अक्षर आकार:

श्रीशिवसहस्रनामस्तोत्रम् स्कन्दमहापुराणान्तर्गतम्

Shri Shiva Sahasranamastotram from SkandamahapurAna

श्रीशिवसहस्रनामस्तोत्रम् स्कन्दमहापुराणान्तर्गतम्

(श्रीस्कन्दमहापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे) हरश्शम्भुर्महादेवो नीलकण्ठस्सदाशिवः । भर्ता वरः पाण्डराङ्ग आनन्दश्शान्तविग्रहः ॥ १॥ एकोऽनन्तो मृगधरः शूलपाणिर्भवः शिवः । वह्निमध्यनटो मुक्तः स्वयम्भूर्निशिनर्तनः ॥ २॥ नन्दी परशुपाणिश्च ज्योतिर्भस्माङ्गरागभृत् । गजोत्पादी कपाली च नित्यश्शुद्धोऽग्निधारकः ॥ ३॥ शङ्करो भूरथो मेरुचापो वृषभवाहनः । उत्पत्तिशून्यो भूतेशो नागाभरणधारणः ॥ ४॥ उमार्धदेही हिमवज्जामाता भर्ग उत्तमः । उमापतिर्वह्निपाणिश्छेत्ता प्रलयनिर्भयः ॥ ५॥ एकरुद्रः पार्थबाणप्रदो रुद्रोऽतिवीर्यवान् । रविचक्ररथस्तद्वत्सोमचक्ररथःस्मृतः ॥ ६॥ दिगम्बरस्सर्वनेता विष्णुमत्स्यनिबर्हकः । मत्स्यनेत्रापहारीच मत्स्यनेत्र विभूषणः ॥ ७॥ मत्स्यपूजितपादश्च तथैव कमलासनः । वेदवेद्यः स्मृतस्तद्वद्वेदाश्वरथ ईरितः ॥ ८॥ वेदश्च वेदकौपीनो वेदनुपूरकस्तथा । वेदवाक्यो वेदमूर्तिर्वेदान्तो वेदपूजितः ॥ ९॥ सर्वेश्वरो नादवाच्यो ब्रह्ममूर्धनिकृन्तनः । ताण्डवश्चामृतस्तद्वदूर्ध्वताण्डवपण्डितः ॥ १०॥ आनन्दश्चण्ड आनन्दताण्डवः पूषदन्तभित् । भगनेत्रहरस्तद्वद्गजचर्माम्बरप्रियः ॥ ११॥ कामान्तको व्याघ्रभेदी मृगी चैकाङ्गकस्तथा । निर्विकारः पशुपतिस्सर्वात्मगोचरस्तथा ॥ १२॥ अग्रिनेत्रो भानुनेत्रश्चन्द्रनेत्रोऽपि कथ्यते । कूर्मनिग्राहकः कूर्मकपालाहारकस्तथा ॥ १३॥ कूर्मपूज्यस्तथा कूर्मकपालाभरणस्तथा । व्याघ्रचर्माम्बरः स्वामी तथा पाशविमोचकः ॥ १४॥ ओङ्काराभेनद् द्वन्द्वभञ्जकज्ञानमूर्तयः । विष्णुबाणो गणपतिः पूतोऽयन्तु पुरातनः ॥ १५॥ भूतनुश्च कृपामूर्तिः विष्णूत्पादकपादवान्। सुब्रह्मण्यपिता ब्रह्मपिता स्थाणुरथ स्मृतः ॥ १६॥ अर्भकक्षीरजलधिप्रदो पोत्रिविभेदकः । पोत्रिदन्तापहारी च पोत्रिदन्तविभूषणः ॥ १७॥ पोत्रिपूजितपादश्च चन्द्रपुष्पेषुकस्तथा । सर्वोपादानकस्तद्वदार्द्रभोऽग्निसमाकृतिः ॥ १८॥ मातापितृविहीनश्च धर्माधर्मावुभावपि । नियुक्तरथसारथ्यब्रह्मपूजितपादवान् ॥ १९॥ रक्तपिङ्गजटो विष्णुरभयो भानुदीपवान्। भूतसेनो महायोगी योगी कालियनर्तनः ॥ २०॥ गीतप्रियो नारसिंहनिग्रहीताऽपि कथ्यते। नारसिंहशिरोभूषो नारसिंहत्वगम्बरः ॥ २१॥ नारसिंहत्वगुत्पाटी नारासिंहसुपूजितः । अणुरूपी महारूपी अतिसुन्दरविग्रहः ॥ २२॥ आचार्यश्च पुण्यगिरिराचार्योऽपि च कथ्यते। भिक्षामर्दनगोलानां गिरिष्वाचार्य ईरितः ॥ २३॥ तथैषाष्टमहासिद्धिरन्तकान्तक ईरितः । घोरस्तथैव गिरिशः कृतमालविभूषणः ॥ २४॥ वृषध्वजो डमरुकधरो विष्ण्वक्षिधारकः । रक्ताङ्गश्च ब्रह्मसृष्टिप्रदश्चाभयरूपवान् ॥ २५॥ विष्णुरक्षाप्रदस्तद्वदष्टैश्वर्यसमन्वितः । तथैवाष्टगुणेशो वै चाष्टमङ्गलकेश्वरः ॥ २६॥ बकासुरस्य हर्ता च बकपक्षधरोऽपि सः । तथा मन्मथनाथोऽपि वासुदेवसुतप्रदः ॥ २७॥ महावतोऽध्वनित्यश्च त्यक्तकेतक ईरितः । महाव्रतो बिल्वमालाधारी पाशुपतः स्मृतः ॥ २८॥ त्रिधाभाश्च परञ्ज्योतिर्द्विसहस्रद्विजो भवान् । त्रिविक्रमनिहन्ता च त्रिविक्रमसुपूजितः ॥ २९॥ त्रिविक्रमत्वगुत्पाटी तथा तच्चर्मकञ्चुकः । त्रिविक्रमास्थिदण्डी च सर्वो मध्यस्थकोऽपि सः ॥ ३०॥ वटमूलो वेणिजटस्तथा विष्ण्वस्थिभूषणः । विकृतो विजयश्चैव तथा भक्तकृपाकरः ॥ ३१॥ स्तोत्रपूजाप्रियो रामवरदो हृदयाम्बुजः । तथा परशुरामैनोहारकस्तेन पूजितः ॥ ३२॥ रुद्राक्षमाली भोगी च महाभोगी च संस्मृतः । भोगातीतश्च सर्वेशो योगातीतो हरिप्रियः ॥ ३३॥ वेदवेदान्तकर्ता च त्र्यम्बकमनोहरौ । विनायको वितरणो विचित्रो व्रत इत्यपि ॥ ३४॥ परमेशो विरूपाक्षो देवदेवस्त्रिलोचनः । वैणिको विष्टरस्थोऽयं तथा क्षीरसमाकृतिः ॥ ३५॥ आरणः काठकश्चैव सुमुखोऽमृतवागपि । धुस्तूरपुष्पधारी च ऋग्यजुर्वेदिनावुभौ ॥ ३६॥ सामवेदी तथाऽथर्ववेदी कामिककारणौ । विमलो मकुटश्चैव वातुलोऽचिन्त्ययोगजौ ॥ ३७॥ दीप्तस्सूक्ष्मस्तथैवायं वीरश्च किरणोऽपि च । अजितश्च सहस्रश्च अंशुमान् सुप्रभेदकः ॥ ३८॥ तथा विजयनिश्वासौ नाम्ना स्वायम्भुवोऽप्ययम् । अनलो रौरवश्चन्द्रज्ञानो बिम्ब उदीरितः ॥ ३९॥ प्रोद्गीतो ललितस्सिद्धस्तथा सन्ताननामवान्। शर्वोत्तरस्तथाचार्यपारमेश्वर ईरितः ॥ ४०॥ उपागमसमाख्योऽपि तथा शिवपुराणकः । भविष्यच्च तथैवायं मार्कण्डेयोऽपि लैङ्गकः ॥ ४१॥ स्कान्दो वराहोऽपि तथा वामनो मत्स्यकूर्मकौ । ब्रह्माण्डो ब्राह्मपाद्मौ च गारुडो विष्णुनारदौ ॥ ४२॥ तथा भागवताग्नेयौ ब्रह्मकैवर्तकोऽप्ययम् । तथैवोपपुराणोऽपि रामस्यास्त्रप्रदोऽपि सः ॥ ४३॥ रामस्य चापहारी च रामपूजितपादवान्। मायी च शुद्धमायी च वैखरी मध्यमा परा ॥ ४४॥ पश्यन्ती च तथा सूक्ष्मा तथा प्रणवचापवान् । ज्ञानास्त्रस्सकलश्चैव निष्कलस्सकलश्च वै ॥ ४५॥ विष्णोः पतिरयं तद्वद्वलभद्रबलप्रदः । बलचापापहर्त्ता च बलपूजितपादवान् ॥ ४६॥ दण्डायुधो वाङ्गनसोरगोचरसुगन्धिनौ । श्रीकण्ठोऽप्ययमाचारः खट्वाङ्गः पाशभृत्तथा ॥ ४७॥ स्वर्णरूपी स्वर्णवीर्यस्सकलात्माऽधिपः स्मृतः । प्रलयः कालनाथोऽपि विज्ञानं कालनायकः ॥ ४८॥ पिनाकपाणिस्सुकृतो विष्कारो विस्तुरक्तपः । विष्णोः क्षारकरस्तद्वकृष्णज्ञानप्रदो हि सः ॥ ४९॥ कृष्णाय पुत्रदः कृष्णयुद्धदः कृष्णपापहा । कृष्णपूजितपादश्च कर्किविष्ण्वश्वभञ्जनः ॥ ५०॥ कर्किपूजितपादश्च वह्निजिह्वातिकृन्तनः । भारतीनासिकाच्छेत्ता पापनाशो जितेन्द्रियः ॥ ५१॥ शिष्टो विशिष्टः कर्ता च भीमेभ्यो भीम उच्यते । शिवतत्त्वं तथा विद्यातत्त्वं पञ्चाक्षरोऽपि सः ॥ ५२॥ पञ्चवक्त्रः स्मितशिरोधारी ब्रह्मास्थिभूषणः । आत्मतत्त्वं तथा दृश्यसहायो रसवीर्यवान् ॥ ५३॥ अदृश्यद्रष्टा मेनाया जामातोग्रष्षडङ्गवान् । तथा दक्षशिरश्छेत्ता तत्पुरुषो ब्राह्मणश्शिखी ॥ ५४॥ अष्टमूर्तिश्चाष्टभुजष्षडक्षरसमाह्वयः । पञ्चकृत्यः पञ्चधेनुः पञ्चवृक्षोऽग्निकश्चिवान् ॥ ५५॥ शङ्खवर्णस्सर्पकटिस्सूत्रोऽहङ्कार ईरितः । स्वाहाकारः स्वधाकारः फट्कारस्सुमुखः स्मृतः ॥ ५६॥ दीनान्धककृपालुश्च वामदेवोऽपि कन्थ्यते । धीरः कल्पो युगो वर्षमासावृतुसमाह्वयः ॥ ५७॥ राशिवासरनक्षत्रयोगाः करण ईरितः । घटी काष्ठा विनाडी च प्राणो गुरुनिमेषकौ ॥ ५८॥ श्रवणर्क्षो मेघवाहो ब्रह्माण्डसृगुदीरितः । जाग्रत्स्वप्नसुषुप्तिश्च तुर्योऽयमतितुर्यवान् ॥ ५९॥ तथैव केवलावस्थस्सकलावस्थ इत्यपि। शुद्धावस्थोत्तमाङ्गौ च सृष्टिरक्षाविधायिनौ ॥ ६०॥ संहर्ता च तिरोभूत अनुग्रहकरस्तथा । स्वतन्त्रः परतन्त्रश्च षण्मुखः काल ईरितः ॥ ६१॥ अकालश्च तथा पाशुपतास्त्रकर ईश्वरः । अघोरक्षुरिकास्त्रौ च प्रत्यङ्गास्त्रोऽपि क्थ्यते ॥ ६२॥ पादोत्सृष्टमहाचक्रो विष्णुवेश्याभुजङ्गकः । नागयज्ञोपवीती च पञ्चवर्णोऽपि मोक्षदः ॥ ६३॥ वाय्वग्नीशौ सर्पकच्छः पञ्चमूर्तश्च भोगदः । तथा विष्णुशिरश्छेत्ता शेषज्यो बिन्दुनादकः ॥ ६४॥ सर्वज्ञो विष्णुनिगलमोक्षको बीजवर्णकः । बिल्वपत्रधरो बिन्दुनादपीठस्तु शक्तिदः ॥ ६५॥ तथा रावणनिष्पेष्टा भैरवोत्पादकोऽप्ययम्। दक्षयज्ञविनाशी च त्रिपुरत्रयशिक्षकः ॥ ६६॥ सिन्दूरपत्रधारी च मन्दारस्रगलङ्कृतः । निर्वीर्यो भावनातीतस्तथा भूतगणेश्वरः ॥ ६७॥ बिष्णुभ्रूमध्यपादी च सर्वोपादानकारणम् । निमित्तकारणं सर्वसहकार्यपि कथ्यते ॥ ६८॥ तत्सद्व्यासकरच्छेत्ता शूलप्रोतहरिस्तथा । भेदाभेदौ वेदवल्लीकण्ठच्छेत्ता हि कथ्यते ॥ ६९॥ पञ्चब्रह्मस्वरूपी च भेदाभेदोभयात्मवान् । अच्छस्फटिक सङ्काशो ब्रह्मभस्मावलेपनः ॥ ७०॥ निर्दग्धविष्णुभस्माङ्गरागः पिङ्गजटाधरः । चण्डार्पितप्रसादश्च धाता धातृविवर्जितः ॥ ७१॥ कल्पातीतः कल्पभस्म चागस्त्यकुसुमप्रियः । अनुकल्पोपकल्पौ च सङ्कल्पश्छेददुन्दुभिः ॥ ७२॥ विकल्पो विष्णुदुर्ज्ञेयपादो मृत्युञ्जयः स्मृतः । विष्णुश्मशाननटनो विष्णुकेशोपवीतवान् ॥ ७३॥ ब्रह्मश्मशाननटनः पञ्चरावणघातकः । सर्पाधीशान्तरस्तद्वदनलासुरघातकः ॥ ७४॥ महिषासुरसंहर्ता नालीदूर्वावतंसकः । देवर्षिनरदैत्येशो राक्षसेशो धनेश्वरः ॥ ७५॥ चराचरेशोऽनुपदो मूर्तिच्छन्दस्वरूपिणौ । एकद्वित्रिचतुः पञ्चजानिनो विक्रमाश्रमः ॥ ७६॥ ब्रह्मविष्णुकपालाप्तजयकिङ्किणिकाङ्घ्रिकः । संहारकाट्टहासोऽपि सर्वसंहारकः स्मृतः ॥ ७७॥ सर्वसंहारनेत्राग्निः सृष्टिकृद्वाङ्मनोयुतः । संहारकृत् त्रिशूलोऽपि रक्षाकृत्पाणिपादवान् ॥ ७८॥ भृङ्गिनाट्यप्रियश्शङ्खपद्मनिध्योरधीश्वरः । सर्वान्तरो भक्तचिन्तितार्थदो भक्तवत्सलः ॥ ७९॥ भक्तापराधसोढा च विकीर्णजट ईरितः । जटामकुटधारीच विशदास्त्रोऽपि कथ्यते॥ ८०॥ अपस्मारीकृताविद्यापृष्ठाङ्घ्रिः स्थौल्यवर्जितः । युवा नित्ययुवा वृद्धो नित्यवृद्धोऽपि कथ्यते ॥ ८१॥ शक्त्युत्पाटी शक्तियुक्तस्सत्यात्सत्योऽपि कथ्यते। विष्णूत्पादक अद्वन्द्वः सत्यासत्यश्च ईरितः ॥ ८२॥ मूलाधारस्तथा स्वाधिष्ठानश्च मणिपूरकः । अनाहतो विशुद्ध्याज्ञे तथा ब्रह्मबिलं स्मृतः ॥ ८३॥ वराभयकरश्शास्तृपिता तारकमारकः । सालोक्यदश्व सामीप्यदायी सारूप्यदः स्मृतः ॥ ८४॥ सायुज्यमुक्तिदस्तद्वद्धरिकन्धरपादुकः । निकृत्तब्रह्ममूर्धा च शाकिनीडाकिनीश्वरः ॥ ८५॥ योगिनीमोहिनीनाथो दुर्गानाथोऽपि कथ्यते। यज्ञो यज्ञेश्वरो यज्ञहविर्भुग्यज्वनां प्रियः ॥ ८६॥ विष्णुशापापहर्ता च चन्द्रशापापहारकः । इन्द्रशापापहर्ताच वेदागमपुराणकृत् ॥ ८७॥ विष्णुब्रह्मोपदेष्टा च स्कन्दोमादेशिकोऽप्ययम्। विघ्नेशस्योपदेष्टा च नन्दिकेशगुरुस्तथा ॥ ८८॥ तथा ऋषिगुरुस्सर्वगुरुर्दशदिगीश्वरः । दशायुधदशाङ्गौ च ज्ञानयज्ञोपवीतवान्॥ ८९॥ ब्रह्मविष्णुशिरोमुण्डकन्दुकः परमेश्वरः । ज्ञानक्रियायोगचर्यानिरतोरगकुण्डलौ ॥ ९०॥ ब्रह्मतालप्रियो विष्णुपटहप्रीतिरप्ययम्। भण्डासुरापहर्ताच कङ्कपत्रधरोऽप्ययम् ॥ ९१॥ तन्त्रवाद्यरतस्तद्वदर्कपुष्पप्रियोऽप्ययम्। विष्ण्वास्यमुक्तवीर्योऽपि देव्यग्ग्रकृतताण्डवः ॥ ९२॥ ज्ञानाम्बरो ज्ञानभूषो विष्णुशङ्खप्रियोऽप्ययम् । विष्णूदरविमुक्तात्मवीर्यश्चैव परात्परः ॥ ९३॥ महेश्वरश्चेश्वरोऽपि लिङ्गोद्भवसुखासनौ । उमासखश्चन्द्रचूडश्चार्धनारीश्वरः स्मृतः ॥ ९४॥ सोमास्कन्दस्तथा चक्रप्रसादी च त्रिमूर्तिकः । अर्धाङ्गविष्णुश्च तथा दक्षिणामूर्तिरव्ययः ॥ ९५॥ भिक्षाटनश्च कङ्कालः कामारिः कालशासनः । जलन्धरारिस्त्रिपुरहन्ता च विषभक्षणः ॥ ९६॥ कल्याणसुन्दरशरभमूर्ती च त्रिपादपि । एकपादो भैरवश्च वृषारूढस्सदानटः ॥ ९७॥ गङ्गाधरष्षण्णवतितत्त्वमप्ययमीरितः । तथा साष्टशतभेदमूरतिरष्टशताह्वयः ॥ ९८॥ अष्टोत्तरशतं तालरागनृत्तैकपण्डितः । सहस्राख्यस्सहस्राक्षस्सहस्रमुख ईरितः ॥ ९९॥ सहस्रबाहु स्तन्मूर्तिरनन्तमुख ईरितः । अनन्तनामापि तथा चानन्तश्रुतिरप्ययम् ॥ १००॥ अनन्तनयनस्तद्वदनन्तघ्राणमण्डितः । अनन्तरूप्ययं तद्वदनन्तैश्वर्यवान् स्मृतः ॥ १०१॥ अनन्तशक्तिकृत्यावाननन्तज्ञानवानयम् । अनन्तानन्दसन्दोह अनन्तौदार्यवानयम् ॥ १०२॥ तथैव पृथिवीमूर्तिः पृथिवीशोऽपि कथ्यते । पृथिवीधारकस्तद्वत्पृथिव्यान्तर ईरितः ॥ १०३॥ पृथिव्यतीतश्च तथा पार्थिवाण्डाभिमान्ययम् । तदण्डपुरुषहृदयकमलोऽपि निगद्यते ॥ १०४॥ तदण्डभुवनेशानः तच्छक्तिधरणात्मकः । आधारशक्त्यधिष्ठानानन्ताः कालाग्निरप्ययम् ॥ १०५॥ कालाग्निरुद्रभुवनपतिरप्ययमीरितः । अनन्तश्च तथेशश्च शङ्करः पद्मपिङ्गलौ ॥ १०६॥ कालश्च जलजश्चैव क्रोधोऽतिबल ईरितः । धनदश्चातिकूश्माण्डभुवनेशोऽपि कथ्यते ॥ १०७॥ कूश्माण्डस्सप्तपातालनायकोऽपि निगद्यते । पातालान्तोऽपि चेशानो बलातिबलनावुभौ ॥ १०८॥ बलविकरणश्चायं बलेशोऽपि बलेश्वरः । बलाध्यक्षश्च बलवान्हाटकेशोऽपि कथ्यते ॥ १०९॥ तथा तद्भुवनेशानस्तथैवाष्टगजेश्वरः । अष्टनागेश्वरस्तद्वद्भूलोकेशोऽपि कथ्यते ॥ ११०॥ मेर्वीशो मेरुशिखरराजोऽवनिपतिस्तथा । त्र्यम्बकश्चाष्टकुलपर्वतेशोऽपि कथ्यते ॥ १११॥ मानसोत्तरगिरि स्तद्वद्विश्वेशोऽपि निगद्यते । स्वर्णलोकश्चक्रवालगिरिवासविरामकः ॥ ११२॥ धर्मो विविधधामा च शङ्खपालश्च कथ्यते । तथा कनकरोमा च पर्जन्यः केतुमानपि ॥ ११३॥ विरोचनो हरिच्छायो रक्तच्छायश्च कथ्यते । महान्धकारनाथोऽपि अण्डभित्तीश्वरोऽप्ययम् ॥ ११४॥ प्राचीवज्रीश्वरो दक्षिणप्राचीशोऽपि गद्यते । अग्नीश्वरो दक्षिणश्च दिगीशो धर्मराडपि ॥ ११५॥ दक्षिणाशापतिस्तद्वन्निरृतीशोऽपि कथ्यते । पश्चिमाशापतिस्तद्वद्वरुणेशोऽपि कथ्यते ॥ ११६॥ तथोदक्पश्चिमेशोऽपि वाय्वीशोऽपि तथोच्यते । तथैवोत्तरदिङ्नाथः कुबेरेशोऽपि चोच्यते ॥ ११७॥ तथैवोत्तरपूर्वेश ईशानेशोऽपि कथ्यते । कैलासशिखरीनाथः श्रीकण्ठपरमेश्वरः ॥ ११८॥ महाकैलासनाथोऽपि महासदाशिवः स्मृतः । भुवर्लोकेशशम्भूग्रास्सूर्यमण्डलनायकः ॥ ११९॥ प्रकाशरुद्रो यश्चन्द्रमण्डलेशोऽपि कथ्यते । तथा चन्द्रमहादेवो नक्षत्राणामधीश्वरः ॥ १२०॥ ग्रहलोकेश गन्धर्वगान्धर्वेशावुभावपि । सिद्धविद्याधरेशोऽयं किन्नरेशोऽपि कथ्यते ॥ १२१॥ यक्षचारणनाथोऽपि स्वर्लोकेशोऽपि स स्मृतः । भीमश्चैव महर्लोकनाथश्चैव महाभवः ॥ १२२॥ जनलोकेश्वरो ज्ञानपादो जननवर्जितः । अतिपिङ्गल आश्चर्यो भौतिकश्च श‍ृतोऽप्ययम् ॥ १२३॥ तपोलोकेश्वरस्तप्तो महादेवोऽपि स स्मृतः । सत्यलोकेश्वरस्तद्वत् ब्रह्मेशानोऽपि चोच्यते ॥ १२४॥ विष्णुलोकेशविष्पवीशौ शिवलोकः परश्शिवः । अण्डान्तेशो दण्डपाणिरण्डपृष्ठेश्वरोऽप्ययम् ॥ १२५॥ श्वेतश्च वायुवेगोऽपि सुपात्रश्च स्मृतोऽप्ययम् । विद्याह्वयात्मकस्तद्वत्कालाग्निश्च स्मृतोऽप्ययम् ॥ १२६॥ महासंहारकस्तद्वन्महाकालोऽपि कथ्यते । महानिरृतिरप्येव महावरुण इत्यपि ॥ १२७॥ वीरभद्रो महांस्तद्वच्छतरुद्रोऽपि कथ्यते । भद्रकालवीरभद्रौ कमण्डलुधरोऽप्ययम् ॥ १२८॥ अब्भुवनेशोऽपि तथा लक्ष्मीनाथोऽपि कथ्यते । सरस्वतीशो देवेशः प्रभावेशोऽपि कथ्यते ॥ १२९॥ तथैव डिण्डीवल्मीकनाथौ पुष्करनायकः । मण्डीशभारभूतेशौ बिलालकमहेश्वर ॥ १३०॥ तेजोमण्डलनाथोऽपि तेजोमण्डलमूर्तिपः । तेजोमण्डलविश्वेशश्शिवोऽग्निरपि कथ्यते ॥ १३१॥ वायुमण्डलमूर्तिश्च वायुमण्डलधारकः । वायुमण्डलनाथश्च वायुमण्डलरक्षकः ॥ १३२॥ महावायुसुवेगोऽयमाकाशमण्डलेश्वरः । आकाशमण्डलधरस्तन्मूर्तिरपि संस्मृतः ॥ १३३॥ आकाशमण्डलातीतस्तन्मण्डलभुवनपः । महारुद्रश्च तन्मात्रमण्डलेशश्च संस्मृतः ॥ १३४॥ तन्मात्रमण्डलपतिर्महाशर्वमहाभवौ । महापशुपीतश्चापि महाभीमो महाहरः ॥ १३५॥ कर्मेन्द्रियमण्डलेशस्तन्मण्डलभुवः पतिः पतिः । क्रियासरस्वतीनाथः क्रिया ( श्रिया) लक्ष्मीपतिस्तथा ॥ १३६॥ क्रियेन्द्रियः क्रियामित्रः क्रियाब्रह्म पतिः पतिः । ज्ञानेन्द्रियमण्डलेशः तन्मण्डलभुवनपः ॥ १३७॥ भूमिदेवदिश्शिवेशश्च वरुणोऽपि च वह्निपः । वातेशो विविधाविष्टमण्डलेशाबुभावपि ॥ १३८॥ विषयमण्डलभुवनेशो गन्धर्वेशः शिवेश्वरः । प्रासादबलभद्रश्च सूक्मेशो मानवेश्वरः ॥ १३९॥ अन्तःकरणमण्डलेशो बुद्धिचित्तमनः पतिः । अहङ्कारेश्वरश्चापि गुणमण्डलनायकः ॥ १४०॥ संवर्तस्तामसगुणपतिस्तद्भुवनाधिपः । एकवीरः कृतान्तश्च सन्न्यासी सर्वशङ्करः ॥ १४१॥ पुरुषमृगानुग्रहदस्ससाक्षीको गुणाधिपः । काक्षीकश्च भुवनेशः कृतश्च कृतभैरवः ॥ १४२॥ ब्रह्माश्रीकण्ठदेवोऽयं सराजसगुणेश्वरः । राजसगुणभुवनेशो बलाध्यक्षश्च कथ्यते ॥ १४३॥ गुणाध्यक्षो महाशान्तो महात्रिपुरघातकः । सर्वरूपी निमेषश्च उन्मेष इति कथ्यते ॥ १४४॥ प्रकृतीमण्डलेशोऽयं तन्मण्डलभुवनपः । शुभरामशुभभीमशुद्धोग्रशुद्धभव शुद्धशर्वशुद्धैकवीराः ॥ १४५॥ प्रचण्डपुरुषशुभगन्धजनिरहितहरीशनागमण्डलेशाः । नागमण्डलभुवनेश अप्रतिष्ठः प्रतिष्ठकः ॥ १४६॥ रूपाङ्गमनोन्मनमहावीरस्वरूपकाः । कल्याणबहुवीरश्च बलमेधादिचेतनः ॥ १४७॥ दक्षो नियतिमण्डलेशो नियतिमण्डलभुवनपः । वासुदेवश्च वज्री च विधाताऽभ्रमणिः स्मृतः ॥ १४८॥ कलविकरणश्चैव बलविकरणस्तथा । बलप्रमथनश्चैव सर्वभूतदमश्च सः ॥ १४९॥ विद्यामण्डलेशो विद्यामण्डलभुवनपः । महादेवो महाज्योतिर्महादेवेश इत्यपि ॥ १५०॥ कलामण्डलेशश्व कलामण्डलभुवनपः । विशुद्धश्च प्रबुद्धश्च शुद्धश्चैव स्मृतश्च सः ॥ १५१॥ शुचिवर्णप्रकाशश्च महोक्षोक्षा च कीर्तितः । मायातन्वीश्वरो मायाभुवनेशस्सुशक्तिमान् ॥ १५२॥ विद्योतनो विश्वबीजो ज्योतीरूपश्च गोपतिः । त्रिकालब्रह्मकर्ता च अनन्तेशश्च संस्मृतः ॥ १५३॥ शुद्धविद्येशः शुद्धश्च विद्याभुवननायकः । वामेशसर्वज्येष्ठेशौ रौद्रीकालेश्वरावुभौ ॥ १५४॥ कलविकरणीकश्च बलविकरणीश्वरः । बलप्रमथिनीशोऽपि सर्वभूतदमेश्वरः ॥ १५५॥ मनोन्मनेशस्तत्त्वेशस्तथैव भुवनेश्वरः । महामहेश्वरस्सदाशिवतत्त्वेश्वरावुभौ ॥ १५६॥ सदाशिवभुवनेशो ज्ञानवैराग्यनायकः । ऐश्वर्येशश्च धर्मेशस्सदाशिव इति स्मृतः ॥ १५७॥ अणुसदाशिवोऽप्येष अष्टविद्येश्वरोऽप्ययम् । शक्तितत्त्वेश्वरश्शक्तिभुवनेशोऽपि कथ्यते ॥ १५८॥ बिन्दुमूर्तिस्सप्तकोटिमहामन्त्रेश्वरोऽप्ययम् । निवृत्तीशः प्रतिष्ठेशो विद्येशश्शान्तिनायकः ॥ १५९॥ शान्त्यतीतेश्वरस्तद्वदर्धचन्द्रेश्वरोऽप्ययम् । सुशान्तीशश्च तथा शिवाश्रयसमाह्वयः ॥ १६०॥ योजनीयश्च योज्यश्च योजनातीतनायकः । सुप्रभेदनिरोधीशौ इन्धनीरेचकेश्वरः ॥ १६१॥ रौद्रीशज्ञानबोधेशौ तमोपह इति स्मृतः । नादतत्त्वेश्वरस्तद्वन्नादाख्यभुवनेश्वरः ॥ १६२॥ इन्धिकेशो दीपिकेशो मोचिकेशश्च संस्मृतः । ऊर्ध्वगामिनीशोऽपि इडानाथोऽपि कथ्यते ॥ १६३॥ सुषुम्नेशः पिङ्गलेशो ब्रह्मरन्ध्रेश्वरोऽप्ययम् । ब्रह्मरन्ध्रस्वरूपीशः पञ्चबीजेश्वरोऽप्ययम् ॥ १६४॥ अमृतेशश्च शक्तीशस्सूक्ष्मेशश्च सुसूक्ष्मपः । मृतेशश्चामृतेशोऽपि व्यापिनीशोऽपि कथ्यते ॥ १६५॥ परनादेश्वरो व्योम व्योमरूपी च कथ्यते । अनाश्रितोऽप्यनन्तश्च अनादश्च मुनीश्वरः ॥ १६६॥ उन्मनीशो मन्त्रमूर्तिर्मन्त्रेशो मन्त्रधारकः । मन्त्रातीतः पदामूर्तिः पदेशः पदधारकः ॥ १६७॥ पदातीतोऽक्षरात्मा च अक्षरेशोऽक्षराश्रयः । कलातीतश्च तथा ओङ्कारात्मा च कथ्यते ॥ १६८॥ ओङ्कारेशश्चतथा ओङ्कारासन ईरितः । पराशक्तिपतिस्तद्वदादिशक्तिपतिश्च सः ॥ १६९॥ इच्छाशक्तिपतिश्चैव ज्ञानशक्तिपतिश्च सः । क्रियाशक्तिपतिस्तद्वत् शिवसादाख्य ईरितः ॥ १७०॥ अमूर्तिसादारव्यश्चैव मूर्तिसादारव्य ईरितः । कर्तृसादाख्यश्च तथा कर्मसादाख्य ईरितः ॥ १७१॥ सर्वस्रष्टा सर्वरक्षाकारकस्सर्वहारकः । तिरोभावकृदप्येष सर्वानुग्राहकस्तथा ॥ १७२॥ निरञ्जनोऽचञ्चलश्च विमलोऽनल ईरितः । सच्चिदानन्दरूपी च विष्णुचक्रप्रसादकृत् ॥ १७३॥ सर्वव्यापी तथाद्वैतविशिष्टाद्वैतकावुभौ । परिपूर्णो लिङ्गरूपो महालिङ्गस्वरूपवान् ॥ १७४॥ श्रीसूतः - एवमाख्यातमधुना युष्माकं ब्राह्मणोत्तमाः । अष्टोत्तरसहस्राणि नामानि गिरिजापतेः ॥ १७५॥ यः पठेच्छम्भुनामानि पवित्राणि महामतिः । श‍ृणुयाद्वापि भक्त्या स रुद्र एव न संशयः ॥ १७६॥ स धन्यस्स कुलीनश्च स पूज्यस्स महत्तरः । तस्यैव च महालक्ष्मीस्तस्यैव च सरस्वती ॥ १७७॥ स शक्तानपि सङ्ग्रामे विभीषयति रुद्रवत् । पुत्रार्थी पुत्रमाप्नोति धनार्थी च महद्धनम् ॥ १७८॥ आरोग्यकामस्त्वारोग्यमव्याधिदृढगात्रताम् । शिखायां धारयेद्योऽसौ लिखित्वा पुस्तके सदा ॥ १७९॥ राजद्वारे च सदसि स वशीकुरुते जनान् । न च हिंसन्ति सर्पाद्या राक्षसा न पिशाचकाः ॥ किं पुनर्ब्राह्मणश्रेष्ठास्सर्वान्कामान् लभेदयम् ॥ १८०॥ ॥ इति श्रीस्कन्दमहापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे श्रीशिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥