अक्षर आकार:

श्रीशिवसहस्रनामस्तोत्रं श्रीसौरपुराणान्तर्गतम्

Shri Shiva Sahasranamastotram from Saurapurana

श्रीशिवसहस्रनामस्तोत्रं श्रीसौरपुराणान्तर्गतम्

ऋषय ऊचु - सुदर्शनाख्यं यच्चक्रं लब्धवांस्तत्कथं हरिः । महादेवाद्भगवतः सत्त तद्वक्तुमर्हसि ॥ १॥ सूत उवाच - देवासुराणामभवत्सङ्ग्रामोऽद्भुतदर्शनः । देवा विनिर्जिता दैत्यैर्विष्णुं शरणमागताः ॥ २॥ स्तुत्वा तं विविधैः स्तोत्रैः प्रणम्य पुरतः स्थिताः । भयभीताश्च ते सर्वे क्षताङ्गाः क्लेशिता भृशम् ॥ ३॥ तान्दृष्ट्वा प्राह भगवान्देवदेवो जनार्दनः । किमर्थमागता देवा वक्तुमर्हथ साम्प्रतम् ॥ ४॥ वचः श्रुत्वा हरेर्देवाः प्रणम्योचुः सुरोत्तमाः । निर्जिता दानवैः सर्वे शरणं त्वामिहाऽऽगताः ॥ ५॥ गतिस्त्वमेव देवानां त्राता त्वं पुरुषोत्तम । हन्तुमर्हसि ताञ्शीघ्रमवध्यान्वारिजेक्षण ॥ ६॥ जालन्धरवधार्थाय यच्चक्रं शूलपाणिनः । महादेववराल्लब्धं जहि तेन महाबलान् ॥ ७॥ तेषां तद्वचनं श्रुत्वा भगवान्वारिजेक्षणः । अहं देवास्तथा नूनं करिष्यामीति सुव्रताः ॥ ८॥ हिमवत्पर्वतं गत्वा पूजयामास शङ्करम् । लिङ्गं तत्र प्रतिष्ठाप्य स्नाप्य गन्धोदकैः शुभैः ॥ ९॥ त्वरिताख्येन रुद्रेण सम्पूज्य च महेश्वरम् । ततो नाम्नां सहस्रेण तुष्टाव परमेश्वरम् ॥ १०॥ प्रतिनाम च पद्मानि तैरिष्ट्वा वृषभध्वजम् । भवाद्यैर्नामभिर्भक्त्या स्तोतुं समुपचक्रमे ॥ ११॥ श्रीविष्णुरुवाच - भवः शिवो हरो रुद्रः पुष्कलो मुग्धलोचनः । अग्रगण्यः सदाचारः सर्वः शम्भुर्महेश्वरः ॥ १२॥ ईश्वरः स्थाणुरीशानः सहस्राक्षः सहस्रपात् । वरीयान्वरदो वन्द्यः शङ्करः परमेश्वरः ॥ १३॥ गङ्गाधरः शूलधरः परार्थैकप्रयोजकः । सर्वज्ञः सर्वदेवादिर्गिरिधन्वा जटाधरः ॥ १४॥ चन्द्रापीडश्चन्द्रमौलिर्वेधा विश्वामरेश्वरः । वेदान्तसारसन्दोहः कपाली नीललोहितः ॥ १५॥ ध्यानाहारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः । अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गः स्वर्गसाधनः ॥ १६॥ ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः । वामदेवो महादेवः पटुः परिवृढो दृढः ॥ १७॥ विश्वरूपो विरूपाक्षो वागीशः श्रुतिमन्त्रगः । सर्वप्रणवसंवादी वृषाङ्को वृषवाहनः ॥ १८॥ ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः । मनोमयो महायोगी स्थिरो ब्रह्माण्डधूर्जटी ॥ १९॥ कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः । नागचूडः सुचक्षुष्यो दुर्वासाः पुरशासनः ॥ २०॥ दृगायुधः स्कन्दगुरुः परमेष्ठी परायणः । अनादिमध्यनिधनो गिरीशो गिरिजाधवः ॥ २१॥ कुबेरबन्धुः श्रीकण्ठो लोकवन्द्योत्तमो मृदुः । सामान्यो देवको दण्डी नीलकण्ठः परश्वधीः ॥ २२॥ विशालाक्षो महाव्याधः सुरेशः सूर्यतापनः । धर्मधामा क्षमाक्षेत्रं भगवान्भगनेत्रहा ॥ २३॥ उग्रः पशुपतिस्तार्क्ष्यः प्रियभक्तः प्रियंवदः । दाता दयाकरो दक्षः कपर्दी कामशासनः ॥ २४ श्मशाननिलयस्तिष्यः श्मशानस्थो महेश्वरः । लोककर्ता भूतपतिर्महाकर्ता महौषधिः ॥ २५॥ उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । नीतिः सुनीतिः शुद्धात्मा सोमः सोमरतः सुधीः ॥ २५॥ सोमपोऽमृतपः सौम्यो महानीतिर्महास्मृतिः । अजातशत्रुरालोक्यः सम्भाव्यो हव्यवाहनः ॥ २७॥ लोककारो वेदकारः सूत्रकारः सनातनः । महर्षिः कपिलाचार्यो विश्वदीप्तिर्विलोचनः ॥ २८॥ पिनाकपाणिर्भूदेवः स्वस्तिकृत्स्वस्तिदः सुधा । धात्रीधामा धामकरः सर्वगः सर्वगोचरः ॥ २९॥ ब्रह्मसृग्विश्वसृक्सर्गः कर्णिकारः प्रियः कविः । शाखो विशाखो गोशाखः शिवो भिषगनुत्तमः ॥ ३०॥ गङ्गाप्लवोदको भव्यः पुष्कलः स्थपतिः स्थितः । विजितात्मा विधेयात्मा भूतवाहनसारथिः ॥ ३१॥ सगणो गणकायश्च सुकीर्तिश्छिन्नसंशयः । कामदेवः कामकालो भस्मोद्धूलितविग्रहः ॥ ३२॥ भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः । समावृत्तो निवृत्तात्मा धर्मपुञ्जः सदाशिवः ॥ ३३॥ अकल्मषश्चतुर्बाहुः सर्वावासो दुरासदः । दुर्लभो दुर्गमो दुर्गः सर्वायुधविशारदः ॥ ३४॥ अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः । शुभाङ्गो योगसारङ्गो जगदीशो जनार्दनः ॥ ३५॥ भस्मशुद्धिकरो मेरुस्तेजस्वी शुद्धविग्रहः । हिरण्यरेतास्तरणिर्मरीचिर्महिमालयः ॥ ३६॥ महाह्रदो महागर्तः सिद्धवृन्दारवन्दितः । व्याघ्रचर्मधरो व्याली महाभूतो महानिधिः ॥ ३७॥ अमृतात्माऽमृतवपुः पञ्चयज्ञः प्रभञ्जनः । पञ्चविंशतितत्त्वस्थः पारिजातः परापरः ॥ ३८॥ सुलभः सुव्रतः शूरो वाग्मायैकनिधिर्निधिः । वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः ॥ ३९॥ आश्रमः क्षपणः क्षामो ज्ञानवानचलश्चलः । प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः ॥ ४०॥ धनुर्धरो धनुर्वेदो गुणराशिर्गुणाकरः । अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः ॥ ४१॥ अविवाद्यो महाकायो विश्वकर्मा विशारदः । वीतरागो विनीतात्मा तपस्वी भूतवाहनः ॥ ४२॥ उन्मत्तवेषः प्रच्छन्नो जितकामो जितप्रियः । कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः ॥ ४३॥ तपस्वी तारको धीमान्प्रधानप्रभुरव्ययः । लोकपालोऽन्तर्हितात्मा कल्पादिः कमलेक्षणः ॥ ४४ वेदशास्त्रार्थतत्त्वज्ञो नियमो नियमाश्रयः । राहुः सूर्यः शनिः केतुर्विरामो विद्रुमच्छविः ॥ ४५॥ भक्तिगम्यः परं ब्रह्म मृगबाणार्पणोऽनघः । अद्रिद्रोणिकृतस्थानः पवनात्मा जगत्पतिः ॥ ४६॥ सर्वकर्माचलस्त्वष्टा मङ्गऽल्यो मङ्गलप्रदः । महातपा दीर्घतपाः स्थविष्णुः स्थविरो ध्रुवः ॥ ४७॥ अहः संवत्सरो व्यालः प्रमाणं परमं तपः । संवत्सरकरो मन्त्रः प्रत्ययः सर्वदर्शनः ॥ ४८॥ अजः सर्वेश्वरः सिद्धो महारेता महाबलः । योगी योगो महादेवः सिद्धः सर्वादिरच्युतः ॥ ४९॥ वसुर्वसुमनाः सत्यः सर्वपापहरो हरः । अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान् ॥ ५०॥ कमण्डलुधरो धन्वी वेदाङ्गो वेदविन्मुनिः । भ्राजिष्णुर्भोजनं भोक्ता लोकनेता दुराधरः ॥ ५१॥ अतीन्द्रियो महामायः सर्वावासश्चतुष्पथः । कालयोगी महानादो महोत्साहो महाचलः ॥ ५२॥ महाबुद्धिर्महावीर्यो भूतचारी पुरन्दरः । निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः ॥ ५३॥ अनिर्देश्यवपुः श्रीमान्सर्वाकर्षकरो मतः । बहुश्रुतो बहुमायो नियतात्माऽभयोद्भवः ॥ ५४॥ ओजस्तेजोद्युतिधरो नर्तकः सर्वनायकः । नित्यघण्टाप्रियो नित्यप्रकाशात्मा प्रतापनः ॥ ५५॥ ऋद्धः स्पष्टाक्षरो मन्त्रः सङ्ग्रामः शारदप्लवः । युगादिकृद्युगावर्तो गम्भीरो वृषवाहनः ॥ ५६॥ इष्टो विशिष्टः शिष्टेष्टः शरभः सरभो धनुः । अपां निधिरधिष्ठानं विजयो जयकालवित् ॥ ५७॥ प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः । विमोचनं सुरगणो विद्येशो विबुधाश्रयः ॥ ५८॥ बालरूपो बलोन्मायी विकर्ता गहनो गुहः । करणं कारणं कर्ता सर्वबन्धप्रमोचनः ॥ ५९॥ व्यवसायो व्यवस्थानः स्थानदो जनदादिजः । दुन्दुभो ललितो विश्वो भवात्माऽऽत्मनि संस्थितः ॥ ६०॥ राजराजप्रियो रामो राजचूडामणिः प्रभुः । वीरेश्वरो वीरभद्रो वीरासनविधिर्विराट् ॥ ६१॥ वीरचूडामणिहर्ता तीव्रानन्दो नदीधरः । आत्माधारस्त्रिशूलाङ्कः शिपिविष्टः शिवाश्रयः ॥ ६२॥ बालखिल्यो महाचारस्तिग्मांशुर्वारिधिः खगः । अभिरामः सुशरण्यः सुब्रह्मण्यः सुधापतिः ॥ ६३॥ मधुमान्कौशिको गोमान्विरामः सर्वसाधनः । ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत् ॥ ६४॥ अमोघदण्डो मध्यस्थो हिरण्यो ब्रह्मवर्चसी । परब्रह्मपदो हंसः शबरो व्याघ्रकोऽनलः ॥ ६५॥ रुचिर्वररुचिर्वन्द्यो वाचस्पतिरहर्पतिः । रविर्विरोचनः स्कन्दः शास्ता वैवस्वतोऽर्जुनः ॥ ६६॥ मुक्तिरुन्नतकीर्तिश्च शान्तरामः पुरञ्जयः । कैलासपतिः कामारिः सविता रविलोचनः ॥ ६७॥ विद्वत्तमो वीतभयो विश्वकर्माऽनिवारितः । नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः ॥ ६८॥ दूरश्रवा विश्वसहो ध्येयो दुःस्वप्ननाशनः । उत्तारको दुष्कृतिहा दुर्धर्षो दुःसहोऽभयः ॥ ६९॥ अनादिर्भूर्भुवो लक्ष्मीः किरीटी त्रिदशाधिपः । विश्वगोप्ता विश्वहर्ता सुवीरो रुचिराङ्गदी ॥ ७०॥ जननो जनजन्मादिः प्रीतिमान्नीतिमानथ । वसिष्ठः कश्यपो भानुर्भीमो भीमपराक्रमः ॥ ७१॥ प्रणवः सत्पथाचारो महाकायो महाधनुः । जन्माधिपो महादेवः सकलागमपारगः ॥ ७२॥ तत्त्वं तत्त्वविदेकात्मा विभूतिर्भूतिभूषणः । ऋषिर्ब्राह्मणविद्विष्णुर्जन्ममृत्युजरातिगः ॥ ७३॥ यज्ञो यज्ञपतिर्यज्वा यज्ञान्तोऽमोघविक्रमः । महेन्द्रो दुर्भरः सेनी यज्ञाङ्गो यज्ञवाहनः ॥ ७४॥ पञ्चब्रह्मसमुत्पत्तिर्विश्वतो विमलोदयः । आत्मयोनिरनाद्यन्तः पट्त्रिंशो लोकभृत्कविः ॥ ७५॥ गायत्रीवल्लभः प्रांशुर्विश्वावासः सदाशिवः । शिशुर्गिरिरतः सम्राट् सुषेणः सुरशत्रुहा ॥ ७६॥ अमेयोऽरिष्टमथनो मुकुन्दो विगतज्वरः । स्वयञ्ज्योतिरनुज्योतिरचलः परमेश्वरः ॥ ७७॥ पिङ्गलः कपिलश्मश्रुः शास्त्रनेत्रस्त्रयीतनुः । ज्ञानस्कन्धो महाज्ञानी वीरोत्पत्तिरुपप्लवी ॥ ७८॥ भगो विवस्वानादित्यो योगाचारो दिवस्पतिः । उदारकीर्तिरुद्योगी सद्योगी सदसन्मयः ॥ ७९॥ नक्षत्रमार्ला नाकेशः स्वाधिष्ठानषडाश्रयः । पवित्रपादः पापारिर्मणिपूरो नभोगतिः ॥ ८०॥ हृत्पुण्डरीकमासीनः शुक्राशानो वृषाकपिः । तुष्टो गृहपतिः कृष्णः समर्थोऽनर्थशासनः ॥ ८१॥ अधर्मशत्रुरक्षय्यः पुरुहूतः पुरुष्टुतः ॥ बृहद्भुजो ब्रह्मगर्भो धर्मधेनुर्धनागमः ॥ ८२॥ जगद्धितैषी सुगतः कुमारः कुशलागमः । हिरण्यगर्भो ज्योतिष्मानुपेन्द्रस्तिमिरापहः ॥ ८३॥ अरोगस्तपनाध्यक्षो विश्वामित्रो द्विजेश्वरः । ब्रह्मज्योतिः सुबुद्धात्मा बृहज्ज्योतिरनुत्तमः ॥ ८४ मातामहो मातरिश्वा मनस्वी नागहारधृक् । पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः ॥ निरावरणविज्ञानो विरञ्चो विष्टरश्रवाः । आत्मभूरनिरुद्धोऽत्रिर्ज्ञानमूर्तिर्महायशाः ॥ ८६॥ लोकचूडामणिर्वीरश्चन्द्रः सत्यपराक्रमः । व्यालकल्पो महाकल्पः कल्पवृक्षः कलानिधिः ॥ ८७॥ अलकरिष्णुरचलो रोचिष्णुर्विक्रमोत्तमः । आशुः सप्तपतिर्वेगी प्लवनः शिखिसारथिः ॥ ८८॥ असन्तुष्टोऽतिथिः शुक्तः प्रमाथी पापशासनः । वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः ॥ ८९॥ जयो जरारिशमनो लोहिताश्वस्तनूनपात् । पृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्रहा ॥ ९०॥ निदाघस्तपनो मेघः पक्षः परपुरञ्जयः । सुखी नीलः सुनिष्पन्नः सुरभिः शिशिरात्मकः ॥ ९१॥ वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः । मनो बुद्धिरहङ्कारः क्षेत्रज्ञः क्षेत्रपालकः ॥ ९२॥ जमदग्निर्जलनिधिर्विपाको विश्वकारकः । अधरोऽनुत्तरो ज्ञेयो ज्येष्ठो निःश्रेयसालयः ॥ ९३॥ शैलो नाम तरुर्दाहो दानवारिररिन्दमः । चामुण्डी जनकश्चारुर्निःशल्यो लोकशल्यहृत् ॥ ९४॥ चतुर्वेदश्चतुर्भावश्चतुरश्चत्वरप्रियः । आम्नायोऽथ समाम्नायरतीर्थदेवः शिवालयः ॥ ९५॥ वज्ररूपो महादेवः सर्वरूपश्चराचरः । न्यायनिर्वाहको न्यायो न्यायगम्यो निरञ्जनः ॥ ९६॥ सहस्रमूर्धा देवेन्द्रः सर्वशस्त्रप्रभञ्जनः । मुण्डो विरूपो विकृतो दण्डी दान्तो गुणोत्तरः ॥ ९७॥ पिङ्गलाक्षोऽथ हर्यश्वो नीलग्रीवो निरामयः । सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकधृक् ॥ ९८॥ पद्मासनः परं ज्योतिः परावरः परं फलम् । पद्मगर्भो महागर्भो विश्वगर्भो विलक्षणः ॥ ९९॥ यज्ञभुग्वरदो देवो वरेशश्च महास्वनः । देवासुरगुरुर्देवः शङ्करो लोकसम्भवः ॥ १००॥ सर्ववेदमयोऽचिन्त्यो देवतासत्यसम्भवः । देवाधिदेवो देवर्षिर्देवासुरवरप्रदः ॥ १०१॥ देवासुरेश्वरो दिव्यो देवासुरमहेश्वरः । देवासुराणां वरदो देवासुरनमस्कृतः ॥ १०२॥ देवासुरमहामात्रो देवासुरमहाश्रयः । सर्वदेवमयोऽचिन्त्यो देवानामात्मसम्भवः ॥ १०३॥ ईड्योऽनीशः सुरव्याप्तो देवसिंहो दिवाकरः । विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ॥ १०४॥ शिवध्यानरतः श्रीमाञ्शिखी श्रीपर्वतप्रियः । वज्रहस्तः प्रतिष्टम्भी विश्वज्ञानी निशाकरः ॥ १०५॥ ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः । नन्दी नन्दीश्वरो नग्नो नग्नव्रतधरः शुचिः ॥ १०६॥ लिङ्गाध्यक्षः सुराध्यक्षो धर्माध्यक्षो युगावहः । स्ववशः स्वर्गतः स्वर्गः सर्गः स्वरमयः स्वनः ॥ १०७॥ बीजाध्यक्षो बीजकर्ता धर्मकृद्धर्मवर्धनः । दम्भोऽदम्भो महादम्भः सर्वेभूतमहेश्वरः ॥ १०८॥ श्मशाननिलयस्तिष्यः सेतुरप्रतिमाकृतिः । लोकोत्तरः स्फुतालोकस्त्र्यम्बको भक्तवत्सलः ॥ १०९॥ अन्धकारिर्मखद्वेषी विष्णुकन्धरपातनः । वीतदोषोऽक्षयगुणोऽन्तकारिः पूषदन्तभित् ॥ ११०॥ धूर्जटिः खण्डपरशुः सकलो निष्कलोऽनघः । आकारः सकलाधारः पाण्डुरागो मृगो नटः ॥ १११॥ पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः । सामगेयः प्रियः क्रूरः पूण्यकीर्तिरनामयः ॥ ११२॥ मनोजवस्तीर्थकरो जटिलो जीवितेश्वरः । जीवितान्तकरोऽनन्तो वसुरेता वसुप्रदः ॥ ११३॥ सद्गतिः सत्कृतिः शान्तः कालकण्ठः कलाधरः । मानी मन्तुर्महाकालः सद्भूतिः सत्परायणः ॥ ११४॥ चन्द्रसञ्जीवनः शास्ता लोकरूढो महाधिपः । लोकबन्धुर्लोकनाथः कृतज्ञः कृतभूषणः ॥ ११५॥ अनपायोऽक्षरः शान्तः सर्वशस्त्रभृतां वरः । तेजोमयो द्युतिधरो लोकमायोऽग्रणीरणुः ॥ ११६॥ सुविस्मितः प्रसन्नात्मा दुर्जयो दुरतिक्रमः । ज्योतिर्मयो निराकारो जगन्नाथो जलेश्वरः ॥ ११७॥ तुम्बी वीणा महाशोको विशोकः शोकनाशनः । त्रिलोकेशस्रिलोकात्मा सिद्धिः शुद्धिरधोक्षजः ॥ ११८॥ अव्यक्तलक्षणो व्यक्तो व्यक्ताव्यक्तो विशाम्पतिः । वरशीलो वरगुणो गतो गव्ययनो मयः ॥ ११९॥ ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्मतः । वेधा विधाता स्रष्टा च कर्ता हर्ता चतुर्मुखः ॥ १२०॥ कैलासशिखरावासी सर्वावासी सदागतिः । हिरण्यगर्भो गगनः पुरुषः पूर्वजः पिता ॥ १२१॥ भूतालयो भूतपतिर्भूतिदो भुवनेश्वरः । संयमो योगविद्भ्रष्टो ब्रह्मण्यो ब्राह्मणप्रियः ॥ १२२॥ देवप्रियो देवनाथो दैवज्ञो देवचिन्तकः । विषमाक्षो विशालाक्षो वृषदो वृषवर्धनः ॥ १२३ निर्ममो निरहङ्कारो निर्मोहो निरुपद्रवः । दर्पहा दर्पणो दृप्तः सर्वर्तुपरिवर्तकः ॥ १२४॥ सप्तजिह्वः सहस्रार्चिः स्निग्धः प्रकृतिदक्षिणः । भूतभव्यभवन्नाथः प्रभवो भ्रान्तिनाशनः ॥ १२५॥ अर्थोऽनर्थो महाकोशः परकार्यैकपण्डितः । निष्कण्टकः कृतानन्दो निर्व्याजो व्याजदर्शनः ॥ सत्त्ववान्सात्विकः सत्यः कीर्तिस्तम्भः कृतागमः । अकम्पितो गुणग्राही नैकात्मा लोककर्मकुत् ॥ १२७॥ श्रीवल्लभः शिवारम्भः शान्तभद्रः समञ्जसः । भूशयो भूतिकृद्भूतिर्विभूतिर्भूतिवाहनः ॥ १२८॥ अकायो भूतकायरथः कालज्ञानो महापटुः । सत्यव्रतो महात्याग इच्छाशान्तिपरायणः ॥ १२९॥ परार्थवृत्तिवरदो विविक्तः श्रुतिसागरः । अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा ॥ १३०॥ स्वभावभद्रो मध्यस्थः शत्रुघ्नः शत्रुनाशनः । शिखण्डी कवची शूली जटी मुण्डी च कुण्डली ॥ १३१॥ मेखली कञ्चुकी खड्गी मौली संसारसारथिः । अमृत्युः सर्वजित्सिंहस्तेजोराशिर्महामणिः ॥ १३२॥ असङ्ख्येयोऽप्रमेयात्मा वीर्यवान्कार्यकोविदः । वेद्यो वैद्यो वियद्गोप्ता सप्तावरमुनीश्वरः ॥ १३३॥ अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः । सुरेशः शरणं शर्म सर्वः शब्दवतां गतिः ॥ १३४॥ कालः पक्षः करङ्कारिः कङ्कणीकृतवासुकिः । महेष्वासो महीभर्ता निष्कलङ्को विश‍ृङ्खलः ॥ १३५॥ द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः । विवृतः संवृतः शिल्पी व्यूढोरस्को महाभुजः ॥ १३६॥ एकज्योतिर्निरातङ्को नरनारायणप्रियः । निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो व्यग्रनाशनः ॥ १३७॥ स्तव्यः स्तवप्रियः स्तोता व्योममूर्तिरनाकुलः । निरवेद्यपदोपायो विद्याराशिरकृत्रिमः ॥ १३८॥ प्रशान्तबुद्धिरक्षुद्रः क्षुद्रहा नित्यसुन्दरः । ध्येयोऽग्रधुर्यो धात्रीशः साकल्यः शर्वरीपतिः ॥ १३९॥ परमार्थगुरुर्व्यापी शुचिराश्रितवत्सलः । रसो रसज्ञः सारज्ञः सर्वसत्त्वावलम्बनः ॥ १४०॥ एवं नाम्नां सहस्रेण तुष्टाव गिरिजापतिम् । सम्पूज्य परया भक्त्या पुण्डरीकैद्विजोत्तमाः ॥ १४१॥ जिज्ञासार्थं हरेर्भक्त्या कमलेषु शिवः स्वयम् । तत्रैकं गोपयामास कमलं मुनिपुङ्गवाः ॥ १४२॥ हृते पुष्पे तदा विष्णुश्चिन्तयन्किमिदं त्विति । ज्ञात्वाऽऽत्मनोऽक्षिमुद्धृत्य पूजयामास शङ्करम् ॥ १४३॥ अथ ज्ञात्वा महादेवो हरेर्भक्ति सुनिश्चलाम् । प्रादुर्भूतो महादेवो मण्डलात्तिग्मदीधितेः ॥ १४४॥ सूर्यकोटिप्रतीकाशस्त्रिनेत्रश्चन्द्रशेखरः । शूलटङ्कदगाचक्रकुन्तपाशधरो विभुः ॥ १४५॥ वरदाभयपाणिश्च सर्वाभरणभूषितः । तं दृष्ट्वा देवदेवेशं भगवान्कमलेक्षणः ॥ १४६॥ पुनर्ननाम चरणौ दण्डवच्छूलपाणिनः । दृष्ट्वा शम्भुं तदा देवा दुद्रुवुर्भयविह्वलाः ॥ १४७॥ चचाल ब्रह्मभुवनं चकम्पे च वसुन्धरा । अधश्चोर्ध्वं ततः प्रीते ददाह शतयोजनम् ॥ १४८॥ शम्भोर्भगवतस्तेजस्तद्दृष्ट्वा प्रहसञ्शिवः । अब्रवीच्छार्ङ्गिणं विप्राः कृताञ्जलिपुटं स्थितम् ॥ १४९॥ देवकार्यमिऽदं ज्ञातमिदानीं मधुसूदन । दिव्यं ददामि ते चक्रमद्भुतं तत्सुदर्शनम् ॥ १५०॥ हितार्थं सर्वदेवानां निर्मितं यन्मया पुरा । गृहीत्वा तद्गुणैर्दैत्याञ्जहि विष्णो ममाऽऽज्ञया ॥ १५१॥ एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम् । लोकेषु पुण्डरीकाक्ष इति ख्यातिं गता हरिः ॥ १५२॥ पुनस्तमब्रवीच्छम्भुर्नारायणमनामयम् । वरानन्यान्सुरश्रेष्ठ वरयस्व यथेप्सितान् ॥ १५३॥ एवं शम्भोर्निगदितं श्रुत्वा देवो जनार्दनः । अब्रवीत्खण्डपरशुं प्राञ्जलिः प्रणयान्वितः ॥ १५४॥ श्रीविष्णुरुवाच - भगवन्देवदेवेश परमात्मञ्शिवाव्यय । निश्चला त्वयि मे भक्तिर्भवत्विति वरो मम ॥ १५५॥ ईश्वर उवाच - भक्तिर्मयि दृढा विष्णो भविष्यति तवानघ । अजेयस्त्रिषु लोकेषु मत्प्रसादाद्भविष्यसि ॥ १५६॥ सूत उवाच - एवं दत्त्वा वरं शम्भुर्विष्णवे प्रभविष्णवे । अन्तर्हितो द्विजश्रेष्ठा इति देवोऽब्रवीद्रविः ॥ १५७॥ नाम्नां सहस्रं यद्दिव्यं विष्णुना समुदीरितम् । यः पठेच्छृणुयाद्वाऽपि सर्वपापैः प्रमुच्यते ॥ १५८॥ अश्वमेधसहस्रस्य फलं प्राप्नोति निश्चितम् । पठतः सर्वभावेन विद्या वा महती भवे ॥ १५९॥ जायते महदैश्वर्यं शिवस्य दयितो भवेत् । दुस्तरे जलसङ्घाते यज्जलं स्थलतां व्रजेत् ॥ १६०॥ हारायन्ते महासर्पाः सिंहः क्रीडामृगायते । तस्मान्नाम्नां सहस्रेण स्तोतव्यो भगवाञ्शिवः ॥ १६१॥ प्रयच्छत्यखिलान्कामान्देहान्ते च परां गतिम् ॥ १६२॥ इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे (विष्णुचक्रप्राप्तिकथनं नामैकचत्वारिंशोऽध्यायः) श्रीशिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥