अक्षर आकार:

श्रीशिवसहस्रनामस्तोत्रम्

ShrI ShivasahasranAma Stotram from Rudrayamala tantra

श्रीशिवसहस्रनामस्तोत्रम्

ॐ श्रीगणेशाय नमः । पूर्वपीठिका ॐ ओंकारनिलयं देवं गजवक्त्रं चतुर्भुजम् । पिचण्डिलमहं वन्दे सर्वविघ्नोपशान्तये ॥ श्रुतिस्मृतिपुराणानामालयं करुणालयम् । नमामि भगवत्पादशङ्करं लोकशङ्करम् ॥ शङ्करं शङ्कराचार्यं केशवं बादरायणम् । सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनःपुनः ॥ वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनाम्पतिम् । वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर । यादृशोऽसि महादेव तादृशाय नमो नमः ॥ ऋषय ऊचुः- सूत वेदार्थतत्त्वज्ञ शिवध्यानपरायण । मुक्त्युपायं वदास्मभ्यं कृपालो मुनिसत्तम ॥ १॥ कः सेव्यः सर्वदेवेषु को वा जप्यो मनुः सदा । स्थातव्यं कुत्र वा नित्यं किं वा सर्वार्थसाधकम् ॥ २॥ श्रीसूत उवाच- धन्यान्मन्यामहे नूनमनन्यशरणान्मुनीन् । वन्याशिनो वनेवासान् न्यस्तमानुष्यकल्मषान् ॥ ३॥ भवद्भिः सर्ववेदार्थतत्त्वं ज्ञातमतन्द्रितैः । भवद्भिः सर्ववेदार्थो ज्ञात एवास्ति यद्यपि ॥ ४॥ तथापि किञ्चिद्वक्ष्यामि यथा ज्ञातं मया तथा । पुरा कैलासशिखरे सुखासीनं जगत्प्रभुम् ॥ ५॥ वेदान्तवेद्यमीशानं शङ्करं लोकशङ्करम् । विलोक्यातीव सन्तुष्टः षण्मुखः साम्बमीश्वरम् ॥ ६॥ मत्वा कृतार्थमात्मानं प्रणिपत्य सदाशिवम् । पप्रच्छ सर्वलोकानां मुक्त्युपायं कृताञ्जलिः ॥ ७॥ श्रीस्कन्द उवाच- विश्वेश्वर महादेव विष्णुब्रह्मादिवन्दित । देवानां मानवानां च किं मोक्षस्यास्ति साधनम् ॥ ८॥ तव नामान्यनन्तानि सन्ति यद्यपि शङ्कर । तथापि तानि दिव्यानि न ज्ञायन्ते मयाधुना ॥ ९॥ प्रियाणि शिवनामानि सर्वाणि शिव यद्यपि । तथापि कानि रम्याणि तेषु प्रियतमानि ते ॥ तानि सर्वार्थदान्यद्य कृपया वक्तुमर्हसि ॥ १०॥ श्रीसूत उवाच- कुमारोदीरितां वाचं सर्वलोकहितावहाम् । श्रुत्वा प्रसन्नवदनस्तमुवाच सदाशिवः ॥ ११॥ श्रीसदाशिव उवाच- साधु साधु महाप्राज्ञ सम्यक्पृष्ठं त्वयाधुना । यदिदानीं त्वया पृष्टं तद्वक्ष्ये श‍ृणु सादरम् ॥ १२॥ एवमेव पुरा गौर्या पृष्टः काश्यामहं तदा । समाख्यातं मया सम्यक्सर्वेषां मोक्षसाधनम् ॥ १३॥ दिव्यान्यनन्तनामानि सन्ति तन्मध्यगं परम् । अष्टोत्तरसहस्रं तु नाम्नां प्रियतरं मम ॥ १४॥ एकैकमेव तन्मध्ये नाम सर्वार्थसाधकम् । मयापि नाम्नां सर्वेषां फलं वक्तुं न शक्यते ॥ १५॥ तिलाक्षतैर्बिल्वपत्रैः कमलैः कोमलैर्नवैः । पूजयिष्यति मां भक्त्या यस्त्वेतन्नामसङ्ख्यया ॥ १६॥ स पापेभ्यः संसृतेश्च मुच्यते नात्र संशयः । ततो ममान्तिकं याति पुनरावृत्तिदुर्लभम् ॥ १७॥ एकैकेनैव नाम्ना मां अर्चयित्वा दृढव्रताः । स्वेष्टं फलं प्राप्नुवन्ति सत्यमेवोच्यते मया ॥ १८॥ एतन्नामावलीं यस्तु पठन्मां प्रणमेत्सदा । स याति मम सायुज्यं स्वेष्टं बन्धुसमन्वितः ॥ १९॥ स्पृष्ट्वा मल्लिङ्गममलं एतन्नामानि यः पठेत् । स पातकेभ्यः सर्वेभ्यः सत्यमेव प्रमुच्यते ॥ २०॥ यस्त्वेतन्नामभिः सम्यक् त्रिकालं वत्सरावधि । मामर्चयति निर्दम्भः स देवेन्द्रो भविष्यति ॥ २१॥ एतन्नामानुसन्धाननिरतः सर्वदाऽमुना । मम प्रियकरस्तस्मान्निवसाम्यत्र सादरम् ॥ २२॥ तत्पूजया पूजितोऽहं स एवाहं मतो मम । तस्मात्प्रियतरं स्थानमन्यन्नैव हि दृश्यते ॥ २३॥ हिरण्यबाहुरित्यादिनाम्नां शम्भुरहं ऋषिः । देवताप्यहमेवात्र शक्तिर्गौरी मम प्रिया ॥ २४॥ महेश एव संसेव्यः सर्वैरिति हि कीलकम् । धर्माद्यर्थाः फलं ज्ञेयं फलदायी सदाशिवः ॥ २५॥ ॐ सौरमण्डलमध्यस्थं साम्बं संसारभेषजम् । नीलग्रीवं विरूपाक्षं नमामि शिवमव्ययम् ॥ ॥ न्यासः ॥ ॐ अस्य श्रीशिवसहस्रनामस्तोत्रमहामन्त्रस्य शम्भुरृषिः । अनुष्टुप् छन्दः । परमात्मा श्रीसदाशिवो देवता । महेश्वर इति बीजम् । गौरी शक्तिः । महेश एव संसेव्यः सर्वैरिति कीलकम् । श्रीसाम्बसदाशिव प्रीत्यर्थे मुख्यसहस्रनामजपे विनियोगः । ॥ ध्यानम् ॥ शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् । नागं पाशं च घण्टां वरडमरुयुतं चाङ्कुशं वामभागे नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥ ॐ नमो भगवते रुद्राय । ॐ हिरण्यबाहुः सेनानीर्दिक्पतिस्तरुराट् हरः । हरिकेशः पशुपतिर्महान् सस्पिञ्जरो मृडः ॥ १॥ विव्याधी बभ्लुशः श्रेष्ठः परमात्मा सनातनः । सर्वान्नराट् जगत्कर्ता पुष्टेशो नन्दिकेश्वरः ॥ २॥ आततावी महारुद्रः संसारास्त्रः सुरेश्वरः । उपवीतिरहन्त्यात्मा क्षेत्रेशो वननायकः ॥ ३॥ रोहितः स्थपतिः सूतो वाणिजो मन्त्रिरुन्नतः । वृक्षेशो हुतभुग्देवो भुवन्तिर्वारिवस्कृतः ॥ ४॥ उच्चैर्घोषो घोररूपः पत्तीशः पाशमोचकः । ओषधीशः पञ्चवक्त्रः कृत्स्नवीतो भयानकः ॥ ५॥ सहमानः स्वर्णरेताः निव्याधिर्निरुपप्लवः । आव्याधिनीशः ककुभो निषङ्गी स्तेनरक्षकः ॥ ६॥ मन्त्रात्मा तस्कराध्यक्षो वञ्चकः परिवञ्चकः । अरण्येशः परिचरो निचेरुः स्तायुरक्षकः ॥ ७॥ प्रकृन्तेशो गिरिचरः कुलुञ्चेशो गुहेष्टदः । भवः शर्वो नीलकण्ठः कपर्दी त्रिपुरान्तकः ॥ ८॥ व्युप्तकेशो गिरिशयः सहस्राक्षः सहस्रपात् । शिपिविष्टश्चन्द्रमौलिर्ह्रस्वो मीढुष्टमोऽनघः ॥ ९॥ वामनो व्यापकः शूली वर्षीयानजडोऽनणुः । ऊर्व्यः सूर्म्योऽग्रियः शीभ्यः प्रथमः पावकाकृतिः ॥ १०॥ आचारस्तारकस्तारोऽवस्वन्योऽनन्तविग्रहः । द्वीप्यः स्रोतस्य ईशानो धुर्यो गव्ययनो यमः ॥ ११॥ पूर्वजोऽपरजो ज्येष्ठः कनिष्ठो विश्वलोचनः । अपगल्भो मध्यमोर्म्यो जघन्यो बुध्नियः प्रभुः ॥ १२॥ प्रतिसर्योऽनन्तरूपः सोभ्यो याम्यो सुराश्रयः । खल्योर्वर्योऽभयः क्षेम्यः श्लोक्यः पथ्यो नभोऽग्रणीः ॥ १३॥ वन्योऽवसान्यः पूतात्मा श्रवः कक्ष्यः प्रतिश्रवः । आशुषेणो महासेनो महावीरो महारथः ॥ १४॥ शूरोऽतिघातको वर्मी वरूथी बिल्मिरुद्यतः । श्रुतसेनः श्रुतः साक्षी कवची वशकृद्वशी ॥ १५॥ आहनन्योऽनन्यनाथो दुन्दुभ्योऽरिष्टनाशकः । धृष्णुः प्रमृश इत्यात्मा वदान्यो वेदसम्मतः ॥ १६॥ तीक्ष्णेषुपाणिः प्रहितः स्वायुधः शस्त्रवित्तमः । सुधन्वा सुप्रसन्नात्मा विश्ववक्त्रः सदागतिः ॥ १७॥ स्रुत्यः पथ्यो विश्वबाहुः काट्यो नीप्यो शुचिस्मितः । सूद्यः सरस्यो वैशन्तो नाद्यः कूप्यो ऋषिर्मनुः ॥ १८॥ सर्वो वर्ष्यो वर्षरूपः कुमारः कुशलोऽमलः । मेघ्योऽवर्ष्योऽमोघशक्तिः विद्युत्योऽमोघविक्रमः ॥ १९॥ दुरासदो दुराराध्यो निर्द्वन्द्वो दुःसहर्षभः । ईध्रियः क्रोधशमनो जातुकर्णः पुरुष्टुतः ॥ २०॥ आतप्यो वायुरजरो वात्यः कात्यायनीप्रियः । वास्तव्यो वास्तुपो रेष्म्यो विश्वमूर्धा वसुप्रदः ॥ २१॥ सोमस्ताम्रोऽरुणः शङ्गः रुद्रः सुखकरः सुकृत् । उग्रोऽनुग्रो भीमकर्मा भीमो भीमपराक्रमः ॥ २२॥ अग्रेवधो हनीयात्मा हन्ता दूरेवधो वधः । शम्भुर्मयोभवो नित्यः शङ्करः कीर्तिसागरः ॥ २३॥ मयस्करः शिवतरः खण्डपर्शुरजः शुचिः । तीर्थ्यः कूल्योऽमृताधीशः पार्योऽवार्योऽमृताकरः ॥ २४॥ शुद्धः प्रतरणो मुख्यः शुद्धपाणिरलोलुपः । उच्च उत्तरणस्तार्यस्तार्यज्ञस्तार्यहृद्गतिः ॥ २५॥ आतार्यः सारभूतात्मा सारग्राही दुरत्ययः । आलाद्यो मोक्षदः पथ्योऽनर्थहा सत्यसङ्गरः ॥ २६॥ शष्प्यः फेन्यः प्रवाह्योढा सिकत्यः सैकताश्रयः । इरिण्यो ग्रामणीः पुण्यः शरण्यः शुद्धशासनः ॥ २७॥ वरेण्यो यज्ञपुरुषो यज्ञेशो यज्ञनायकः । यज्ञकर्ता यज्ञभोक्ता यज्ञविघ्नविनाशकः ॥ २८॥ यज्ञकर्मफलाध्यक्षो यज्ञमूर्तिरनातुरः । प्रपथ्यः किंशिलो गेह्यो गृह्यस्तल्प्यो धनाकरः ॥ २९॥ पुलस्त्यः क्षयणो गोष्ठ्यो गोविन्दो गीतसत्क्रियः । हृदय्यो हृद्यकृत् हृद्यो गह्वरेष्ठः प्रभाकरः ॥ ३०॥ निवेष्प्यो नियतोऽयन्ता पांसव्यः सम्प्रतापनः । शुष्क्यो हरित्योऽपूतात्मा रजस्यः सात्विकप्रियः ॥ ३१॥ लोप्योलप्यः पर्णशद्यः पर्ण्यः पूर्णः पुरातनः । भूतो भूतपतिर्भूपो भूधरो भूधरायुधः ॥ ३२॥ भूतसङ्घो भूतमूर्तिर्भूतहा भूतिभूषणः । मदनो मादको माद्यो मदहा मधुरप्रियः ॥ ३३॥ मधुर्मधुकरः क्रूरो मधुरो मदनान्तकः । निरञ्जनो निराधारो निर्लुप्तो निरुपाधिकः ॥ ३४॥ निष्प्रपञ्चो निराकारो निरीहो निरुपद्रवः । सत्त्वः सत्त्वगुणोपेतः सत्त्ववित् सत्त्ववित्प्रियः ॥ ३५॥ सत्त्वनिष्ठः सत्त्वमूर्तिः सत्त्वेशः सत्त्ववित्तमः । समस्तजगदाधारः समस्तगुणसागरः ॥ ३६॥ समस्तदुःखविध्वंसी समस्तानन्दकारणः । रुद्राक्षमालाभरणो रुद्राक्षप्रियवत्सलः ॥ ३७॥ रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षपक्षकः । विश्वेश्वरो वीरभद्रः सम्राट् दक्षमखान्तकः ॥ ३८॥ विघ्नेश्वरो विघ्नकर्ता गुरुर्देवशिखामणिः । भुजगेन्द्रलसत्कण्ठो भुजङ्गाभरणप्रियः ॥ ३९॥ भुजङ्गविलसत्कर्णो भुजङ्गवलयावृतः । मुनिवन्द्यो मुनिश्रेष्ठो मुनिवृन्दनिषेवितः ॥ ४०॥ मुनिहृत्पुण्डरीकस्थो मुनिसङ्घैकजीवनः । मुनिमृग्यो वेदमृग्यो मृगहस्तो मुनीश्वरः ॥ ४१॥ मृगेन्द्रचर्मवसनो नरसिंहनिपातनः । मृत्युञ्जयो मृत्युमृत्युरपमृत्युविनाशकः ॥ ४२॥ दुष्टमृत्युरदुष्टेष्टः मृत्युहा मृत्युपूजितः । ऊर्ध्वो हिरण्यः परमो निधनेशो धनाधिपः ॥ ४३॥ यजुर्मूर्तिः साममूर्तिः ऋङ्मूर्तिर्मूर्तिवर्जितः । व्यक्तो व्यक्ततमोऽव्यक्तो व्यक्ताव्यक्तस्तमो जवी ॥ ४४॥ लिङ्गमूर्तिरलिङ्गात्मा लिङ्गालिङ्गात्मविग्रहः । ग्रहग्रहो ग्रहाधारो ग्रहाकारो ग्रहेश्वरः ॥ ४५॥ ग्रहकृद् ग्रहभिद् ग्राही ग्रहो ग्रहविलक्षणः । कल्पाकारः कल्पकर्ता कल्पलक्षणतत्परः ॥ ४६॥ कल्पो कल्पाकृतिः कल्पनाशकः कल्पकल्पकः । परमात्मा प्रधानात्मा प्रधानपुरुषः शिवः ॥ ४७॥ वेद्यो वैद्यो वेदवेद्यो वेदवेदान्तसंस्तुतः । वेदवक्त्रो वेदजिह्वो विजिह्वो जिह्मनाशकः ॥ ४८॥ कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः । भक्तकल्याणदो भक्तकामधेनुः सुराधिपः ॥ ४९॥ पावनः पावको वामो महाकालो मदापहः । घोरपातकदावाग्निर्दवभस्मकणप्रियः ॥ ५०॥ अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः । जगदेकप्रभुःस्वामी जगद्वन्द्यो जगन्मयः ॥ ५१॥ जगदानन्ददो जन्मजरामरणवर्जितः । खट्वाङ्गी नीतिमान् सत्यो देवतात्माऽऽत्मसम्भवः ॥ ५२॥ कपालमालाभरणः कपाली विष्णुवल्लभः । कमलासनकालाग्निः कमलासनपूजितः ॥ ५३॥ कालाधीशस्त्रिकालज्ञो दुष्टविग्रहवारकः । नाट्यकर्ता नटपरो महानाट्यविशारदः ॥ ५४॥ विराड्रूपधरो धीरो वीरो वृषभवाहनः । वृषाङ्को वृषभाधीशो वृषात्मा वृषभध्वजः ॥ ५५॥ महोन्नतो महाकायो महावक्षा महाभुजः । महास्कन्धो महाग्रीवो महावक्त्रो महाशिराः ॥ ५६॥ महाहनुर्महादंष्ट्रो महदोष्ठो महोदरः । सुन्दरभ्रूः सुनयनः सुललाटः सुकन्दरः ॥ ५७॥ सत्यवाक्यो धर्मवेत्ता सत्यज्ञः सत्यवित्तमः । धर्मवान् धर्मनिपुणो धर्मो धर्मप्रवर्तकः ॥ ५८॥ कृतज्ञः कृतकृत्यात्मा कृतकृत्यः कृतागमः । कृत्यवित् कृत्यविच्छ्रेष्ठः कृतज्ञप्रियकृत्तमः ॥ ५९॥ व्रतकृद् व्रतविच्छ्रेष्ठो व्रतविद्वान् महाव्रती । व्रतप्रियो व्रताधारो व्रताकारो व्रतेश्वरः ॥ ६०॥ अतिरागी वीतरागी रागहेतुर्विरागवित् । रागघ्नो रागशमनो रागदो रागिरागवित् ॥ ६१॥ विद्वान् विद्वत्तमो विद्वज्जनमानससंश्रयः । विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः ॥ ६२॥ नीतिकृन्नीतिविन्नीतिप्रदाता नीतिवित्प्रियः । विनीतवत्सलो नीतिस्वरूपो नीतिसंश्रयः ॥ ६३॥ क्रोधवित् क्रोधकृत् क्रोधिजनकृत् क्रोधरूपधृक् । सक्रोधः क्रोधहा क्रोधिजनहा क्रोधकारणः ॥ ६४॥ गुणवान् गुणविच्छ्रेष्ठो निर्गुणो गुणवित्प्रियः । गुणाधारो गुणाकारो गुणकृद् गुणनाशकः ॥ ६५॥ वीर्यवान् वीर्यविच्छ्रेष्ठो वीर्यविद्वीर्यसंश्रयः । वीर्याकारो वीर्यकरो वीर्यहा वीर्यवर्धकः ॥ ६६॥ कालवित्कालकृत्कालो बलकृद् बलविद्बली । मनोन्मनो मनोरूपो बलप्रमथनो बलः ॥ ६७॥ विश्वप्रदाता विश्वेशो विश्वमात्रैकसंश्रयः । विश्वकारो महाविश्वो विश्वविश्वो विशारदः ॥ ६८॥ variation विद्याप्रदाता विद्येशो विद्यामात्रैकसंश्रयः । विद्याकारो महाविद्यो विद्याविद्यो विशारदः ॥६८॥ वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः । ग्रीष्मात्मा ग्रीष्मकृद् ग्रीष्मवर्धको ग्रीष्मनाशकः ॥ ६९॥ प्रावृट्कृत् प्रावृडाकारः प्रावृट्कालप्रवर्तकः । प्रावृट्प्रवर्धकः प्रावृण्णाथः प्रावृड्विनाशकः ॥ ७०॥ शरदात्मा शरद्धेतुः शरत्कालप्रवर्तकः । शरन्नाथः शरत्कालनाशकः शरदाश्रयः ॥ ७१॥ हिमस्वरूपो हिमदो हिमहा हिमनायकः । शैशिरात्मा शैशिरेशः शैशिरर्तुप्रवर्तकः ॥ ७२॥ प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः । आग्नेयात्मा निरृतीशो वायव्यात्मेशनायकः ॥ ७३॥ ऊर्ध्वाधःसुदिगाकारो नानादेशैकनायकः । सर्वपक्षिमृगाकारः सर्वपक्षिमृगाधिपः ॥ ७४॥ सर्वपक्षिमृगाधारो मृगाद्युत्पत्तिकारणः । जीवाध्यक्षो जीववन्द्यो जीवविज्जीवरक्षकः ॥ ७५॥ जीवकृज्जीवहा जीवजीवनो जीवसंश्रयः । ज्योतिःस्वरूपो विश्वात्मा विश्वनाथो वियत्पतिः ॥ ७६॥ वज्रात्मा वज्रहस्तात्मा वज्रेशो वज्रभूषितः । कुमारगुरुरीशानो गणाध्यक्षो गणाधिपः ॥ ७७॥ पिनाकपाणिः सूर्यात्मा सोमसूर्याग्निलोचनः । अपायरहितः शान्तो दान्तो दमयिता दमः ॥ ७८॥ ऋषिः पुराणपुरुषः पुरुषेशः पुरन्दरः । कालाग्निरुद्रः सर्वेशः शमरूपः शमेश्वरः ॥ ७९॥ प्रलयानलकृद् दिव्यः प्रलयानलनाशकः । त्रियम्बकोऽरिषड्वर्गनाशको धनदप्रियः ॥ ८०॥ अक्षोभ्यः क्षोभरहितः क्षोभदः क्षोभनाशकः । सदम्भो दम्भरहितो दम्भदो दम्भनाशकः ॥ ८१॥ कुन्देन्दुशङ्खधवलो भस्मोद्धूलितविग्रहः । भस्मधारणहृष्टात्मा तुष्टिः पुष्ट्यरिसूदनः ॥ ८२॥ स्थाणुर्दिगम्बरो भर्गो भगनेत्रभिदुद्यमः । त्रिकाग्निः कालकालाग्निरद्वितीयो महायशाः ॥ ८३॥ सामप्रियः सामवेत्ता सामगः सामगप्रियः । धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः ॥ ८४॥ लावण्यराशिः सर्वज्ञः सुबुद्धिर्बुद्धिमान्वरः । तुम्बवीणः कम्बुकण्ठः शम्बरारिनिकृन्तनः ॥ ८५॥ शार्दूलचर्मवसनः पूर्णानन्दो जगत्प्रियः । जयप्रदो जयाध्यक्षो जयात्मा जयकारणः ॥ ८६॥ जङ्गमाजङ्गमाकारो जगदुत्पत्तिकारणः । जगद्रक्षाकरो वश्यो जगत्प्रलयकारणः ॥ ८७॥ पूषदन्तभिदुत्कृष्टः पञ्चयज्ञः प्रभञ्जकः । अष्टमूर्तिर्विश्वमूर्तिरतिमूर्तिरमूर्तिमान् ॥ ८८॥ कैलासशिखरावासः कैलासशिखरप्रियः । भक्तकैलासदः सूक्ष्मो मर्मज्ञः सर्वशिक्षकः ॥ ८९॥ सोमः सोमकलाकारो महातेजा महातपाः । हिरण्यश्मश्रुरानन्दः स्वर्णकेशः सुवर्णदृक् ॥ ९०॥ ब्रह्मा विश्वसृगुर्वीशो मोचको बन्धवर्जितः । स्वतन्त्रः सर्वमन्त्रात्मा द्युतिमानमितप्रभः ॥ ९१॥ पुष्कराक्षः पुण्यकीर्तिः पुण्यश्रवणकीर्तनः । पुण्यमूर्तिः पुण्यदाता पुण्यापुण्यफलप्रदः ॥ ९२॥ सारभूतः स्वरमयो रसभूतो रसाश्रयः । ॐकारः प्रणवो नादो प्रणतार्तिप्रभञ्जनः ॥ ९३॥ निकटस्थोऽतिदूरस्थो वशी ब्रह्माण्डनायकः । मन्दारमूलनिलयो मन्दारकुसुमावृतः ॥ ९४॥ वृन्दारकप्रियतमो वृन्दारकवरार्चितः । श्रीमाननन्तकल्याणपरिपूर्णो महोदयः ॥ ९५॥ महोत्साहो विश्वभोक्ता विश्वाशापरिपूरकः । सुलभोऽसुलभो लभ्योऽलभ्यो लाभप्रवर्धकः ॥ ९६॥ लाभात्मा लाभदो वक्ता द्युतिमाननसूयकः । ब्रह्मचारी दृढाचारी देवसिंहो धनप्रियः ॥ ९७॥ वेदपो देवदेवेशो देवदेवोत्तमोत्तमः । बीजराजो बीजहेतुर्बीजदो बीजवृद्धिदः ॥ ९८॥ बीजाधारो बीजरूपो निर्बीजो बीजनाशकः । परापरेशो वरदः पिङ्गलोऽयुग्मलोचनः ॥ ९९॥ पिङ्गलाक्षः सुरगुरुः गुरुः सुरगुरुप्रियः । युगावहो युगाधीशो युगकृद्युगनाशकः ॥ १००॥ कर्पूरगौरो गौरीशो गौरीगुरुगुहाश्रयः । धूर्जटिः पिङ्गलजटो जटामण्डलमण्डितः ॥ १०१॥ मनोजवो जीवहेतुरन्धकासुरसूदनः । लोकबन्धुः कलाधारः पाण्डुरः प्रमथाधिपः ॥ १०२॥ अव्यक्तलक्षणो योगी योगीशो योगपुङ्गवः । श्रितावासो जनावासः सुरवासः सुमण्डलः ॥ १०३॥ भववैद्यो योगिवैद्यो योगिसिंहहृदासनः । उत्तमोऽनुत्तमोऽशक्तः कालकण्ठो विषादनः ॥ १०४॥ आशास्यः कमनीयात्मा शुभः सुन्दरविग्रहः । भक्तकल्पतरुः स्तोता स्तव्यः स्तोत्रवरप्रियः ॥ १०५॥ अप्रमेयगुणाधारो वेदकृद्वेदविग्रहः । कीर्त्याधारः कीर्तिकरः कीर्तिहेतुरहेतुकः ॥ १०६॥ अप्रधृष्यः शान्तभद्रः कीर्तिस्तम्भो मनोमयः । भूशयोऽन्नमयोऽभोक्ता महेष्वासो महीतनुः ॥ १०७॥ विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः । सर्वलोकमयो यष्टा धर्माधर्मप्रवर्तकः ॥ १०८॥ अनिर्विण्णो गुणग्राही सर्वधर्मफलप्रदः । दयासुधार्द्रनयनो निराशीरपरिग्रहः ॥ १०९॥ परार्थवृत्तिर्मधुरो मधुरप्रियदर्शनः । मुक्तादामपरीताङ्गो निःसङ्गो मङ्गलाकरः ॥ ११०॥ सुखप्रदः सुखाकारः सुखदुःखविवर्जितः । विश‍ृङ्खलो जगत्कर्ता जितसर्वः पितामहः ॥ १११॥ अनपायोऽक्षयो मुण्डी सुरूपो रूपवर्जितः । अतीन्द्रियो महामायो मायावी विगतज्वरः ॥ ११२॥ अमृतः शाश्वतः शान्तो मृत्युहा मूकनाशनः । महाप्रेतासनासीनः पिशाचानुचरावृतः ॥ ११३॥ गौरीविलाससदनो नानागानविशारदः । विचित्रमाल्यवसनो दिव्यचन्दनचर्चितः ॥ ११४॥ विष्णुब्रह्मादिवन्द्याङ्घ्रिः सुरासुरनमस्कृतः । किरीटलेढिफालेन्दुर्मणिकङ्कणभूषितः ॥ ११५॥ रत्नाङ्गदाङ्गो रत्नेशो रत्नरञ्जितपादुकः । नवरत्नगणोपेतकिरीटी रत्नकञ्चुकः ॥ ११६॥ नानाविधानेकरत्नलसत्कुण्डलमण्डितः । दिव्यरत्नगणाकीर्णकण्ठाभरणभूषितः ॥ ११७॥ गलव्यालमणिर्नासापुटभ्राजितमौक्तिकः । रत्नाङ्गुलीयविलसत्करशाखानखप्रभः ॥ ११८॥ रत्नभ्राजद्धेमसूत्रलसत्कटितटः पटुः । वामाङ्कभागविलसत्पार्वतीवीक्षणप्रियः ॥ ११९॥ लीलावलम्बितवपुर्भक्तमानसमन्दिरः । मन्दमन्दारपुष्पौघलसद्वायुनिषेवितः ॥ १२०॥ कस्तूरीविलसत्फालो दिव्यवेषविराजितः । दिव्यदेहप्रभाकूटसन्दीपितदिगन्तरः ॥ १२१॥ देवासुरगुरुस्तव्यो देवासुरनमस्कृतः । हस्तराजत्पुण्डरीकः पुण्डरीकनिभेक्षणः ॥ १२२॥ सर्वाशास्यगुणोऽमेयः सर्वलोकेष्टभूषणः । सर्वेष्टदाता सर्वेष्टः स्फुरन्मङ्गलविग्रहः ॥ १२३॥ अविद्यालेशरहितो नानाविद्यैकसंश्रयः । मूर्तिभवः कृपापूरो भक्तेष्टफलपूरकः ॥ १२४॥ सम्पूर्णकामः सौभाग्यनिधिः सौभाग्यदायकः । हितैषी हितकृत्सौम्यः परार्थैकप्रयोजनः ॥ १२५॥ शरणागतदीनार्तपरित्राणपरायणः । जिष्णुर्नेता वषट्कारो भ्राजिष्णुर्भोजनं हविः ॥ १२६॥ भोक्ता भोजयिता जेता जितारिर्जितमानसः । अक्षरः कारणं क्रुद्धसमरः शारदप्लवः ॥ १२७॥ आज्ञापकेच्छो गम्भीरः कविर्दुःस्वप्ननाशकः । पञ्चब्रह्मसमुत्पत्तिः क्षेत्रज्ञः क्षेत्रपालकः ॥ १२८॥ व्योमकेशो भीमवेषो गौरीपतिरनामयः । भवाब्धितरणोपायो भगवान् भक्तवत्सलः ॥ १२९॥ वरो वरिष्ठो नेदिष्ठः प्रियः प्रियदवः सुधीः । यन्ता यविष्ठः क्षोदिष्ठो स्थविष्ठो यमशासकः ॥ १३०॥ हिरण्यगर्भो हेमाङ्गो हेमरूपो हिरण्यदः । ब्रह्मज्योतिरनावेक्ष्यश्चामुण्डाजनको रविः ॥ १३१॥ मोक्षार्थिजनसंसेव्यो मोक्षदो मोक्षनायकः । महाश्मशाननिलयो वेदाश्वो भूरथः स्थिरः ॥ १३२॥ मृगव्याधो चर्मधामा प्रच्छन्नः स्फटिकप्रभः । सर्वज्ञः परमार्थात्मा ब्रह्मानन्दाश्रयो विभुः ॥ १३३॥ महेश्वरो महादेवः परब्रह्म सदाशिवः ॥ १३४॥ श्रीपरब्रह्म सदाशिव ॐ नम इति । उत्तर पीठिका एवमेतानि नामानि मुख्यानि मम षण्मुख । शुभदानि विचित्राणि गौर्यै प्रोक्तानि सादरम् ॥ १॥ विभूतिभूषितवपुः शुद्धो रुद्राक्षभूषणः । शिवलिङ्गसमीपस्थो निस्सङ्गो निर्जितासनः ॥ २॥ एकाग्रचित्तो नियतो वशी भूतहिते रतः । शिवलिङ्गार्चको नित्यं शिवैकशरणः सदा ॥ ३॥ मम नामानि दिव्यानि यो जपेद्भक्तिपूर्वकम् । एवमुक्तगुणोपेतः स देवैः पूजितो भवेत् ॥ ४॥ संसारपाशसंबद्धजनमोक्षैकसाधनम् । मन्नामस्मरणं नूनं तदेव सकलार्थदम् ॥ ५॥ मन्नामैव परं जप्यमहमेवाक्षयार्थदः । अहमेव सदा सेव्यो ध्येयो मुक्त्यर्थमादरात् ॥ ६॥ विभूतिवज्रकवचैः मन्नामशरपाणिभिः । विजयः सर्वतो लभ्यो न तेषां दृश्यते भयम् ॥ ७॥ न तेषां दृश्यते भयम् ॐ नम इति । श्रीसूत उवाच- इत्युदीरितमाकर्ण्य महादेवेन तद्वचः । सन्तुष्टः षण्मुखः शम्भुं तुष्टाव गिरिजासुतः ॥ ८॥ श्रीस्कन्द उवाच- नमस्ते नमस्ते महादेव शम्भो नमस्ते नमस्ते प्रपन्नैकबन्धो । नमस्ते नमस्ते दयासारसिन्धो नमस्ते नमस्ते नमस्ते महेश ॥ ९॥ नमस्ते नमस्ते महामृत्युहारिन् नमस्ते नमस्ते महादुःखहारिन् । नमस्ते नमस्ते महापापहारिन् नमस्ते नमस्ते नमस्ते महेश ॥ १०॥ नमस्ते नमस्ते सदा चन्द्रमौले नमस्ते नमस्ते सदा शूलपाणे । नमस्ते नमस्ते सदोमैकजाने नमस्ते नमस्ते नमस्ते महेश ॥ ११॥ वेदान्तवेद्याय महादयाय कैलासवासाय शिवाधवाय । शिवस्वरूपाय सदाशिवाय शिवासमेताय नमःशिवाय ॥ १२॥ ॐ नमःशिवाय इति श्रीसूत उवाच- इति स्तुत्वा महादेवं सर्वव्यापिनमीश्वरम् । पुनःप्रणम्याथ ततः स्कन्दस्तस्थौ कृताञ्जलिः ॥ १३॥ भवन्तोऽपि मुनिश्रेष्ठाः साम्बध्यानपरायणाः । शिवनामजपं कृत्वा तिष्ठन्तु सुखिनः सदा ॥ १४॥ शिव एव सदा ध्येयः सर्वदेवोत्तमः प्रभुः । शिव एव सदा पूज्यो मुक्तिकामैर्न संशयः ॥ १५॥ महेशान्नाधिको देवः स एव सुरसत्तमः । स एव सर्ववेदान्तवेद्यो नात्रास्ति संशयः ॥ १६॥ जन्मान्तरसहस्रेषु यदि तप्तं तपस्तदा । तस्य श्रद्धा महादेवे भक्तिश्च भवति ध्रुवम् ॥ १७॥ सुभगा जननी तस्य तस्यैव कुलमुन्नतम् । तस्यैव जन्म सफलं यस्य भक्तिः सदाशिवे ॥ १८॥ ये शम्भुं सुरसत्तमं सुरगणैराराध्यमीशं शिवं शैलाधीशसुतासमेतममलं सम्पूजयन्त्यादरात् । ते धन्याः शिवपादपूजनपराः ह्यन्यो न धन्यो जनः सत्यं सत्यमिहोच्यते मुनिवराः सत्यं पुनः सर्वथा ॥ १९॥ सत्यं पुनः सर्वथा ॐ नम इति । नमः शिवाय साम्बाय सगणाय ससूनवे । प्रधानपुरुषेशाय सर्गस्थित्यन्तहेतवे ॥ २०॥ नमस्ते गिरिजानाथ भक्तानामिष्टदायक । देहि भक्तिं त्वयीशान सर्वाभीष्टं च देहि मे ॥ २१॥ साम्ब शम्भो महादेव दयासागर शङ्कर । मच्चित्तभ्रमरो नित्यं तवास्तु पदपङ्कजे ॥ २२॥ सर्वार्थ शर्व सर्वेश सर्वोत्तम महेश्वर । तव नामामृतं दिव्यं जिह्वाग्रे मम तिष्ठतु ॥ २३॥ यदक्षरं पदं भ्रष्टं मात्राहीनं च यद् भवेत् । तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ॥ २४॥ करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वाऽपराधम् । विहितमविहितं वा सर्वमेतत् क्षमस्व जयजय करुणाब्धे श्रीमहादेव शम्भो ॥ २५॥ कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत् सकलं परस्मै सदाशिवायेति समर्पयामि ॥ २६॥ ॥ ॐ तत्सत् इति श्रीमुख्यशिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥ The sahasranAma verses are also found in shrIshivarahasya saptamAMsha with slight variation.