह दृश्यमानः स्फुरसि द्रष्टृशरीर एव शश्वत् ॥ ४.२५॥ स्वबलनिदेशनाख्यं पञ्चमं स्तोत्रम् । त्वत्पादपद्मसम्पर्कमात्रसम्भोगसङ्गिनम् गलेपादिकया नाथ मां स्ववेश्म प्रवेशय ॥ ५.१॥ भवत्पादाम्बुजरजोराजिरञ्जितमूर्धजः अपाररभसारब्धनर्तनः स्यामहं कदा ॥ ५.२॥ त्वदेकनाथो भगवन्नियदेवार्थये सदा त्वदन्तर्वसतिर्मूको भवेयं मान्यथा बुधः ॥ ५.३॥ अहो सुधानिधे स्वामिन्नहो मृष्ट त्रिलोचन अहो स्वादो विरूपक्षेत्येव नृत्येयमारटन् ॥ ५.४॥ त्वत्पादपद्मसंस्पर्शपरिमीलितलोचनः विजृम्भेयभवद्भक्तिमदिरामदघूर्णितः ॥ ५.५॥ चित्तभूभृद्भुवि विभो वसेयं क्वापि यत्र सा निरन्तरत्वत्प्रलापमयी वृत्तिर्महारसा ॥ ५.६॥ यत्र देवीसमेतस्त्वमासौधादा च गोपुरात् बहुरूपः स्थितस्तस्मिन् वास्तव्यः स्यामहं पुरे ॥ ५.७॥ समुल्लसन्तु भगवन् भवद्भानुमरीचयः विकसत्वेष यावन्मे हृत्पद्मः पूजनाय ते ॥ ५.८॥ प्रसीद भगवन् येन त्वत्पदे पतितं सदा मनो मे तत्तदास्वाद्य क्षीवेदिव गलेदिव ॥ ५.९॥ प्रहर्षाद्वाथ शोकाद्वा यदि कुङ्याद्धटादपि बाह्यादथान्तराद्भावात्प्रकटीभव मे प्रभो ॥ ५.१०॥ बहिरप्यन्तरपि तत्स्यन्दमानं सदास्तु मे भवत्पादाम्बुजस्पर्शामृतमत्यन्तशीतलम् ॥ ५.११॥ त्वत्पादसंस्पर्शसुधासरसोऽन्तर्निमज्जनम् कोऽप्येष सर्वसम्भोगलङ्घी भोगोऽस्तु मे सदा ॥ ५.१२॥ निवेदितमुपादत्स्व रागादि भगवन्मया आदाय चामृतीकृत्य भुङ्क्ष्व भक्तजनैः समम् ॥ ५.१३॥ अशेषभुवनाहारनित्यतृप्तः सुखासनम् स्वामिन् गृहाण दासेषु प्रसादालोकनक्षणम् ॥ ५.१४॥ अन्तर्भक्तिचमत्कारचर्वणामीलितेक्षणः नमो मह्यं शिवायेति पूजयं स्यां तृणान्यपि ॥ ५.१५॥ अपि लब्धभवद्भावः स्वात्मोल्लासमयं जगत् पश्यन् भक्तिरसाभोगैर्भवेयमवियोजितः ॥ ५.१६॥ आकाम्क्षणीयमपरं येन नाथ न विद्यते तव तेनाद्वितीयस्य युक्तं यत्परिपूर्णता ॥ ५.१७॥ हस्यते नृत्यते यत्र रागद्वेषादि भुज्यते पीयते भक्तिपीयूषरसस्तत्प्राप्नुयां पदम् ॥ ५.१८॥ तत्तदपूर्वामोदत्वच्चिन्ताकुसुमवासना दृढताम् एतु मम मनसि यावन्नश्यतु दुर्वासनागन्धः ॥ ५.१९॥ क्व नु रागादिषु रागः क्व च हरचरणाम्बुजेषु रागित्वम् इत्थं विरोधरसिकं बोधय हितममर मे हृदयम् ॥ ५.२०॥ विचरन् योगदशास्वपि विषयव्यावृत्तिवर्तमानोऽपि त्वच्चिन्तामदिरामदतरलीकृतहृदय एव स्याम् ॥ ५.२१॥ वाचि मनोमतिषु तथा शरीरचेष्टासु करणरचितासु सर्वत्र सर्वदा मे पुरःसरो भवतु भक्तिरसः ॥ ५.२२॥ शिवशिवशिवेति नामनि तव निरवधि नाथ जप्यमानेऽस्मिन् आस्वादयन् भवेयं कमपि महारसमपुनरुक्तम् ॥ ५.२३॥ स्फुरदनन्तचिदात्मकविष्टपे परिनिपीतसमस्तजडाध्वनि अगणितापरचिन्मयगण्डिके प्रविचरेयमहं भवतोऽर्चिता ॥ ५.२४॥ स्ववपुषि स्फुटभासिनि शाश्वते स्थितिकृते न किमप्युपयुज्यते इति मतिः सुदृढा भवतात्परं मम भवच्चरणाब्जरजः शुचेः ॥ ५.२५॥ किमपि नाथ कदाचन चेतसि स्फुरति तद्भवदङ्घ्रितलस्पृशाम् गलति यत्र समस्तमिदं सुधासरसि विश्वमिदं दिश मे सदा ॥ ५.२६॥ अध्वविस्फुरणाख्यं सस्थं स्तोत्रम् । क्षणमात्रमपीशान वियुक्तस्य त्वया मम निबिडं तप्यमानस्य सदा भूया दृशः पदम् ॥ ६.१॥ वियोगसारे संसारे प्रियेण प्रभुणा त्वया अवियुक्तः सदैव स्यां जगतापि वियोजितः ॥ ६.२॥ कायवाङ्मनसैर्यत्र यामि सर्वं त्वमेव तत् इत्येष परमार्थोऽपि परिपूर्णोऽस्तु मे सदा ॥ ६.३॥ निर्विकल्पो महानन्दपूर्णो यद्वद्भवांस्तथा भवत्स्तुतिकरी भूयादनुरूपैव वाङ्मम ॥ ६.४॥ भवदावेशतः पश्यन् भावं भावं भवन्मयम् विचरेयं निराकाङ्क्षः प्रहर्षपरिपूरितः ॥ ६.५॥ भगवन्भवतः पूर्णं पश्येयमखिलं जगत् तावतैवास्मि सन्तुष्टस्ततो न परिखिद्यसे ॥ ६.६॥ विलीयमानास्त्वय्येव व्योम्नि मेघलवा इव भावा विभान्तु मे शश्वत्क्रमनैर्मल्यगामिनः ॥ ६.७॥ स्वप्रभाप्रसरध्वस्तापर्यन्तध्वान्तसन्ततिः सन्ततं भातु मे कोऽपि भवमध्याद्भवन्मणिः ॥ ६.८॥ कां भूमिकां नाधिशेषे किं तत्स्याद्यन्न ते वपुः श्रान्तस्तेनाप्रयासेन सर्वतस्त्वामवाप्नुयाम् ॥ ६.९॥ भवदङ्गपरिष्वङ्गसम्भोगः स्वेच्छयैव मे घटतामियति प्राप्ते किं नाथ न जितं मया ॥ ६.१०॥ प्रकटीभव नान्याभिः प्रार्थनाभिः कदर्थनाः कुर्मस्ते नाथ ताम्यन्तस्त्वामेव मृगयामहे ॥ ६.११॥ विधुरविजयनामधेयं सप्तमं स्तोत्रम् । त्वय्यानन्दसरस्वति समरसतामेत्य नाथ मम चेतः परिहरतु सकृदियन्तं भेदाधीनं महानर्थम् ॥ ७.१॥ एतन्मम न त्विदमिति रागद्वेषादिनिगडदृढमूले नाथ भवन्मयतैक्यप्रत्ययपरशुः पतत्वन्तः ॥ ७.२॥ गलतु विकल्पकलङ्कावली समुल्लसतु हृदि निरर्गलता भगवन्नानन्दरसप्लुतास्तु मे चिन्मयी मूर्तिः ॥ ७.३॥ रागादिमयभवाण्डकलुठितं त्वद्भक्तिभावनाम्बिका तैस्तैः आप्याययतु रसैर्मां प्रवृद्धपक्षो यथा भवामि खगः ॥ ७.४॥ त्वच्चरणभावनामृतरससारास्वादनैपुणं लभताम् चित्तमिदं निःशेषितविषयविषासङ्गवासनावधि मे ॥ ७.५॥ त्वद्भक्तितपनदीधितिसंस्पर्शवशान्ममैष दूरतरम् चेतोमणिर्विमूञ्चतुरागादिकतप्तवह्निकणान् ॥ ७.६॥ तस्मिन् पदे भवन्तं सततमुपश्लोकयेयमत्युच्चैः हरिहर्यश्वविरिञ्चा अपि यत्र बहिः प्रतीक्षन्ते ॥ ७.७॥ भक्तिमदजनितविभ्रमवशेन पश्येयमविकलं करणैः शिवमयमखिलं लोकं क्रियाश्च पूजामयी सकलाः ॥ ७.८॥ मामकमनोगृहीतत्वद्भक्तिकुलाङ्गनाणिमादिसुतान् सूत्वा सुबद्धमूला ममेति बुद्धिं दृढीकुरुताम् ॥ ७.९॥ अलौकिकोद्बलनाख्यमष्टमं स्तोत्रम् । यः प्रसादलव ईश्वरस्थितो या च भक्तिरिव मामुपेयुषी तौ परस्परसमन्वितौ कदा तादृशे वपुषि रूढिमेष्यतः ॥ ८.१॥ त्वत्प्रभुत्वपरिचर्वणजन्मा कोऽप्युदेतु परितोषरसोऽन्तः सर्वकालमिह मे परमस्तु ज्ञानयोगमहिमादि विदूरे ॥ ८.२॥ लोकवद्भवतु मे विषयेषु स्फीत एव भगवन्परितर्षः केवलं तव शरीरतयैतान्+ लोकयेयमहमस्तविकल्पः ॥ ८.३॥ देहभूमिषु तथा मनसि त्वं प्राणवर्त्मनि च भेदमुपेते संविदः पथिषु तेषु च तेन स्वात्मना मम भव स्फुटरूपः ॥ ८.४॥ निजनिजेषु पदेषु पतन्त्विमाः करणवृत्तय उल्लसिता मम क्षणमपीश मनागपि मैव भूत्त्वदविभेदरसक्षतिसाहसम् ॥ ८.५॥ लघुमसृणसिताच्छशीतलं भवदावेशवशेन भावयन् वपुरखिलपदार्थपद्धतेर्व्यवहारानतिवर्तयेय तान् ॥ ८.६॥ विकसतु स्ववपुर्भवदात्मकं समुपयान्तु जगन्ति ममाङ्गताम् व्रजतु सर्वमिदं द्वयवल्गितं स्मृतिपथोपगमेऽप्यनुपाख्यताम् ॥ ८.७॥ समुदियादपि तादृशतावकानन विलोक परामृतसम्प्लवः मम घटेत यथा भवदद्वयाप्रथनघोरदरीपरिपूरणम् ॥ ८.८॥ अपि कदाचन तावकसङ्गमामृतकणाच्छुरणेन तनीयसा सकललोकसुखेषु पराङ्मुखो न भवितास्म्युभयच्युत एव किम् ॥ ८.९॥ सततमेव भवच्चरणाम्बुजाकरचरस्य हि हंसवरस्य मे उपरि मूलतलादपि चान्तरादुपनमत्वज भक्तिमृणालिका ॥ ८.१०॥ उपयान्तु विभो समस्तवस्तून्यपि चिन्ताविषयं दृशः पदं च मम दर्शनचिन्तनप्रकाशामृतसाराणि परं परिस्फुरन्तु ॥ ८.११॥ परमेश्वर तेषु तेषु कृच्छ्रेष्वपि नामोपनमत्स्वहं भवेयम् न परं गतभीस्त्वदङ्गसङ्गादुपजाताधिकसम्मदोऽपि यावत् ॥ ८.१२॥ भवदात्मनि विश्वमुम्भितं यद्भवतैवापि बहिः प्रकाश्यते तत् इति यद्दृढनिश्चयोपजुष्टं तदिदानिं स्फुटमेव भासताम् ॥ ८.१३॥ स्वातन्त्र्यविजयाख्यं नवमं स्तोत्रम् । कदा नवरसार्द्रार्द्रसम्भोगास्वादनोत्सुकम् प्रवर्तेत विहायान्यन्मम त्वत्स्पर्शने मनः ॥ ९.१॥ त्वदेकरक्तस्त्वत्पादपूजामात्रमहाधनः कदा साक्षात्करिष्यामि भवन्तमयमुत्सुकः ॥ ९.२॥ गाढानुरागवशतो निरपेक्षीभूतमानसोऽस्मि कदा पटपटिति विघटिताखिलमहार्गलस्त्वामुपैष्यामि ॥ ९.३॥ स्वसंवित्सारहृदयाधिष्ठानाः सर्वदेवताः कदा नाथ वशीकुर्यां भवद्भक्तिप्रभावतः ॥ ९.४॥ कदा मे स्याद्विभो भूरि भक्त्यानन्दरसोत्सवः यदालोकसुखानन्दी पृथङ्नामापि लप्स्यते ॥ ९.५॥ ईश्वरमभयमुदारं पूर्णमकारणमपह्नुतात्मानं सहसाभिज्ञाय कदा स्वामिजनं लज्जयिष्यामि ॥ ९.६॥ कदा कामपि तां नाथ तव वल्लभतामियाम् यया मां प्रति न क्वापि युक्तं ते स्यात्पलायितुम् ॥ ९.७॥ तत्त्वतोऽशेषजन्तूनां भवत्पूजामयात्मनाम् दृष्ट्यानुमोदितरसाप्लावितः स्यां कदा विभो ॥ ९.८॥ ज्ञानस्य परमा भूमिर्योगस्य परमा दशा त्वद्भक्तिर्या विभो कर्हि पूर्ण मे स्यात्तदर्थिता ॥ ९.९॥ सहसैवसाद्य कदा गाढमवष्टभ्य हर्षविवशोऽहम् त्वच्चरणवरनिधानं सर्वस्य प्रकटयिष्यामि ॥ ९.१०॥ परितः प्रसरच्छुद्धत्वदालोकमयः कदा स्यां यथेश न किञ्चिन्मे मायाच्छायाबिलं भवेत् ॥ ९.११॥ आत्मसात्कृतनिःशेषमण्डलो निर्व्यपेक्षकः कदा भवेयं भगवंस्त्वद्भक्तगणनायकः ॥ ९.१२॥ नाथ लोकाभिमानानामपूर्वं त्वं निबन्धनम् महाभिमानः कर्हि स्यां त्वद्भक्तिरसपूरितः ॥ ९.१३॥ अशेषविषयाशून्यश्रीसमाश्लेषसुस्थितः शयीयमिव शीताङ्घ्रिकुशेशययुगे कदा ॥ ९.१४॥ भक्त्यासवसमृद्धायास्त्वत्पूजाभोगसम्पदः कदा पारं गमिष्यामि भविष्यामि कदा कृती ॥ ९.१५॥ आनन्दबाष्पपूरस्खलितपरिभ्रान्तगद्गदाक्रन्दः हासोल्लासितवदनस्त्वत्स्पर्शरसं कदाप्स्यामि ॥ ९.१६॥ पशुजनसमानवृत्तामवधूय दशामिमां कदा शम्भो आस्वादयेय तावकभक्तोचितमात्मनो रूपम् ॥ ९.१७॥ लब्धाणिमादिसिद्धिर्विगलितसकलोपतापसन्त्रासः त्वद्भक्तिरसायनपानक्रिढानिष्टः कदासीय ॥ ९.१८॥ नाथ कदा स तथाविध आक्रन्दो मे समुच्चरेद्वाचि यत्समनन्तरमेव स्फुरति पुरस्तावकी मूर्तिः ॥ ९.१९॥ गाढगाढभवदङ्घ्रिसरोजालिङ्गनव्यसनतत्परचेताः वस्त्ववस्त्विदमयत्नत एव त्वां कदा समवलोकयितास्मि ॥ ९.२०॥ अविच्छेदभङ्गाख्यं दशमं स्तोत्रम् । न सोढव्यमवश्यं ते जगदेकप्रभोरिदम् माहेश्वराश्च लोकानामितरेषां समाश्च यत् ॥ १०.१॥ ये सदैवानुरागेण भवत्पादानुगामिनः यत्र तत्र गता भोगांस्ते कांश्चिदुपभुञ्जते ॥ १०.२॥ भर्ता कालान्तको यत्र भवांस्तत्र कुतो रुजः तत्र चेतरभोगाशा का लक्ष्मीर्यत्र तावकी ॥ १०.३॥ क्षनमात्रसुखेनापि विभुर्येनासि लभ्यसे तदैव सर्वः कालोऽस्य त्वदानन्देन पूर्यते ॥ १०.४॥ आनन्दरसबिन्दुस्ते चन्द्रमा गलितो भुवि सूर्यस्तथा ते प्रसृतः संहारी तेजसः कणः ॥ १०.५॥ बलिं यामस्तृतीयाय नेत्रायास्मै तव प्रभो अलौकिकस्य कस्यापि माहात्म्यस्यैकलक्ष्मणे ॥ १०.६॥ तेनैव दृष्टोऽसि भवद्दर्शनाद्योऽतिहृष्यति कथञ्चिद्यस्य वा हर्षः कोऽपि तेन त्वमीक्षितः ॥ १०.७॥ येषां प्रसन्नोऽसि विभो यैर्लब्धं हृदयं तव आकृष्य त्वत्पुरात्तैस्तु बाह्यमाभ्यन्तरीकृतम् ॥ १०.८॥ त्वदृते निखिलं विश्वं समदृग्यातमीक्ष्यताम् ईश्वरः पुनरेतस्य त्वमेको विषमेक्षणः ॥ १०.९॥ आस्तां भवत्प्रभावेण विना सत्तैव नास्ति यत् त्वद्दूषणकथा येषां त्वदृते नोपपद्यते ॥ १०.१०॥ बाह्यान्तरान्तरायालीकेवले चेतसि स्थितिः त्वयि चेत्स्यान्मम विभो किमन्यदुपयुज्यते ॥ १०.११॥ अन्ये भ्रमन्ति भगवन्नात्मन्येवातिदुःस्थिताः अन्ये भ्रमन्ति भगवन्नात्मन्येवातिसुस्थिताः ॥ १०.१२॥ अपीत्वापि भवद्भक्तिसुधामनवलोक्य च त्वामीश त्वत्समाचारमात्रात्सिद्ध्यन्ति जन्तवः ॥ १०.१३॥ भृत्या वयं तव विभो तेन त्रिजगतां यथा बिभर्ष्यात्मानमेवं ते भर्त्तव्या वयमप्यलम् ॥ १०.१४॥ परानन्दामृतमये दृष्टोऽपि जगदात्मनि त्वयि स्पर्शरसेऽत्यन्ततरसुत्कण्ठितो(?)ऽस्मि ते ॥ १०.१५॥ देव दुःखान्यशेषाणि यानि संसारिणामपि घृत्याख्यभवदीयात्मयुतान्यायान्ति सह्यताम् ॥ १०.१६॥ सर्वज्ञे सर्वशक्तौ च त्वय्येव सति चिन्मये सर्वथाप्यसतो नाथ युक्तास्य जगतः प्रथा ॥ १०.१७॥ त्वत्प्राणिताः स्फुरन्तीमे गुणा लोष्टोपमा अपि नृत्यन्ति पवनोद्धूताः कार्पासाः पिचवो यथा ॥ १०.१८॥ यदि नाथ गुणेष्वात्माभिमानो न भवेत्ततः केन हीयेत जगतस्त्वदेकात्मतया प्रथा ॥ १०.१९॥ वन्द्यास्तेऽपि महीयांसः प्रलयोपगता अपि त्वत्कोपपावकस्पर्शपूता ये परमेश्वर ॥ १०.२०॥ महाप्रकाशवपुषि विस्पष्टे भवति स्थिते सर्वतोऽपीश तत्कस्मात्तमसि प्रसराम्यहम् ॥ १०.२१॥ अविभागो भवानेव स्वरूपममृतं मम तथापि मर्त्यधर्माणामहमेवैकमास्पदम् ॥ १०.२२॥ महेश्वरेति यस्यास्ति नामकं वाग्विभूषणम् प्रणामाङ्कश्च शिरसि स एवैकः प्रभावितः ॥ १०.२३॥ सदसच्च भवानेव येन तेनाप्रयासतः स्वरसेनैव भगवंस्तथा सिद्धिः कथं न मे ॥ १०.२४॥ शिवदासः शिवैकात्मा किं यन्नासादयेत्सुखम् तर्प्योऽस्मि देवमुख्यानामपि येनामृतासवैः ॥ १०.२५॥ हृन्नाभ्योरन्तरालस्थः प्राणिनां पित्तविग्रहः ग्रससे त्वं महावह्निः सर्वं स्थावरजङ्गमम् ॥ १०.२६॥ औत्सुक्यविश्वसितनामैकादशं स्तोत्रम् । जगदिदमथवा सुहृदो बन्धुजनो वा न भवति मम किमपि त्वं पुनरेतत्सर्वं यदा तदा कोऽपरो मेऽस्तु ॥ ११.१॥ स्वामिन्महेश्वरस्त्वं साक्षात्सर्वं जगत्त्वमेवेति वस्त्वेव सिद्धिमेत्विति याच्ञा तत्रापि याच्ञैव ॥ ११.२॥ त्रिभुवनाधिपतित्वमपीह यत्तृणमिव प्रतिभाति भवज्जुषः किमिव तस्य फलं शुभकर्मणो भवति नाथ भवत्स्मरणादृते ॥ ११.३॥ येन नैव भवतोऽस्ति विभिन्नं किञ्चनापि जगतां प्रभवश्च त्वद्विजृम्भितमतोऽद्भुतकर्मस्वप्युदेति न तव स्तुतिबन्धः ॥ ११.४॥ त्वन्मयोऽस्मि भवदर्चननिष्ठः सर्वदाहमिति चाप्यविरामम् भावयन्नपि विभो स्वरसेन स्वप्नगोऽपि न तथा किमिव स्याम् ॥ ११.५॥ ये मनागपि भवच्चरणाब्जोद्भूतसौरभलवेन विमृष्टः तेषु विस्रमिव भवति समस्तं भोगजातममरैरपि मृग्यम् ॥ ११.६॥ हृदि ते न तु विद्यतेऽन्यदन्यद्वचने कर्मणि चान्यदेव शम्भो परमार्थसतोऽप्यनुग्रहो वा यदि वा निग्रह एक एव कार्यः ॥ ११.७॥ मूढोऽस्मि दुःखकलितोऽस्मि जरादिदोषभीतोऽस्मि शक्तिरहितोऽस्मि तवाश्रितोऽस्मि शम्भो तथा कलय शीघ्रमुपैमि येन सर्वोत्तमां धुरमपोज्झितदुःखमार्गः ॥ ११.८॥ त्वत्कर्णदेशम धिशय्य महार्घभावमाक्रन्दितानि मम तुच्छतराणि यान्ति वंशान्तरालपतितानि जलैकदेशखण्डानि मौक्तिकमणित्वमिवोद्वहन्ति ॥ ११.९॥ किमिव च लभ्यते बत न तैरपि नाथ जनैः क्षणमपि कैतवादपि च ये तव नाम्नि रताः शिशिरमयूखशेखर तथा कुरु येन मम क्षतमरणोऽणिमादिकमुपैमि यथा विभवम् ॥ ११.१०॥ शम्भो शर्व शशङ्कशेखर शिव त्र्यक्षाक्षमालाधर श्रीमन्नुग्रकपाललाञ्छन लसद्भीमत्रिशूलायुध कारुण्याम्बुनिधे त्रिलोकरचनाशीलोग्रशक्त्यात्मक श्रीकण्ठाशु विनाशयाशुभभरानाधत्स्वसिद्धिं पराम् ॥ ११.११॥ तत्किं नाथ भवेन्न यत्र भगवान्निर्मातृतामश्नुते भावः स्यात्किमु तस्य चेतनवतो नाशास्ति यं शङ्करः इत्थं ते परमेश्वराक्षतमहाशक्तेः सदा संश्रितः संसारेऽत्र निरन्तराधिविधुरः क्लिश्याम्यहं केवलम् ॥ ११.१२॥ यद्यप्यत्र वरप्रदोद्धततमाः पीडाजरामृत्यव एते वा क्षणमासतां बहुमतः शब्दादिरेवास्थिरः तत्रापि स्पृहयामि सन्ततसुखाकाङ्क्षी चिरं स्थास्नवे भोगास्वादयुतत्वदङ्घ्रिकमलध्यानाग्र्य जीवातवे ॥ ११.१३॥ हे नाथ प्रणतार्तिनाशनपटो श्रेयोनिधे धूर्जटे दुःखैकायतनस्य जन्ममरणत्रस्तस्य मे साम्प्रतम् तच्चेष्टस्व यथा मनोज्ञविषयास्वादप्रदा उत्तमा जीवन्नेव समश्नुवेऽहमचलाः सिद्धीस्त्वदर्चापरः ॥ ११.१४॥ नमो मोहमहाध्वान्तध्वंसनानन्यकर्मणे सर्वप्रकाशातिशयप्रकाशायेन्दुलक्ष्मणे ॥ ११.१५॥ रहस्यनिर्देशनाम द्वादशं स्तोत्रम् । सहकारि न किञ्चिदिष्यते भवतो न प्रतिबन्धकं दृषि भवतैव हि सर्वमाप्लुतं कथमद्यापि तथापि नेक्षसे ॥ १२.१॥ अपि भावगणादपीन्द्रियप्रचयादप्यवबोधमध्यतः प्रभवन्तमपि स्वतः सदा परिपश्येयमपोढविश्वकम् ॥ १२.२॥ कथं ते जायेरन् कथमपि च ते दर्शनपथं व्रजेयुः केनापि प्रकृतिमहताङ्केन खचितः तथोत्थायोत्थाय स्थलजलतृणादेरखिलतः पदार्थद्यान्सृष्टिस्रवदमृतपूरैर्(?) विकिरसि ॥ १२.३॥ साक्षत्कृत भवद्रूपप्रसृतामृततर्पिताः उन्मूलिततृषो मत्ता विचरन्ति यथारुचि ॥ १२.४॥ न तदा न सदा न चैकदेत्यपि सा यत्र न कालधीर्भवेत् तदिदं भवदीयदर्शनं न च नित्यं न च कथ्यतेऽन्यथा ॥ १२.५॥ त्वद्विलोकनसमुत्कचेतसो योगसिद्धिरियती सदास्तु मे यद्विशेयमभिसन्धिमात्रतस्त्वत्सुधासदनमर्चनाय ते ॥ १२.६॥ निर्विकल्पभवदीयदर्शनप्रप्तिफुल्लमनसां महात्मनाम् उल्लसन्ति विमलानि हेलया चेष्टितानि च वचांसि च स्फुटम् ॥ १२.७॥ भवन्भवदीयपादयोर्निवसन्नन्तर एव निर्भयः भवभूमिषु तासु तास्वहं प्रभुमर्चेयमनर्गलक्रियः ॥ १२.८॥ भवदङ्घ्रिसरोरुहोदरे परिलीनो गलितपरैषणः अतिमात्रमधूपयोगतः परितृप्तो विचरेयमिच्छया ॥ १२.९॥ यस्य दम्भादिव भवत्पूजासङ्कल्प उत्थितः तस्याप्यवश्यमुदितं सन्निधानं तवोचितम् ॥ १२.१०॥ भगवन्नितरानपेक्षिणा नितरामेकरसेन चेतसा सुलभं सकलोपशायिनं प्रभुमातृप्ति पिबेयमस्मि किम् ॥ १२.११॥ त्वया निराकृतं सर्वं हेयमेतत्तदेव तु त्वन्मयं समुपादेयमित्ययं सारसङ्ग्रहः ॥ १२.१२॥ भवतोऽन्तरचारि भावजातं प्रभुवन्मुख्यतयैव पूजितं तत् भवतो बहिरप्यभावमात्रा कथमीशान् भवेत्समर्च्यते वा ॥ १२.१३॥ निःशब्दं निर्विकल्पं च निर्व्याक्षेपमथानिसम् क्षोभेऽप्यध्यक्षमी क्षेयं त्र्यक्ष त्वामेव सर्वतः ॥ १२.१४॥ प्रकटय निजधाम देव यस्मिंस्त्वमसि सदा परमेश्वरीसमेतः प्रभुचरणरजःसमानकक्ष्याः किमविश्वासपदं भान्ति भृत्याः ॥ १२.१५॥ दर्शनपथमुपयातोऽप्यपसरसि कुतो ममेश भृत्यस्य क्षणमात्रकमिह न भवसि कस्य न जन्तोर्दृशोर्विषयः ॥ १२.१६॥ ऐक्यसंविदमृताच्छधारया सन्ततप्रसृतया कदा विभो प्लावनात्परमभेदमानयंस्त्वां निजं च वपुराप्नुयां मुदम् ॥ १२.१७॥ अहमित्यमुतोऽवरुद्धलोकाद्भवदीयात्प्रतिपत्तिसारतो मे अणुमात्रकमेव विश्वनिष्ठं घटतां येन भवेयमर्चिता ते ॥ १२.१८॥ अपरिमितरूपमहं तं तं भावं प्रतिक्षणं पश्यन् त्वामेव विश्वरूपं निजनाथं साधु पश्येयम् ॥ १२.१९॥ भवदङ्गगतं तमेव कस्मान्न मनः पर्यटतीष्टमर्थमर्थम् प्रकृतिक्षतिरस्ति नो तथास्य मम चेच्छा परिपूर्यते परैव ॥ १२.२०॥ शतशः किल ते तवानुभावाद्भगवन् केऽप्यमुनैव चक्षुषा ये अपि हालिकचेष्टया चरन्तः परिपश्यन्ति भवद्वपुः सदाग्रे ॥ १२.२१॥ न सा मतिरुदेति या न भवति त्वदिच्छामयी सदा शुभमथेतरद्भगवतैवमाचर्यते अतोऽस्मि भवदात्मको भुवि यथा तथा सञ्चरन् स्थि तोऽनिशमबाधितत्वदमलङ्घ्रिपूजोत्सवः ॥ १२.२२॥ भवदीयगभीरभाषितेषु प्रतिभा सम्यगुदेतु मे पुरोऽतः तदनुष्ठितशक्तिरप्यतस्तद्भवदर्चाव्यसनं च निर्विरामम् ॥ १२.२३॥ व्यवहारपदेऽपि सर्वदा प्रतिभात्वर्थकलाप एष माम् भवतोऽवयवो यथा न तु स्वत एवादरणीयतां गतः ॥ १२.२४॥ मनसि स्वरसेन यत्र तत्र प्रचरत्यप्यहमस्य गोचरेषु प्रसृतोऽप्यविलोल एव युष्मत्परिचर्याचतुरः सदा भवेयम् ॥ १२.२५॥ भगवन् भवदिच्छयैव दासस्तव जातोऽस्मि परस्य नात्र शक्तिः कथमेष तथापि वक्त्रबिम्बं तव पश्यामि न जातु चित्रमेतत् ॥ १२.२६॥ समुत्सुकास्त्वां प्रति ये भवन्तं प्रत्यर्थरूपादवलोकयन्ति तेषामहो किं तदुपस्थितं स्यात्किं साधनं वा फलितं भवेत्तत् ॥ १२.२७॥ भावा भावतया सन्तु भवद्भावेन मे भव तथा न किञ्चिदप्यस्तु न किञ्चिद्भवतोऽन्यथा ॥ १२.२८॥ यन्न किञ्चिदपि तन्न किञ्चिदप्यस्तु किञ्चिदपि किञ्चिदेव मे सर्वथा भवतु तावता भवान् सर्वतो भवति लब्धपूजितः ॥ १२.२९॥ सङ्ग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् । सङ्ग्रहेन सुखदुःखलक्षणं मां प्रति स्थितमिदं श‍ृणु प्रभो सौख्यमेष भवता समागमः स्वामिना विरह एव दुःखिता ॥ १३.१॥ अन्तरप्यतितरामणीयसी या त्वदप्रथनकालिकास्ति मे तामपीश परिमृज्य सर्वतः स्वं स्वरूपममलं प्रकाशय ॥ १३.२॥ तावके वपुषि विश्वनिर्भरे चित्सुधारसमये निरत्यये तिष्ठतः सततमर्चतः प्रभुं जीवितं मृतमथान्यदस्तु मे ॥ १३.३॥ ईश्वरोऽहमहमेव रूपवान् पण्डितोऽस्मि सुभगोऽस्मि कोऽपरः मत्समोऽस्ति जगतीति शोभते मानिता त्वदनुरागिणः परम् ॥ १३.४॥ देवदेव भवदद्वयामृताख्यातिसंहरणलब्धजन्मना तद्यथास्थितपदार्थसंविदा मां कुरुष्व चरणार्चनोचितम् ॥ १३.५॥ ध्यायते तदनु दृश्यते ततः स्पृश्यते च परमेश्वरः स्वयम् यत्र पूजनमहोत्सवः स मे सर्वदास्तु भवतोऽनुभावतः ॥ १३.६॥ यद्यथास्थितपदार्थदर्शनं युष्मदर्चनमहोत्सवश्च यः युग्ममेतदितरेतराश्रयं भक्तिशालिषु सदा विजृम्भते ॥ १३.७॥ तत्तदिन्द्रियमुखेन सन्ततं युष्मदर्चनरसायनासवम् सर्वभावचषकेषु पूरितेष्वापिबन्नपि भवेयमुन्मदः ॥ १३.८॥ अन्यवेद्यमणुमात्रमस्ति न स्वप्रकाशमखिलं विजृम्भते यत्र नाथ भवतः पुरे स्थितं तत्र मे कुरु सदा तवार्चितुः ॥ १३.९॥ दासधाम्नि विनियोजितोऽप्यहं स्वेच्छयैव परमेश्वर त्वया दर्शनेन न किमस्मि पात्रितः पादसंवहनकर्मणापि वा ॥ १३.१०॥ शक्तिपातसमये विचारणं प्राप्तमीश न करोषि कर्हिचित् अद्य मां प्रति किमागतं यतः स्वप्रकाशनविधौ विलम्बसे ॥ १३.११॥ तत्र तत्र विषये बहिर्विभात्यन्तरे च परमेश्वरीयुतम् त्वां जगत्त्रितयनिर्भरं सदा लोकयेय निजपाणिपूजितम् ॥ १३.१२॥ स्वामिसौधमभिसन्धिमात्रतो निर्विबन्धमधिरुह्य सर्वदा स्यां प्रसाद परमामृतासवापानकेलिपरिलब्धनिर्वृतिः ॥ १३.१३॥ यत्समस्तसुभगार्थवस्तुषु स्पर्शमात्रविधिना चमत्कृतिम् तां समर्पयति तेन ते वपुः पूजयन्त्यचलभक्तिशालिनः ॥ १३.१४॥ स्फारयस्यखिलमात्मना स्फुरन् विश्वमामृशसि रूपमामृशन् यत्स्वयं निजरसेन घुर्णसे तत्समुल्लसति भावमण्डलम् ॥ १३.१५॥ योऽविकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः स्वात्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ॥ १३.१६॥ कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम् अप्युपात्तममृतं भवद्वपुर्भेदवृत्ति यदि रोचते न मे ॥ १३.१७॥ त्वत्प्रलापमयरक्तगीतिकानि त्य युक्तवदनोपशोभितः स्यामथापि भवदर्चनक्रियाप्रेयसीपरिगताशयः सदा ॥ १३.१८॥ ईहितं न बत पारमेश्वरं शक्यते गणयितुं तथा च मे दत्तमप्यमृतनिर्भरं वपुः स्वं न पातुमनुमन्यते तथा ॥ १३.१९॥ त्वामगाधमविकल्पमद्वयं स्वं स्वरूपमखिलार्थघस्मरम् आविशन्नहमुमेश सर्वदा पूजयेयमभिसंस्तुवीय च ॥ १३.२०॥ जयस्तोत्रनाम चतुर्दशं स्तोत्रम् । जयलक्ष्मीनिधानस्य निजस्य स्वामिनः पुरः जयोद्घोषणपीयूषरसमास्वादये क्षणम् ॥ १४.१॥ जयैकरुद्रैकशिव महादेव महेश्वर पार्वतीप्रणयिञ्शर्व सर्वगीर्वाणपूर्वज ॥ १४.२॥ जय त्रैलोक्यनाथैकलाञ्छनालिकलोचन जय पीतर्तलोकार्तिकालकूटाङ्ककन्धर ॥ १४.३॥ जय मूर्तत्रिशक्त्यात्मिशतशूलोल्लसत्कर जयेच्छामात्रसिद्दार्थपूजार्हचरणाम्बुज ॥ १४.४॥ जय शोभशतस्यन्दिलोकोत्तरवपुर्धर जयैकजटिकाक्षीणगङ्गाकृत्यात्तभस्मक ॥ १४.५॥ जय क्षीरोदपर्यस्तज्योत्स्नाच्छायानुलेपन जयेश्वराङ्गसङ्गोत्थरत्नकान्ताहिमण्डन ॥ १४.६॥ जयाक्षयैकशीतांशुकलासदृशसंश्रय जय गङ्गासदार्ब्धविश्वैश्वर्याभिषेचन ॥ १४.७॥ जयाधराङ्गसंस्पर्शपावनीकृतगोकुल जय भक्तिमदाबद्धगोष्ठीनियतसन्निधे ॥ १४.८॥ जय स्वेच्छातपोदेशविप्रलम्भितबालिश जय गौरीपरिष्वङ्गयोग्यसौभाग्यभाजन ॥ १४.९॥ जय भक्तिरसार्द्रार्द्रभावोपायनलम्पट जय भक्तिमदोद्दामभक्तवाङ्नृत्ततोषित ॥ १४.१०॥ जय ब्रह्मादिदेवेशप्रभावप्रभवव्यय जयलोकेश्वरश्रेणिशिरोविधृतशासन ॥ १४.११॥ जयसर्वजगन्न्यस्तस्वमुद्राव्यक्तवैभव जयात्मदानपर्यन्तविश्वेश्वरमहेश्वर ॥ १४.१२॥ जय त्रैलोक्यसर्गेच्छावसरासद्वितीयक जयैश्वर्यभरोद्वाहदेवीमात्रसहायक ॥ १४.१३॥ जयाक्रमसमाक्रान्तसमस्तभुवनत्रय जयाविगीतमाबालगीयमानेश्वरध्वने ॥ १४.१४॥ जयानुकम्पादिगुणानपेक्षसहजोन्नते जय भीष्ममहामृत्युघटनापूर्वभैरव ॥ १४.१५॥ जय विश्वक्षयोच्चण्डक्रियानिष्परिपन्थिक जय श्रेयःशतगुणानुगनामानुकीर्तन ॥ १४.१६॥ जय हेलावितीर्नैतदमृताकरसागर जय विश्वक्षयक्षेपिक्षणकोपाशुशुक्षणे ॥ १४.१७॥ जय मोहान्धकारान्धजीवलोकैकदीपक जय प्रसुप्तजगतीजागरूकाधिपूरुष ॥ १४.१८॥ जय देहाद्रिकुञ्जान्तर्निकूजञ्जीवजीवक जय सन्मानसव्योमविलासिवरसारस ॥ १४.१९॥ जय जाम्बूनदोदग्रधातूद्भवगिरीश्वर जय पापिषु निन्दोल्कापातनोत्पातचन्द्रमः ॥ १४.२०॥ जय कष्टतपःक्लिष्टमुनिदेवदुरासद जय सर्वदशारूढभक्तिमल्लोकलोकित ॥ १४.२१॥ जय स्वसम्पत्प्रसरपत्रीकृतनिजाश्रित जय प्रपन्नजनतालालनैकप्रयोजन ॥ १४.२२॥ जय सर्गस्थितिध्वंसकारणैकावदानक जय भक्तिमदालोललीलोत्पलमगोत्सव ॥ १४.२३॥ जय जयभाजन जय जितजन्मजरामरण जय जगज्ज्येष्ठ जय जय जय जय जय जय जय जय जय जय जय जय जय त्र्यक्ष ॥ १४.२४॥ भक्तिस्तोत्रनाम पञ्चदशं स्तोत्रम् । त्रिमलक्षालिनो ग्रन्थाः सन्ति तत्पारगास्तथा योगिनः पण्डिताः स्वस्थास्त्वद्भक्ता एव तत्त्वतः ॥ १५.१॥ मायीयकालनियतिरागाद्याहारतर्पिताः चरन्ति सुखिनो नाथ भक्तिमन्तो जगत्तटे ॥ १५.२॥ रुदन्तो वा हसन्तो वा त्वामुच्चैः प्रलपन्त्यमी भक्ताः स्तुतिपदोच्चारोपचाराः पृथगेव ते ॥ १५.३॥ न विरक्तो न चापीशो मोक्षाकाङ्क्षी त्वदर्चकः भवेयमपि तूद्रिक्तभक्त्यासवरसोन्मदः ॥ १५.४॥ बाह्यं हृदय एवान्तरभिहृत्यैव योऽर्चति त्वामीश भक्तिपीयूषरसपूरैर्नमामि तम् ॥ १५.५॥ धर्माधर्मात्मनोरन्तः क्रिययोर्ज्ञानयोस्तथा सुखदुःखात्मनोर्भक्ताः किमप्यास्वादयन्त्यहो ॥ १५.६॥ चराचरपितः स्वामिनप्यन्धा अपि कुष्ठिनः शोभन्ते परमुद्दामभवद्भक्तिविभूषणाः ॥ १५.७॥ शिलोञ्छपिच्छकशिपुविच्छायाङ्गा अपि प्रभो भवद्भक्तिमहोष्मणो राजराजमपीशते ॥ १५.८॥ सुधार्द्रायां भवद्भक्तौ लुठताप्यारुरुक्षुणा चेतसैव विभोऽर्चन्ति केचित्त्वामभितः स्थिताः ॥ १५.९॥ रक्षणीयं वर्धनीयं बहुमान्यमिदं प्रभो संसारदुर्गतिहरं भवद्भक्तिमहाधनम् ॥ १५.१०॥ नाथ ते भक्तजनता यद्यपि त्वयि रागिणी तथापीर्ष्यां विहायास्यास्तुष्टास्तु स्वामिनी सदा ॥ १५.११॥ भवद्भावः पुरो भावी प्राप्ते त्वद्भक्तिसम्भवे लब्धे दुग्धमहाकुम्भे हता दधनि गृध्नुता ॥ १५.१२॥ किमियं न सिद्धिरतुला किं वा मुख्यं न सौख्यमास्रवति भक्तिरुपचीयमाना येयं शम्भोः सदातनी भवति ॥ १५.१३॥ मनसि मलिने मदीयेमग्ना त्वद्भक्तिमणिलता कष्टम् न निजानपि तनुते तानपौरुषेयान् स्वसम्पदुल्लासान् ॥ १५.१४॥ भक्तिर्भगवति भवति त्रिलोकनाथे ननूत्तमा सिद्धिः किं त्वणिमादिकविरहात्सैव न पूर्णेति चिन्ता मे ॥ १५.१५॥ बाह्यतोऽन्तरपि चोत्कटोन्मिषत्त्र्यम्बकस्तवकसौरभाः शुभाः वासयन्त्यपि विरुद्धवासनान् योगिनो निकटवासिनोऽखिलान् ॥ १५.१६॥ ज्योतिरस्ति कथयापि न किं चिद्विश्वमप्यतिसुषुप्तमशेषम् यत्र नाथ शिवरात्रिपदेऽस्मिन्नित्यमर्चयति भक्तजनस्त्वाम् ॥ १५.१७॥ सत्त्वं सत्यगुणे शिवे भगवति स्फारीभवत्वर्चने चूडायां विलसन्तु शङ्करपदप्रोद्यद्रजःसङ्चयाः रागादिस्मृतिवासनामपि समुच्छेत्तुं तमो जृम्भतां शम्भो मे भवतात्त्वदात्मविलये त्रैगुण्यवर्गोऽथवा ॥ १५.१८॥ संसाराध्वा सुदूरः खरतरविविधव्याधिदग्धाङ्गयष्टिः भोगा नैवोपभुक्ता यदपि सुखमभूज्जातु नन्नो चिराय इत्थं व्यर्थोऽस्मि जातः शशिधरचरणाक्रान्तिकान्तोत्तमाङ्ग- स्त्वद्भक्तश्चेति तन्मे कुरु सपदि महासम्पदो दीर्घदीर्घाः ॥ १५.१९॥ पाशानुद्भेदनाम षोडशं स्तोत्रम् । न किञ्चिदेव लोकानां भवदावरणं प्रति वर्यत्किं चिदेव भूतानांएं चित्णरेस्वरपरीक्सा न किञ्चिदेव भक्तानां भवदावरणं प्रति ॥ १६.१॥ अप्युपायक्रमप्राप्यः सङ्कुलोऽपि विशेषणैः भक्तिभाजां भवानात्मा सकृच्छुद्धोऽवभासते ॥ १६.२॥ जयन्तोऽपि हसन्त्येते जिता अपि हसन्ति च भवद्भक्तिसुधापानमत्ताः केऽप्येव ये प्रभो ॥ १६.३॥ शुष्ककं मैव सिद्धेय मैव मुच्येय वापि तु स्वादिष्ठपरकाष्टाप्तत्वद्भक्तिरसनिर्भरः ॥ १६.४॥ यथैवज्ञातपूर्वोऽयं भवद्भक्तिरसो मम घटितस्तद्वदीशान स एव परिपुष्यतु ॥ १६.५॥ सत्येन भगवन्नान्यः प्रार्थनाप्रसरोऽस्ति मे केवलं स तथा कोऽपि भक्त्यावेशोऽस्तु मे सदा ॥ १६.६॥ भक्तिक्षीवोऽपि कुप्येयं भवायानुशयीय च तथा हसेयमुद्यां च रटेयं च शिवेत्यलम् ॥ १६.७॥ विषमस्थोऽपि स्वस्थोऽपि रुदन्नपि हसन्नपि गम्भीरोऽपि विचित्तोऽपि भवेयं भक्तितः प्रभो ॥ १६.८॥ भक्तानां नास्ति संवेद्यं त्वदन्तर्यदि वा बहिः चिद्धर्मा यत्र न भवान्निर्विकल्पः स्थितः स्वयम् ॥ १६.९॥ भक्ता निन्दानुकरेऽपि तवामृतकणैरिव हृष्यन्त्येवान्तराविद्धास्तीक्ष्णरोमाञ्चसूचिभिः ॥ १६.१०॥ दुःखापि वेदना भक्तिमतां भोगाय कल्पते येषां सुधार्द्रा सर्वैव संवित्त्वच्चन्द्रिकामयी ॥ १६.११॥ यत्र तत्रोपरुद्धानां भक्तानां बहिरन्तरे निर्व्याजं त्वद्वपुःस्पर्शरसास्वादसुखं समम् ॥ १६.१२॥ तवेश भक्तेरर्चायां दैन्यांशं द्वयसंश्रयम् विलुप्यास्वादयन्त्येके वपुरच्छं सुधामयम् ॥ १६.१३॥ भ्रान्तास्तीर्थदृशो भिन्ना भ्रान्तेरेव हि भिन्नता निष्प्रतिद्वन्द्वि वस्त्वेकं भक्तानां त्वं तु राजसे ॥ १६.१४॥ मानावमानरागादिनिष्पाकविमलं मनः यस्यासौ भक्तिमांल्लोकतुल्यशीलः कथं भवेत् ॥ १६.१५॥ रागद्वेषन्धकारोऽपि येषां भक्तित्विषा जितः तेषां महीयसामग्रे कतमे ज्ञानशालिनः ॥ १६.१६॥ यस्य भक्तिसुधास्नानपानादिविधिसाधनम् तस्य प्रारब्धमध्यान्तदशासूच्चैः सुखासिका ॥ १६.१७॥ कीर्त्यश्चिन्तापदं मृग्यः पूज्यो येन त्वमेव तत् भवद्भक्तिमतां श्लाघ्या लोकयात्रा भवन्मयी ॥ १६.१८॥ मुक्तिसंज्ञा विपक्वाया भक्तेरेव त्वयि प्रभो तस्यामाद्यदशारूढा मुक्तकल्पा वयं ततः ॥ १६.१९॥ दुःखागमोऽपि भूयान्मे त्वद्भक्तिभरितात्मनः त्वत्पराची विभो मा भूदपि सौख्यपरम्परा ॥ १६.२०॥ त्वं भक्त्या प्रीयसे भक्तिः प्रीते त्वयि च नाथ यत् तदन्योन्याश्रयं युक्तं यथा वेत्थ त्वमेव तत् ॥ १६.२१॥ साकारो वा निराकरो वान्तर्वा बहिरेव वा भक्तिमत्तात्मनां नाथ सर्वथासि सुधामयः ॥ १६.२२॥ अस्मिन्नेव जगत्यन्तर्भवद्भक्तिमतः प्रति हर्षप्रकाशनफलमन्यदेव जगत्स्थितम् ॥ १६.२३॥ गुह्ये भक्तिः परे भक्तिर्भक्तिर्विश्वमहेश्वरे त्वयि शम्भौ शिवे देव भक्तिर्नाम किमप्यहो ॥ १६.२४॥ भक्तिर्भक्तिः परे भक्तिर्भक्तिर्नाम समुत्कटा तारं विरौमि यत्तीव्रा भक्तिर्मेऽस्तु परं त्वयि ॥ १६.२५॥ यतोऽस्मि सर्वशोभानां प्रसवावनिरीश तत् त्वयि लग्नमनर्घं स्याद्रत्नं वा यदि वा तृणम् ॥ १६.२६॥ आवेदकादा च वेद्याद्येषां संवेदनाध्वनि भवता न वियोगोऽस्ति ते जयन्ति भवज्जुषः ॥ १६.२७॥ संसारसदसो बाह्ये कैश्चित्त्वं परिरभ्यसे स्वामिन् परैस्तु तत्रैव ताम्यद्भिस्त्यक्तयन्त्रणैः ॥ १६.२८॥ पानाशनप्रसाधनसम्भुक्तसमस्तविश्वया शिवया प्रलयोत्सवसरभसया दृढमुपगूढं शिवं वन्दे ॥ १६.२९॥ परमेश्वरता जयत्यपूर्वा तव विश्वेश यदीशितव्यशून्या अपरापि तथैव ते ययेदं जगदाभाति यथा तथा न भाति ॥ १६.३०॥ दिव्यक्रीडाबहुमाननाम सप्तदसं स्तोत्रम् । अहो कोऽपि जयत्येष स्वादुः पूजामहोत्सवः यतोऽमृतरसास्वादमश्रूण्यपि ददत्यलम् ॥ १७.१॥ व्यापाराः सिद्धिदाः सर्वे ये त्वत्पूजापुरःसराः भक्तानां त्वन्मयाः सर्वे स्वयं सिद्धय एव ते ॥ १७.२॥ सर्वदा सर्वभावेषु युगपत्सर्वरूपिणम् त्वामर्चयन्त्यविश्रन्तं ये ममैतेऽधिदेवताः ॥ १७.३॥ ध्यानायसतिरस्कारसिद्धस्त्वत्स्पर्शनोत्सवः पूजाविधिरिति ख्यातो भक्तानां स सदास्तु मे ॥ १७.४॥ भक्तानां समतासारविषुवत्समयः सदा त्वद्भावरसपीयूषरसेन्नैषां सदार्चनम् ॥ १७.५॥ यस्यानारम्भपर्यन्तौ न च कालक्रमः प्रभो पूजात्मासौ क्रिया तस्याः कर्तारस्त्वज्जुषः परम् ॥ १७.६॥ ब्रह्मादीनामपीशास्ते ते च सौभाग्यभागिनः येषां स्वप्नेऽपि मोहेऽपि स्थितस्त्वत्पूजनोत्सवः ॥ १७.७॥ जपतां जुह्वतां स्नातां ध्यायतां न च केवलम् भक्तानां भवदभ्यर्चामहो यावद्यदा तदा ॥ १७.८॥ भवत्पूजासुधास्वादसम्भोगसुखिनः सदा इन्द्रादीनामथ ब्रह्ममुख्यानामस्ति कः समः ॥ १७.९॥ जगत्क्षोभैकजनके भवत्पूजामहोत्सवे यत्प्राप्यं प्राप्यते किञ्चिद्भक्ता एव विदन्ति तत् ॥ १७.१०॥ त्वद्धाम्नि चिन्मये स्थित्वा षट्त्रिंशत्तत्त्वकर्मभिः कायवाक्चित्तचेष्टाद्यैरर्चये त्वां सदा विभो ॥ १७.११॥ भवत्पूजामयासङ्गसम्भोगसुखिनो मम प्रयातु कालः सकलोऽप्यनन्तोऽपीयदर्थये ॥ १७.१२॥ भवत्पूजामृतरसाभोगलम्पटत विभो विवर्धतामनुदिनं सदा च फलतां मम ॥ १७.१३॥ जगद्विलयसञ्जातसुधैकरसनिर्भरे त्वदब्धौ त्वां महात्मानमर्चन्नासीय सर्वदा ॥ १७.१४॥ अशेषवासनाग्रन्थिविच्छेदसरलं सदा मनो निवेद्यते भक्तैः स्वादु पूजाविधौ तव ॥ १७.१५॥ अधिष्ठायैव विषयानिमाः करणवृत्तयः भक्तानां प्रेषयन्ति स्वत्पूजार्थममृतासवम् ॥ १७.१६॥ भक्तानां भक्तिसंवेगमहोष्मविवशात्मनाम् कोऽन्यो निर्वाणहेतुः स्यात्त्वत्पूजामृतमज्जनात् ॥ १७.१७॥ सततं त्वत्पदाभ्यर्चासुधापानमहोत्सवः त्वत्प्रसादैकसम्प्राप्तिहेतुर्मे नाथ कल्पताम् ॥ १७.१८॥ अनुभूयासमीशान प्रतिकर्म क्षणात्क्षणम् भवत्पूजामृतापानमदास्वादमहामुदम् ॥ १७.१९॥ दृष्टर्थ एव भक्तानां भवत्पूजामहोद्यमः तदैव यदसम्भाव्यं सुखमास्वादयन्ति ते ॥ १७.२०॥ यावन्न लब्धस्त्वत्पूजासुधास्वादमहोत्सवः तावन्नास्वादितो मन्ये लवोऽपि सुखसम्पदः ॥ १७.२१॥ भक्तानां विषयन्वेषाभासायासाद्विनैव सा अयत्नसिद्धं त्वद्धामस्थितिः पूजासु जायते ॥ १७.२२॥ न प्राप्यमस्ति भक्तनां नाप्येषामस्ति दुर्लभम् केवलं विचरन्त्येते भवत्पूजामदोन्मदाः ॥ १७.२३॥ अहो भक्तिभरोदारचेतसां वरद त्वयि स्लाघ्यः पूजाविधिः कोऽपि यो न याच्ञाकलङ्कितः ॥ १७.२४॥ का न शोभा न को ह्लादः का समृद्धिर्न वापरा को वा न मोक्षः कोऽप्येष महादेवो यदर्च्यते ॥ १७.२५॥ अन्तरुल्लसदच्छाच्छभक्तिपीयूषपोषितम् भवत्पूजोपयोगाय शरीरमिदमस्तु मे ॥ १७.२६॥ त्वत्पादपूजासम्भोगपरतन्त्रः सदा विभो भूयासं जगतामीश एकः स्वच्छन्दचेष्टितः ॥ १७.२७॥ त्वद्ध्यानदर्शनस्पर्शतृषि केषामपि प्रभो जायते शीतलस्वादु भवत्पूजामहासरः ॥ १७.२८॥ यथा त्वमेव जगतः पूजासम्भोगभाजनम् तथेश भक्तिमानेव पूजासम्भोगभाजनम् ॥ १७.२९॥ कोऽप्यसौ जयति स्वामिन् भवत्पूजामहोत्सवः षट्त्रिंशतोऽपि तत्त्वानां क्षोभो यत्रोल्लसत्यलम् ॥ १७.३०॥ नमस्तेभ्यो विभो येषां भक्तिपीयूषवारिणा पूज्यान्येव भवन्ति त्वत्पूजोपकरणान्यपि ॥ १७.३१॥ पूजारम्भे विभो ध्यात्वा मन्त्राधेयां त्वदात्मताम् स्वात्मन्येव परे भक्ता मान्ति हर्षेण न क्वचित् ॥ १७.३२॥ राज्यलाभादिवोत्फुल्लैः कैश्चित्पूजामहोत्सवे सुधासवेन सकला जगती संविभज्यते ॥ १७.३३॥ पूजामृतापानमयो येषां भोगः प्रतिक्षणम् किं देवा उत मुक्तास्ते किं वा केऽप्येव ते जनाः ॥ १७.३४॥ पूजोपकरणीभूतविश्ववेशेन गौरवम् अहो किमपि भक्तानां किमप्येव च लाघवम् ॥ १७.३५॥ पूजामयाक्षविक्षेपक्षोभादेवामृतोद्गमः भक्तानां क्षीरजलधिक्षोभादिव दिवौकसाम् ॥ १७.३६॥ पूजां के चन मन्यन्ते धेनुं कामदुघामिव सुधाधाराधिकरसां धयन्त्यन्तर्मुखाः परे ॥ १७.३७॥ भक्तानामक्षविक्षेपोऽप्येष संसारसम्मतः उपनीय किमप्यन्तः पुष्णात्यर्चामहोत्सवम् ॥ १७.३८॥ भक्तिक्षोभवशादीश स्वात्मभूतेऽर्चनं त्वयि चित्रं दैन्याय नो यावद्दीनतायाः परं फलम् ॥ १७.३९॥ उपचारपदं पूजा केषां चित्त्वत्पदाप्तये भक्तानां भवदैकात्म्यनिर्वृत्तिप्रसरस्तु सः ॥ १७.४०॥ अप्यसम्बद्धरूपार्चाभक्त्युन्मादनिरर्गलैः वितन्यमाना लभते प्रतिष्ठां त्वयि कामपि ॥ १७.४१॥ स्वादुभक्तिरसास्वादस्तब्धीभूतमनश्च्युताम् शम्भो त्वमेव ललितः पूजानां किल भाजनम् ॥ १७.४२॥ परिपूर्णानि शुद्धानि भक्तिमन्ति स्थिराणि च भवत्पूजाविधौ नाथ साधनानि भवन्तु मे ॥ १७.४३॥ अशेषपूजासत्कोशे त्वत्पूजाकर्मणि प्रभो अहो करणवृन्दस्य कापि लक्ष्मीर्विजृम्भते ॥ १७.४४॥ एषा पेशलिमा नाथ तवैव किल दृश्यते विश्वेश्वरोऽपि भृत्यैर्यदर्च्यसे यश्च लभ्यसे ॥ १७.४५॥ सदामुर्त्तादमूर्त्ताद्वा भावाद्यद्वाप्यभावतः उत्थेयान्मे प्रशस्तस्य भवत्पूजामहोत्सवः ॥ १७.४६॥ कामक्रोधाभिमानैस्त्वामुपहरीकृतैः सदा येऽर्चयन्ति नमस्तेभ्यस्तेषां तुष्टोऽस्मि तत्त्वतः ॥ १७.४७॥ जयत्येष भवद्भक्तिभाजां पूजाविधिः परः यस्तृणैः क्रियमानोऽपि रत्नैरेवोपकल्पते ॥ १७.४८॥ आविष्कारनाम अष्टादशं स्तोत्रम् । जगतोऽन्तरतो भवन्तमाप्त्वा पुनरेतद्भवतोऽन्तराल्लभन्ते जगदीश तवैव भक्तिभाजो न हि तेषामिह दूरतोऽस्ति किञ्चित् ॥ १८.१॥ क्वचिदेव भवान् क्वचिद्भवानी सकलार्थक्रमगर्भिणी प्रधाना परमार्थपदे तु नैव देव्या भवतो नापि जतत्त्रयस्य भेदः ॥ १८.२॥ नो जानते सुभगमप्यवलेपवन्तो लोकाः प्रयत्नसुभगा निखिल हि भावाः चेतः पुनर्यदिदमुद्यतमप्यवैति नैवात्मरूपमिह हा तदहो हतोऽस्मि ॥ १८.३॥ भवन्मयस्वात्मनिवासलब्धसम्पद्भराभ्यर्चितयुष्मदङ्घ्रिः न भोजनाच्छादनमप्यजस्रमपेक्षते यस्तमहं नतोऽस्मि ॥ १८.४॥ सदा भवद्देहनिवासस्वस्थोऽप्यन्तः परं दह्यत एष लोकः तवेच्छया तत्कुरु मे यथात्र त्वदर्चनानन्दमयो भवेयम् ॥ १८.५॥ स्वरसोदितयुष्मदङ्घ्रिपद्मद्वयपूजामृतपानसक्तचित्तः सकार्थचयेष्वहं भवेयं सुखसंस्पर्शनमात्रलोकयात्रः ॥ १८.६॥ सकलव्यवहारगोचरे स्फुटमन्तः स्पुरति त्वयि प्रभो उपयान्त्यपयान्ति चानिशं मम वस्तूनि विभान्तु सर्वदा ॥ १८.७॥ सततमेव तवैव पुरेऽथवाप्यरहितो विचरेयमहं त्वया क्षणलवोऽप्यथ मा स्म भवेत्स मे न विजये ननु यत्र भवन्मयः ॥ १८.८॥ भवदङ्गपरिस्रवत्सुशीतामृतपूरैर्भरिते समन्ततोऽपि भवदर्चनसम्पदेह भक्तास्तव संसारसरोऽन्तरे चरन्ति ॥ १८.९॥ महामन्त्रतरुच्छायाशीतले त्वन्महावने निजात्मनि सदा नाथ वसेयं तव पूजकः ॥ १८.१०॥ प्रतिवस्तु समस्तजीवतः प्रतिभासि प्रतिभामयो यथा मम नाथ तथा पुरः प्रथां व्रज नेत्रत्रयशूलशोभितः ॥ १८.११॥ अभिमानचरूपहारतो ममताभक्तिभरेण कल्पितात् परितोषगतः कदा भवान्मम सर्वत्र भवेद्दृशः पदम् ॥ १८.१२॥ निवसन्परमामृताब्धिमध्ये भवदर्चाविधिमात्रमग्नचित्तः सकलं जनवृत्तमाचरेयं रसयन् सर्वत एव किञ्चनापि ॥ १८.१३॥ भवदीयमिहास्तु वस्तु तत्त्वं विवरीतुं क इवात्र पात्रमर्थे इदमेव हि नामरूपचेष्टाद्यसमं ते हरते हरोऽसि यस्मात् ॥ १८.१४॥ शान्तये न सुखलिप्सुता मनाग्भक्तिसम्भृतमदेषु तैः प्रभोः मोक्षमार्गणफलापि नार्थना स्मर्यते हृदयहारिणः पुरः ॥ १८.१५॥ जागरेतरदशाथवा परा यापि काचन मनागवस्थितेः भक्तिभाजनजनस्य साखिला त्वत्सनाथमनसो महोत्सवः ॥ १८.१६॥ आमनोऽक्षवलयस्य वृत्तयः सर्वतः शिथिलवृत्तयोऽपि ताः त्वामवाप्य दृढदीर्घसंविदो नाथ भक्तिधनसोष्मणां कथम् ॥ १८.१७॥ न च विभिन्नमसृज्यत किञ्चिदस्त्यथ सुखेतरदत्र न निर्मितम् अथ च दुःखि च भेदि च सर्वथाप्यसमविस्मयधाम नमोऽस्तु ते ॥ १८.१८॥ खरनिषेधखदामृतपूरणोच्छलितधौतविकल्पमलस्य मे दलितदुर्जयसंशयवैरिणस्त्वदवलोकनमस्तु निरन्तरम् ॥ १८.१९॥ स्फुटमविश मामथाविशेयं सततं नाथ भवन्तमस्मि यस्मात् रभसेन वपुस्तवैव साक्षात्परमासत्तिगतः समर्चयेयम् ॥ १८.२०॥ त्वयि न स्तुतिशक्तिरस्ति कस्याप्यथवास्त्येव यतोऽतिसुन्दरोऽसि सततं पुनरर्थितं ममैतद्यदविश्रान्ति विलोकयेयमीशम् ॥ १८.२१॥ उद्योतनाभिधानमेकोनविंशं स्तोत्रम् । प्रार्थनाभूमिकातीतविचित्रफलदायकः जयत्यपूर्ववृत्तान्तः शिवः सत्कल्पपादपः ॥ १९.१॥ सर्ववस्तुनि च यैकनिधानात्स्वात्मनस्त्वदखिलं किल लभ्यम् अस्य मे पुनरसौ निजा आत्मा न त्वमेव घटसे परमास्ताम् ॥ १९.२॥ ज्ञानकर्ममयचिद्वपुरात्मा सर्वथैष परमेश्वर एव स्याद्वपुस्तु निखिलेषु पदार्थेष्वेषु नाम न भवेत्किमुतान्यत् ॥ १९.३॥ विषमार्तिमुषानेन फलेन त्वद्दृगात्मना अभिलीय पथा नाथ ममास्तु त्वन्मयी गतिः ॥ १९.४॥ भवदमलचरणचिन्तारत्नलतालङ्कृता कदा सिद्धिः सिद्धजनमानसानां विस्मयजननी घटेत मम भवतः ॥ १९.५॥ कर्हि नाथ विमलं मुखबिम्बं तावकं समवलोकयितास्मि यत्स्रवत्यमृतपूरमपूर्वं यो निमज्जयति विश्वमशेषम् ॥ १९.६॥ ध्यातमात्रमुदितं तव रूपं कर्हि नाथ परमामृतपूरैः पूरयेत्त्वदविभेदविमोक्षाख्यातिदूरविवराणि सदा मे ॥ १९.७॥ त्वदीयानुत्तररसासङ्गसन्त्यक्तचापलम् नाद्यापि मे मनो नाथ कर्हि स्यादस्तु शीघ्रतः ॥ १९.८॥ मा शुष्ककटुकान्येव परं सर्वाणि सर्वदा तवोपहृत्य लब्धानि द्वन्द्वान्यप्यापतन्तु मे ॥ १९.९॥ नाथ साम्मुख्यमायान्तु विशुद्धास्तव रश्मयः यावत्कायमनस्तापतमोभिः परिलुप्यताम् ॥ १९.१०॥ देव प्रसीद यावन्मे त्वन्मार्गपरिपन्थिकाः परमार्थमुषो वश्या भूयासुर्गुणतस्कराः ॥ १९.११॥ त्वद्भक्तिसुधासारैर्मानसमापूर्यतां ममाशु विभो यावदिमा उह्यन्तां निःशेषासारवासनाः प्लुत्वा ॥ १९.१२॥ मोक्षदशायां भक्तिस्त्वयि कुत इव मर्त्यधर्मिणोऽपि न सा राजति ततोऽनुरूपामारोपय सिद्धिभूमिकामज माम् ॥ १९.१३॥ सिद्धिलवलाभलुब्धं मामवलेपेन मा विभो संस्थाः क्षामस्त्वद्भक्तिमुखे प्रोल्लसदणिमादिपक्षतो मोक्षः ॥ १९.१४॥ दासस्य मे प्रसीदतु भगवानेतावदेव ननु याचे दाता त्रिभुवननाथो यस्य न तन्मादृशां दृशो विषयः ॥ १९.१५॥ त्वद्वपुःस्मृतिसुधारसपूर्णे मानसे तव पदाम्बुजयुग्मम् मामके विकसदस्तु सदैव प्रस्रवन्मधु किमप्यतिलोकम् ॥ १९.१६॥ अस्ति मे प्रभुरसौ जनकोऽथ त्र्यम्बकोऽथ जननी च भवानी न द्वितीय इह कोऽपि ममास्तीत्येव निर्वृततमो विचरेयम् ॥ १९.१७॥ चर्वनाभिधानं विंशं स्तोत्रम् । नथं त्रिभुवननाथं भूतिसितं त्रिनयनं त्रिशूलधरम् उपवीतीकृतभोगिनमिन्दुकलाशेखरं वन्दे ॥ २०.१॥ नौमि निजतनुविनिस्मरदंशुकपरिवेषधवलपरिधानम् विलसत्कपालमालाकल्पितनृत्तोत्सवाकल्पम् ॥ २०.२॥ वन्दे तान् दैवतं येषां हरश्चेष्टा हरोचिताः हरैकप्रवणाः प्राणाः सदा सौभाग्यसद्मनाम् ॥ २०.३॥ क्रीडितं तव महेश्वरतायाः पृष्ठतोऽन्यदिदमेव यथैतत् इष्टमात्रघटितेष्ववदानेष्वात्मना परमुपायमुपैमि ॥ २०.४॥ त्वद्धाम्नि विश्ववन्द्येऽस्मिन्नियति क्रीडने सति तव नाथ कियान् भूयान्नानन्दरससम्भवः ॥ २०.५॥ कथं स सुभगो मा भूद्यो गौर्या वल्लभो हरः हरोऽपि मा भूदथ किं गौर्याः परमवल्लभः ॥ २०.६॥ ध्यानामृतमयं यस्य स्वात्ममूलमनश्वरम् संविल्लतास्तथारूपास्तस्य कस्यापि सत्तरोः ॥ २०.७॥ भक्तिकण्डूसमुल्लासावसरे परमेश्वर महानिकषपाषाणस्थूणा पूजैव जायते ॥ २०.८॥ सदा स्र्ष्टिविनोदाय सदा स्थितिसुखासिने सदा त्रिभुवनाहारतृप्ताय स्वामिने नमः ॥ २०.९॥ न क्वापि गत्वा हित्वापि न किञ्चिदिदमेव ये भव्यं त्वद्धाम पश्यन्ति भव्यास्तेभ्यो नमो नमः ॥ २०.१०॥ भक्तिलक्ष्मीसमृद्धानां किमन्यदुपयाचितम् एतया वा दरिद्रणां किमन्यदुपयाचितम् ॥ २०.११॥ दुःखान्यपि सुखायन्ते विषमप्यमृतायते मोक्षायते च संसारो यत्र मार्गः स शङ्करः ॥ २०.१२॥ मूले मध्येऽवसाने च नास्ति दुःखं भवज्जुषां तथापि वयमीशान सीदामः कथमुच्यताम् ॥ २०.१३॥ ज्ञानयोगादिनान्येषामप्यपेक्षितुमर्हति प्रकाशः स्वैरिणामिव भवान् भक्तिमतां प्रभो ॥ २०.१४॥ भक्तानां नार्तयो नाप्यस्त्याध्यानं स्वात्मनस्तव तथाप्यस्ति शिवेत्येतत्किमप्येषां बहिर्मुखे ॥ २०.१५॥ सर्वाभासावभासो यो विमर्शवलितोऽखिलम् अहमेतदिति स्तौमि तां क्रियाशक्तिमीश ते ॥ २०.१६॥ वर्तन्ते जन्तवोऽशेषा अपि ब्रह्मेन्द्रविष्णवः ग्रसमानास्ततो वन्दे देव विश्वं भवन्मयम् ॥ २०.१७॥ सतो विनाशसम्बन्धान्मत्परं निखिलं मृषा एवमेवोद्यते नाथ त्वया संहारलीलया ॥ २०.१८॥ ध्यातमात्मुपतिष्ठत एव त्वद्वपुर्वरद भक्तिधनानाम् अप्यचिन्त्यमखिलाद्भुतचिन्ताकर्तृतां प्रति च ते विजयन्ते ॥ २०.१९॥ तावकभक्तिरसासवसेकादिव सुखितमर्ममण्डलस्फुरितैः नृत्यति वीरजनो निशि वेतालकुलैः कृतोत्साहः ॥ २०.२०॥ आरब्धा भवदभिनुतिरमुना येनाङ्गकेन मम शम्भो तेनापर्यन्तमिमं कालं दृढमखिलमेव भविषीष्ट ॥ २०.२१॥ इति उत्पलदेवविरचिता शिवस्तोत्रावलिः सम्पूर्णा ।