अक्षर आकार:

शिवस्तवराजः

shivastavarAjaH

शिवस्तवराजः

श्रीगणेशाय नमः । सूत उवाच । एकदा नारदो योगी परानुग्रहतत्परः । विमत्सरो वीतरागो ब्रह्मलोकमुपाययौ ॥ १॥ तत्र दृष्ट्वा समासीनं विधातारं जगत्पतिम् । प्रणम्य शिरसा भूमौ कृताञ्जलिरभाषत ॥ २॥ नारद उवाच । ब्रह्मञ्जगत्पते तात नतोऽस्मि त्वत्पदांबुजम् । कृपया परया देव यत्पृछामि तदुच्यताम् ॥ ३॥ श्रुतिशास्त्रपुराणानि त्वदास्यात्संश्रुतानि च । तथापि मन्मनो याति सन्देहं मोहकारणम् ॥ ४॥ सर्वमन्त्राधिको मन्त्रः सदा जाप्यः क उच्यते । सर्वध्यानादिकं ध्यानं सदा ध्येयमिहास्ति किम् ॥ ५॥ वेदोपनिषदां सारमायुःश्रीजयवर्धनम् । मुक्तिकाङ्क्षापरैर्नित्यं कः स्तवः पठ्यते बुधैः ॥ ६॥ इमं मत्संशयं तात स्वं भेत्तासि न कश्चन । ब्रूहि कारुणयभावेन मह्यं शुश्रूषवे हितम् ॥ ७॥ श्रुत्वाऽङ्गजवचो वेधा हृदि हर्षमुपागतः । देवदेवं शिवाकान्तं नत्वा चाह मुनीश्वरम् ॥ ८॥ ब्रह्मोवाच । साधु पृष्टं महाप्राज्ञ लोकानुग्रहतत्पर । सत्सर्वं ते प्रवक्ष्यामि गोपनीयं प्रयत्नतः ॥ ९॥ प्रणवं पूर्वमुच्चार्य नमःशब्दं समुच्चरेत् । सचतुर्थ्यैकवचनं शिवं चैव समुच्चरेत् ॥ १०॥ एष शैवो महामन्त्रः षड्वर्णाख्यो विमुक्तिदः । सर्वमन्त्राधिकः प्रोक्तः शिवेन ज्ञानरूपिणा ॥ ११॥ अनेन मन्त्रराजेन नाशयितुं न शक्यते । तच्च पापं न पश्यामि मार्गमाणोऽपि सर्वदा ॥ १२॥ अयं संसारदावाग्निर्मोहसागरवाडवः । तस्मात्प्रयत्नतः पुत्र मन्त्रो ग्राह्यो मुमुक्षुभिः ॥ १३॥ मातृपुत्रादिहा योऽपि वेदधर्मविवर्जितः । सकृदुच्चारणादस्य सायुज्यमुक्तिमाप्नुयात् ॥ १४॥ किं पुनर्वक्ष्यते पुत्र स्वाचारपर्रिनिष्ठितः । सर्वमन्त्रान्विसृज्य त्वमिमं मन्त्रं सदा जप ॥ १५॥ ध्यानं तेऽहं प्रवक्ष्यामि ज्ञात्वा यन्मुच्यते चिरात् । वेदोपनिषदोक्तं च योगगम्यं सनातनम् ॥ १६॥ इन्द्रियाणि नियम्यादौ यतवाग्यतमानसः । स्वस्तिकाद्यासनयुतो हृदि ध्यानं समारभेत् ॥ १७॥ नाभिनालं हृदिस्थं च पङ्कजं परिकल्पयेत् । रक्तवर्णमष्टदलं चन्त्रसूर्यादिशोभितम् ॥ १८॥ समन्तात्कल्पवृक्षेण वेष्टितं कान्तिमत्सदा । तन्मध्ये शङ्करं ध्यायेद्देवदैवं जगद्गुरुम् ॥ १९॥ कर्पूरसदृशं चन्दशेखरं शूलपाणिनम् । त्रिलोचन महादेवं द्विभुजं भस्मभूषितम् ॥ २०॥। परार्धभूषणयुतं क्वणन्नूपुरमण्डितम् । सरत्नमेखलाबद्धकटिवस्त्रं सकुण्डलम् ॥ २१॥ नीलकण्ठं जटावन्तं सकिरीडं सुशोभितम् । ग्रैवेयादिप्रबन्धढ्यं पार्वतीसहितं पुरम् ॥ २२॥ कृपालुं जगदाधारं स्कन्दादिपरिवेष्टितम् । इन्द्रेण पूजितं यक्षराजेन व्यञ्जितं विभुम् ॥ २३॥ प्रेतराजस्तुतं नीरनाथेन नमितं मुहुः । ब्रह्मणा गीयमानं च विष्णुवन्द्यं मुनिस्तुतम् ॥ २४॥ ध्यानमेतन्मया ख्यातं सूत वेदान्तशेखरम् । सर्वपापक्षयकरं जयसंपत्तिवर्धनम् ॥ २५॥ अनेन सदृशं तात नास्ति संसारतारकम् । सर्वध्यानादिकं ध्यानं गोपनीयं सुत त्वया ॥ २६॥ कायवाङ्मानसोत्थं यत्पापमन्यच्च विद्यते । तत्सर्वं नाशमायाति ध्यानात्सत्यं वचो मम ॥ २७॥ वेदशास्त्रपुराणानि सेतिहासानि यानि च । ध्यानस्य तानि सर्वाणि कलां नार्हन्ति षोडशीम् ॥ २८॥ प्रेम्णा कुरु महाभाग ध्यानमेतद्विमुक्तिदम् । अथ ते वच्म्यहं योगिन् स्तवं सर्वोत्तमं च यत् ॥ २९॥ ब्रह्मास्यैव ऋषिः प्रोक्तोऽनुष्टुप् छन्दः प्रकीर्तितम् । शिवो वै दैवतं प्रोक्तं बीजं मृत्युञ्जयं मतम् ॥ ३०॥ कीलिकं नीलकण्ठश्च शक्तिः प्रोक्ता हरस्तथा । नियोगः सर्वसिद्ध्यर्थं मुक्तिकामाय वै मतः ॥ ३१॥ शिरस्यास्ये हृदि पदे कट्यां बाह्वोस्तु व्यापके । ऋषयदीनि क्रमाद्युञ्जेत्साङ्गुष्टाङ्गुलिभिः सुत ॥ ३२॥ मन्त्रन्यासं ततः कुर्याच्छ्रुणु चैकाग्रमानस्वः । षडक्षराणि युञ्जीयादङ्गुष्ठाद्यङ्गुलीषु च ॥ ३३॥ हृदये च शिरस्येव शिखायां कवचे यथा । नेत्रत्रये तथाऽस्त्रे च वर्णा ह्येवं च षट क्रमात् ॥ ३४॥ नमः स्वाहा वषट् हुं च सर्वौषट् फट्क्रमो वदेत् । मन्त्रन्यासमिमं कृत्वा स्तवन्यामं सामाचरेत् ॥ ३५॥ शिवं मृडं पशुपतिं शङ्करं चन्द्रशेखरम् । भवं चैव क्रमादेवमङ्गुष्टादिहृदादिषु ॥ ३६॥ सर्वन्यासान्प्रयुञ्जीत चतुर्थीसहितान्सुत । नमोयुतान्नमश्चैव शिरसादिषु वर्जयेत् ॥ ३७॥ शिवं सर्वात्मकं सर्वपतिं सर्वजनप्रियम् । सर्वदुःखहरं चैव मोहनं गिरिशं भजे ॥ ३८॥ कामघ्नं कामदं कान्तं कालमृत्युनिवर्तकम् । कलावन्तं कलाधीशं वन्देऽहं गिरिजापतिम् ॥ ३९॥ परेशं परमं देवं परंब्रह्म परात्परम् । परपीडाहरं नित्यं प्रणमामि वृषध्वजम् ॥ ४०॥ लोकेशं लोकवन्द्यं च लोककर्तारमीश्वरम् । लोकपालं हरं वन्दे धीरं शशिविभूषणम् ॥ ४१॥ शिवापतिं गिरिपतिं सर्वदेवपतिं विभुम् । प्रमथाधिपतिं सूक्ष्मं नौम्यहं शिखिलोचनम् ॥ ४२॥ भूतेशं भूतनाथं च भूतप्रेतविनाशनम् । भूधर भूपतिं शान्तं शूलपाणिमहं भजे ॥ ४३॥ कैलासवासिनं रौद्रं फणिराजविभूषणम् । फणिबद्धजटाजूटं प्रणमामि सदाशिवम् ॥ ४४॥ नीलकण्ठं दशभुजं त्र्यक्षं धूम्रविलोचनम् । दिगंबरं दिशाधीशं नमामि विषभूषणम् ॥ ४५॥ मुक्तीशं मुक्तिदं मुक्तं मुक्तगम्यं सनातनम् । सत्पतिं निर्मलं शम्भुं नतोऽस्मि सकलार्थदम् ॥ ४६॥ विश्वेशं विश्वनाथं च विश्वपालनतत्परम् । विश्वमूर्तिं विश्वहरं प्रणमामि जटाधरम् ॥ ४७॥ गङ्गाधरं कपालाक्षं पञ्चवक्त्रं त्रिलोचनम् । विद्युत्कोटिप्रतीकाशं वन्दऽहं पार्वतापतिम् ॥ ४८॥ स्फटिकाभं जनार्तिघ्नं देवदेवमुमापतिम् । त्रिपुरारिं त्रिलोकेशं नतोऽस्मि भवतारकम् ॥ ४९॥ अव्यक्तमक्षरं दान्तं मोहसागरतारकम् । स्तुतिप्रीयं भक्तिगम्यं सदा वन्दे हरिप्रियम् ॥ ५०॥ अमलं निर्मलं नाथमपमृत्युभयापहम् । भीमयुद्धकरं भीमवरदं तं नतोऽस्म्यहम् ॥ ५१॥ हरिचक्रप्रदं योगिध्येयमूर्तिं सुमङ्गलम् । गजचर्माम्बरधरं प्रणमामि विभूतिदम् ॥ ५२॥ आनन्दकारिणं सोम्यं सुन्दरं भुवनेश्वरम् । काशीप्रियं काशिराजं वरदं प्रणतोऽस्म्यहम् ॥ ५३॥ श्मशानवसिनं भव्यं ग्रहपीडाविनाशनम् । महान्तं प्रणवं योगं भजेऽहं दीनरक्षकम् ॥ ५४॥ ज्योतिर्मयं ज्योतिरूपं जितक्रोधं तपस्विनम् । अनन्तं स्वर्गदं स्वर्गपालं वन्दे निरञ्जनम् ॥ ५५॥ वेदवेद्यं पापहरं गुप्तनाथमतीन्द्रियम् । सत्यात्मकं सत्यहरं निरीहं तं नतोऽस्म्यहम् ॥ ५६॥ द्वीपिचर्मोत्तरीयं च शवमूर्धाविभूषणम् । अस्थिमालं श्वेतवर्णं नमामि चन्द्रशेखरम् ॥ ५७॥ शूलिनं सर्वभूतस्थं भक्तोद्धरणसंस्थितम् । लिङ्गमूर्ति सिद्धसेव्यं सिद्धसिद्धिप्रदायकम् ॥ ५८॥ अनादिनिधनाख्यं तं रामसेव्यं जयप्रदम् । योधादिं यज्ञभोक्तारं वन्दे नित्यं परावरम् ॥ ५९॥ अचिन्त्यमचलं विष्णुं महाभागवतोत्तमम् । परघ्नं परवेद्यं च वन्दे वैकुण्ठनायकम् ॥ ६०॥ आनन्दं निर्भयं भक्तवाञ्च्छितार्थप्रदायकम् । भवानीपतिमाचार्यं वन्देऽहं नन्दिकेश्वरम् ॥ ६१॥ सोमप्रियं सोमनाथं यक्षराजनिषेवितम् । सर्वाधारं सुविस्तारं प्रणमामि विभूतिदम् ॥ ६२॥ अनन्तनामानमनन्तरूपमनादिमध्यान्तमनादिसत्वम् । चिद्रूपमेकं भवनागसिंहं भजामि नित्यं भुवनाधिनाथम् ॥ ६३॥ वेदोपगीतं विधुशेखरं च सुरारिनाथार्चितपादपद्मम् । कर्पूरगौरं भुजगेन्द्रहारं जानामि तत्त्वं शिवमेव नान्यम् ॥ ६४॥ गणाधिणाथं शितिकण्ठमाद्यं तेजस्विनं सर्वमनोभिरामम् । सर्वज्ञमीशं जगदात्मकं च पञ्चाननं नित्यमहं नमामि ॥ ६५॥ विश्वसृजं नृत्यकरं प्रियं तं विश्वात्मकं विश्वविधूतपापम् । मृत्युञ्जयं भालविलोचनं च चेतः सदा चिन्तय देवदेवम् ॥ ६६॥ कपालिनं सर्पकृतावतंसं मनोवचोगोचरमम्बुजाक्षम् । क्षमाम्बुधिं दीनदयाकरं तं नमामि नित्यं भवरोगवैद्यम् ॥ ६७॥ सर्वान्तरस्थं जगदादिहेतुं कालज्ञमात्मानमनन्तपादम् । अनन्तबाहूदरमस्तक्राक्षं ललाटनेत्रं भज चन्द्रमौलिम् ॥ ६८॥ सर्वप्रदं भक्तसुखावहं च पुष्पायुधादिप्रणतिप्रियं च । त्रिलोकनाथं ऋणबन्धनाशं भजस्व नित्यं प्रणतार्तिनाशम् ॥ ६९॥ आनन्दमूर्ति सुखकल्पवृक्षं कुमारनाथं विधृतप्रपञ्चम् । यज्ञादिनाथं परमप्रकाशं नमामि विश्वंभरमीशितारम् ॥ ७०॥ इत्येवं स्तवमाख्यातं शिवस्य परमात्मनः । पापक्षयकरं पुत्र सायुज्यमुक्तिदायकम् ॥ ७१॥ सर्वरोगहरं मोक्षप्रदं सिद्धिप्रदायकम् । माङ्गल्यं भुक्तिमुक्त्यादिसाधनं जयवर्धनम् ॥ ७२॥ सर्वस्तवोत्तमं विद्धि सर्ववेदान्तशेखरम् । पठस्वानुदिनं तात प्रेम्णा भक्त्या विशुद्धिकृत् ॥ ७३॥ गोहा स्त्रीबालविप्रादिहन्तान्यत्पापकृत्तथा । विश्वासधातचारी च खाद्यपेयादिदूषक्रः ॥ ७४॥ कोटिजन्मार्जितैः पापैरसंख्यातैश्च वेष्टितः । अष्टोत्तरशतात्पाठात् शुद्धो भवति निश्चितम् ॥ ७५॥ महारोगयुतो वापि मृत्युग्रहयुतस्तथा । त्रिंशत्तदस्य पठनात्सर्वदुःखं विनश्यति ॥ ७६॥ राजवश्ये सहस्रं तु स्त्रीवश्ये च तदर्धकम् । मित्रवश्ये पञ्चशतं पाठं कुर्यात्समाहितः ॥ ७७॥ लक्षपाठाद्भवेच्चैव शिव एव न संशयः । बहुना किमिहोक्तेन भावनासिद्धिदायकः ॥ ७८॥ पार्वत्या सहितं गिरीन्द्रशिखरे मुक्तामये सुन्दरे पीठे संस्थिनमिन्दुशेखरमहर्नाथादिसंसेवितम् । पञ्चास्यं फणिराजकङ्कणधरं गङ्गाधरं शूलिनं त्र्यक्षं पापहरं नमामि सततं पद्मासनस्थं शिवम् ॥ ७९॥ इति श्रीपद्मपुराणे ब्रह्मनारदसंवादे शिवस्तवराजः संपूर्णः ॥