अक्षर आकार:

शिवस्तवः ब्रह्मविष्णुकृतः

Shiva Stava by Brahma and Vishnu

शिवस्तवः ब्रह्मविष्णुकृतः

श्रीगणेशाय नमः । ब्रह्मविष्णू ऊचतुः । नमस्ते शङ्करायैव नमस्ते शूलपाणये । रुद्राय कालरूपाय त्र्यम्बकाय नमो नमः ॥ ४२॥ उमापते नमस्तुभ्यं वृषभेश्वरवाहन । आदिदेवाय देवाय महादेवाय ते नमः ॥ ४३॥ प्रसीद भगवन् शम्भो नान्तं पश्यावहे विभो । किंरूपं किंस्वभावं त्वां न जानीवः कथञ्चन ॥ ४४॥ दर्शय स्वात्मरूपं भो महेश्वर नमोऽस्तु ते । येन ते भजनं देव जनाः कुर्वन्ति निर्भयाः ॥ ४५॥ तयोर्वचनमाकर्ण्य शम्भुः प्राकट्यमास्थितः । ततस्तं तौ ददृशतुर्हरिश्च भगवान् विधिः ॥ ४६॥ वामभागे स्थितं विष्णुं दक्षिणाङ्गे पितामहम् । विश्वं चराचरं सर्वं लिङ्गं तत्रास्य संस्थितम् ॥ ४७॥ अपारमहिमानं तं दृष्ट्वा नेमतुरादरात् । उपसंहर रूपं तत्त्वमेव परमेश्वरः ॥ ४८॥ तयोर्वचनमाकर्ण्य हृष्टः सन् शङ्करः प्रभुः । भगवान् पूर्वरूपेण सन्तस्थौ वृषभध्वजः ॥ ४९॥ उवाच तौ महादेवो वृणुतं वरमीप्सितम् । दास्यामि भवतोर्भावात् स्तोत्रसन्तुष्टमानसः ॥ ५०॥ य एतत्पठति स्तोत्रं स कामान् लभतेऽखिलान् । मत्प्रियः सोऽपि भवति मल्लोकेऽन्ते प्रगच्छति ॥ ५१॥ इति ब्रह्मविष्णुकृतः शिवस्तवः । १.१३